संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथरुद्रहोमेद्रव्यंमंत्रविभागश्च व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथरुद्रहोमेद्रव्यंमंत्रविभागश्च ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथरुद्रहोमेद्रव्यंमंत्रविभागश्च Translation - भाषांतर श्री: ॥ एवंग्रहहोमंविधाय तत:प्रागुक्तन्यासपूर्वकंप्रागुक्तार्षेयादिस्मरणपूर्वकंचश्रीरुद्रंध्यायन् स्वयंजुहुयात् । पुत्राध्यर्थेमहारुद्रेत्वेवमृत्विजोजुहुयु: । तत्रद्रव्यानिकृष्णतिला: यवा: मिश्रिताउभये व्रीहय: आज्यंचेति । पुत्रार्थमहारुद्रेत्वाज्यपरिप्लुतादूर्वा: । अयंचहोम:प्रधानभूतेहोमरुद्रेजपरुद्रांगहोमेवारुपादिपंचस्वपिहोमेषु ॥ अथजपरुद्रस्यांगभूतोहोमस्त्रेधा समग्रहोमोदशांशहोम:शतांशहोमश्चेति । होमरुद्रेतुपंचस्वपिसमग्रहोमएव । तत्रैपुत्रिष्वपिपक्षेषुषड्भिप्रकारै:र्मंत्रविभाग: । एकधा १ त्रेधा २ षोढा३ षोडशधा ४ अष्टाचत्वारिंशध्दा ५ एकोनसप्तत्युत्तरशतधा ६ चेति । अयंचनमकविभाग: । एकधा १ त्रेधा २ षोढा ३ षोडशधा ४ अष्टाचत्वारिंशध्दा ५ एकोनसप्तत्युत्तरशतधा ६ चेति । अयंचनमकविभागएव । चमकेषुतुएतत्पक्षप्रदर्शनएवविशेष:स्पष्टीभविष्यति । एतत्पक्षप्रदर्शनएवचमकानांसंख्याप्युच्यते । तत्रैकधाविभागस्तावद्रूपेसमस्तनमकाध्यायेनैकाहुति:चमकेष्वग्नाविष्णूइत्यृचाएकाहुतिंहुत्वा वाजश्चमइत्यादिसमग्राध्यायेनापराआहुतिरिति । यद्वाअग्नाविष्णूइत्येकाएकादशचमकानुवाकैरेकाशेति । ततश्चरुपेसमग्रहोमीकधाविभागपक्षेतिस्त्रस्त्रयोदशवाहुतयोभवंति १ ॥त्रेधाविभागोपिरुपेआध्यैश्चतुर्भिरनुवाकैरेकाहुति: अपरैश्चतुर्भिर्द्वितीया शेषैस्तिसृभिस्तृतीया । यद्वानमस्तइत्यारभ्यसभापतिभ्यश्चवोनमइत्यंतेनैका नमोअश्वेभ्यइत्यारभ्यनम: पार्यायचावार्यायचेत्यंतेनापरा नम:प्रतरणायचेत्यारभ्यसमाप्तिपर्यंतेनतृतीयेतिचमकेपक्षद्वयंप्राग्वत् । ततश्चरुपेसमग्रहोमेत्रेधाविभागपक्षेपंचपंचदशवाआहुतय: २ ॥षोढाविभागेरुपेत्रेधाविभागवदेवाध्यविभागाभ्यामाहुतिद्वयं तृतीयविभागेयएतावंतइत्यृगंतेनतृतीयाआहुति: नमोरुद्रेभ्योयेपृथिव्यांयेषामन्नमिति नमोरुद्रेभ्योयेंतरिक्षेयेषांवातइति नमोरुद्रेभ्योयेदिवियेषांवर्षमिषवइत्यादिवाक्यशेषसहितैस्त्रिभिर्यजुर्भिराहुतित्रयमिति चमकेपक्षद्वयमुक्तं । ततश्चरुपेसमग्रहोमेषोडशधाविभागापक्षेअष्टादशाष्टाविंशतिर्वाआहुतय: ४ ॥अष्टचत्वारिंशध्दाविभागेपिरुपेनमस्तइतिप्रथमानुवाकऋग्भि:पंचदशाहुतय: तत्राष्टमोमंत्र:षट्पाद:ततोष्टभिरनुवाकैरष्टौ दशमेनुवाकेद्वादशऋग्भिर्द्वादशएकादशानुवाकेप्राग्वदृशभिर्दश नमोरुद्रेभ्यइतिपूर्ववत्रिभिर्यजुर्भिस्तिस्त्रइति चमकेप्राचीनंपक्षद्वयं । ततश्चरुपेसमग्रहोमेपंचाशत्षष्टिर्वाहुतय: ५ ॥एकोनसप्तत्युत्तरशतधाविभागेपिरुपे तत्रप्रथमानुवाकेपंचदशर्ग्भि:पंचदशाहुतय: द्वितीयतृतीयचतुर्थानुवाकेषूभयतोनमस्कारै: सप्तचत्वारिंशभ्दिर्यजुर्भि:सप्तचत्वारिंशत् पंचमषष्ठसप्तमाष्टमनवमानुवाकेषुपुरस्तान्नमस्कारैद्वर्यशीतिभिर्यजुर्भिर्ध्यशीति: । एष्वपियजुष्षुउभयतोनमस्कारत्वंकेचिदिच्छंति तत्रनमोभवायचरुद्रायचनमइतिपठित्वातमेवनम:शब्दंपुनरावर्त्यनम:शर्वायचपशुपतयेचनमइतिपठेदित्यादिज्ञेयं । तत्रपक्षद्वयेपिनमोव:किरिकेभ्यइत्यादिमंत्रचतुष्टयेदेवानाहृदयेभ्य इतिप्रत्येकमावर्तनीयं । अयंचनमोव:किरिकेभ्यइत्यत्रसहस्त्राणिसहस्त्रशइत्यत्रनमोरुद्रेभ्योयेपृथिव्यामित्यत्रचयोनुषंगउक्त:सयदाएतैर्मंत्रै:प्रत्येकंहोमस्तदैव । यदातुनैभि:प्रत्येकहोमस्तदाजपेएकधाहोमादावभिषेकपारायणेचयथाध्ययनमेवपाठ: । ततोदशमानुवाकेद्वादशर्ग्भिर्द्वादशाहुतय: एकादशानुवाकेप्राग्वद्दशभिर्दशनमोरुद्रेभ्यइतिचत्रिभिर्यजुर्भिस्तिस्त्रइति चमकेचपक्षद्वयंप्रागुक्तं । ततश्चरुपेसमग्रहोमेएकोनसप्तत्युत्तरशतधाविभागपक्षेएकोनसप्तत्युत्तरंशतं एकाशीत्यधिकशतंवा ६ ॥रुपेदशांशशतांशहोमोनभवति । एवंवक्ष्यमाणदशांशशतांशहोमेऽवशिष्टदशांशशतांशहोमोनेतिकेचित् । सर्वत्ररुपेआध्यविभागत्रयेदशांशाध्यसंभवेपिउत्तरविभागत्रयेदशांशादिप्राप्तिरस्तीत्यन्ये । अयमेवचशिष्टैरादृत:पक्ष: । तत्ररुपेदशांशहोमेषोडशधाविभागपक्षेआहुतिद्वयंदशांश: । अर्धाधिकेअल्पांतरत्वेनसमस्ताहुतिग्रहणात् । तच्चाध्याभ्यांमंत्राभ्यां । यद्वानआध्येनात्येनचमंत्रेनेतियाज्ञिका: । तत्रैवाष्टाचत्वारिंशत्पक्षेपंचाहुतयोदशांश: । तत्राध्यैरेवपंचभिर्यद्वाध्याभ्यांअंत्यैस्त्रिभिरितिपक्षद्वयं । तत्रैवैकोनसप्तत्युत्तरशतमंत्रपक्षेसप्तदशाहुतयोदशांश: । तत्राप्याध्याएवसप्तदशआध्यानवअंत्याअष्टौवेतिपक्षद्वयं । रुपेएवषष्ठेपक्षेशतांशाहुतिद्वयंप्राग्वन्मंत्राभ्यांज्ञेयं । यत्रसमग्रेणनमकरुपेणहोमस्तत्रैवचमकाहुतिर्नान्यत्र । तेनैषुत्रिष्वपिपक्षेषुनचमकाहुति: ॥ रुध्यांतुसमग्रहोमेएकधाविभागेएकादशनमकाहुतय: चमकेतुअग्नाविषूइत्येका एकादशभिश्चमकानुवाकैर्नमकप्रतिरुपकयोजितैरेकैकरुपांते एकैकेतिद्वादशसर्वास्त्रयोविंशतिराहुतय: । तत्रैवत्रेधाविभागेनमकानांत्रयस्त्रिंशत् चमकानांप्राग्वद्वादशेतिसर्वा:पंचचत्वारिंशत् ।तत्रैवषोढाविभागेनमकानांषडध्काषष्टि:चमकाहुतिभि:सहाष्टासप्तति: । तत्रैवषोडशधाविभागेनमकानांषट्सत्यप्त्युत्तरंशतंचमकाहुतिभि:सहाष्टाशीत्यधिकंशतं । तत्रैवाष्टाचत्वारिंत्पक्षेनमकानामष्टविंशत्यधिकापंचाशत् चमकै:सहचत्वारिंशदधिकातत्रैवैकोनसप्तत्युत्तरशतधाविभागेनमकानामष्टादशशतान्येकोनषष्टिश्च चमकै:सहैकसप्ततिरिति ॥रुद्राध्यांदशांशहोमेरुपेसमग्रहोमेएकधाविभागादिषट्पक्षेषुयासंख्योक्तासैवात्रबोध्दव्या ॥ तत्रषोडशधाविभागादिपक्षेअवशिष्टरुपस्यदशांशरुपाद्वि:पंचसप्तदशसहिताक्रमेणप्रागुक्तैवसंख्याबोध्दव्या ॥ तध्यथा । विंशतिस्त्रिंशद्वा पंचपंचाशत्वंचष्टिर्वा एकोननवतिर्नवनवतिर्वेति रुध्यांशतांशहोम:षोडशधाविभागादिपक्षत्रयएवसंभाव्यते । तत्रनमकेप्राग्वदाहुतिद्वयं चमकेचोक्तंपक्षद्वयमितिचतस्त्रश्चतुर्दशवाषोडशधाविभागेआहुतय: । अष्टचत्वारिंशध्दाविभागेतुनमकेप्राग्वत्पंचचमकेद्वौपक्षावितिसप्तसप्तदशवाहुतयोभवंति । एकोनसप्तत्युत्तरशतधाविभागेतुनमकेसप्तदश चमकेचपक्षद्वयमितिविंशतिस्त्रिंशद्वेति ॥ लघुरुद्रेसमग्रहोमेकधापक्षेएकविंशत्युत्तरशतनमकानांतावत्यआहुतय: चमकानांद्वात्रिंशदुत्तरंशतमितिचमकै:सहत्रिपंचाशदधिकंशतद्वयमाहुतय: । तत्रैवत्रेधाविभागेनमकानांत्रिषष्ठयधिकंशतत्रयं चमकानामनंतरोक्ताएवेतिचतु:शतानिपंचनवतिश्च । तत्रैवषोढाविभागपक्षेनमकानांसप्तशतानिषड्विंशशतिश्च चमकानांतावत्यएवेतिसर्वाअष्टशतानिअष्टपंचाशच्च । तत्रैवषोडशधाविभागपक्षेनमकानांसहस्त्रमेकंनवशतानिषड्विंशतिश्च चमकानांतावत्यएवेतिसर्वा:सहस्त्रद्वयमष्टषष्टिश्च । तत्रैवाष्टाचत्वारिंशत्पक्षेनमकानांपंचसहस्त्राणिअष्टशतान्यष्टौचचमकानामुक्ताएवेति चमकै:सहसर्वा:पंचसहस्त्राणिनवशतानिचत्वारिंशच्च । तत्रैकोनसप्तत्युत्तरशतधाविभागपक्षेनमकानांविंशतिसहस्त्राणिचत्वारिशतान्येकोनपंचाशच्च चमकानांतावत्यएवेतिसर्वाविंशतिसहस्त्राणिपंचशतानिएकाशीतिश्चेति । लघुरुद्रएवदशांशहोमेएकधापक्षेद्वादशरुपकाणिदशांशइतिनमकानांद्वादशाहुतय: चमकानांचरुपकेषुक्रमेणद्वादशेतिसर्वाश्चतुर्विंशति: । तत्रैवत्रेधाविभागेनमकानांषट् त्रिंशत् । चमकाहुतिभि:सहाष्टाचत्वारिंशत् । तत्रैवषोढाविभागेनमकानांद्विसप्तति: चमकाहुतिभि: सहचतुरशीति: । तत्रैवषोडशधाविभागेनमकानामेकंशतंत्रिनवति:अवशिष्टरुपस्यचप्राग्वद्द्वे चमकै:सहद्वेशतेषट्च । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांपंचशतानिषट्सप्तति:अवशिष्टरुपस्यप्राग्वत्सप्तदश चमकै:सहद्वेसहस्त्रेसप्तपंचाशदाहुतयइति ॥लघुरुद्रएवशतांशहोमेएकधापक्षेनमकाध्यायेनैका चमकै:सहतिस्त्रस्त्रयोदशवाहुतय: । अत्रास्मिन्नेवपक्षेऽवशिष्टरुपाणांसंख्याभाव: । तत्रैवत्रेधाविभागपक्षेरुपकस्यतिस्त्र:अवशिष्टैकविंशतिरुपाणामेकाचमकै:सहषट्षोडशवा ॥तत्रैवषोढापक्षेरुपस्यषट्अन्याचैका चमकै:सहनवएकोनविंशतिर्वा । तत्रैवषोडशधापक्षेरुपस्यषोडशअन्यास्त्रिस्त्र: चमकै:सहएकविंशतिरेकत्रिंशव्दा । तत्रैवाष्टाचत्वारिंशध्दापक्षेरुपस्यस्याष्टाचत्वारिंशत् अन्यादश चमकै:सहषष्टि:सप्ततिर्वा । तत्रैवैकोनसप्तत्युत्तरशतधापक्षेरुपस्यतावत्य:अन्या:पंचत्रिंशत् चमकै:सहषडुत्तरंषोडशाधिकंवाशतद्वयमिति । अवशिष्टरुपेरुपकमंत्रविभाग:प्रागुक्त: ॥ महारुद्रेसमग्रहोमेएकधापक्षेनमकानांसहस्त्रमेकंत्रीणिशतानिएकत्रिंशच्चाहुतय: चमकानामेकंसहस्त्रंचतु:शतंद्विपंचाशच्चेतिसर्वा:द्वेसहस्त्रेसप्तशतानित्र्यशीतिश्च । तत्रैवत्रेधाविभागेनमकानांत्रिसहस्त्राणिनवशतानित्रिनवतिश्चचमकै:सहपंचसहस्त्राणिचत्वारिशतानिपंचचत्वारिंशच्च । तत्रैवषोढाविभागेनमकानांसप्तसहस्त्राणिनवशतानिषडशीतिश्च चमकै:सहनवसहस्त्राणिचत्वारिशतानिअष्टविंशच्च । तत्रैवषोडशधाविभागेनकमानामेकविंशतिसहस्त्राणिद्वेशतेषण्णवतिश्च चमकै:सहद्वाविंशतिसहस्त्राणिसप्तशतानिअष्टाचत्वारिंशच्च । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांत्रिषष्टिसहस्त्राणि अष्टौशतानिअष्टाशीतिश्च चमकै:सहपंचषष्टिसहस्त्राणित्रिशतानिचत्वारिंशच्च । तत्रैवैकोनसप्तत्युत्तरशतधाविभागेनमकानांद्वेलक्षेचतुर्विंशतिसहस्त्राणिनवशतानिएकोनचत्वारिंशच्च चमकै:सहद्वेलक्षेषड्विंशतिसहस्त्राणित्रिशतान्येकनवतिश्च ॥महारुद्रेदशांशहोमेएकधाविभागेनमकानामेकंशतंत्रयस्त्रिंशच्चरुपाणीतितावत्यआहुतय: चमकानांद्वादश रुद्रियावृत्त्यात्रयस्त्रिंशच्छतंचमकरुपयोजनेद्वेद्वादशवेतिसर्वाद्वेशतेएकोनाशीतिरेकोननवतिर्वा । तत्रैवत्रेधाविभागेनमकानांत्रीणिशतानिनवनववतिश्च चमकै:सहपंचशतानिंपंचचत्वारिंशत्पंचपंचाशव्दा । तत्रैवषोढाविभागेनमकानांसप्तशतानिअष्टनवतिश्च चमकै:सहनवशतानिचतुश्चत्वारिंशच्चतु:पंचाशद्वा । एषुत्रिष्वपिपक्षेष्ववशिष्टरुपाणांदशांशोनास्ति । तत्रैवषौडशधाविभागेनमकानांद्वेसहस्त्रेएकंशतंअष्टाविंशतिश्च अवशिष्टरुपस्यद्वे चमकै:सहद्वेसहस्त्रेद्वेशतेषट्सप्तति:षडशीतिर्वा । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांषट्सहस्त्राणित्रीणिशतानिचतुरशीतिश्च अवशिष्टरुपेपंच चमकै:सहषट्सहस्त्राणिपंचशतानिपंचत्रिंशत् पंचचत्वारिंशव्दा । तत्रैवैकोनसप्तत्युत्तरशतधाविभागेनमकानांद्वाविंशतिसहस्त्राणिचत्वारिशतानिसप्तसप्ततिश्च अवशिष्टरुपेसप्तदश चमकै:सहद्वाविंशतिसहस्त्राणिषट्शतानिचत्वारिंशत् पंचाशद्वेति ॥ महारुद्रेशतांशहोमेएकधाविभागेत्रयोदशरुपाणिशतांशइतितावत्यआहुतय: चमकानांत्वेकादशिन्यांद्वादशरुपद्वयेच चमकानांप्रत्येकंद्वेद्वाशवेतिचतस्त्रश्चतुर्विंशतिर्वासर्वाएकोनत्रिंशदेकोनपंचाशद्वा । अत्रास्मिन्नेवपक्षेअवशिष्टरुपाणांशतांशोनास्ति । तत्रैवत्रेधाविभागेनमकानामेकोनचत्वारिंशत् अवशिष्टैकत्रिंशद्रूपाणांचैकाचमकै:सहषट्पंचाशत् षट्सप्ततिर्वा ।तत्रैवषोढाविभागेनमकानामष्टसप्तति:अवशिष्टरुपाणांद्वे चमकै:सहषण्ण्वति:षोडशाधिकंशतंवा । तत्रैवषोडशधाविभागेद्वेशतेअष्टौच अवशिष्टरुपाणांपंच चमकै:सहद्वेशते एकोनत्रिंशदेकोनपंचाशद्वा । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांषट्शतानिचतुर्विंशतिश्च अवशिष्टरुपाणांद्विपंचदश चमकै:सहषट्शतानिपंचपंचाशत्पंचसप्ततिरा । तत्रैवैकोनसप्तत्युत्तरशतधाविभागेनमकानांद्वेसहस्त्रेएकंशतंसप्तनवतिश्च अवशिष्टरुपाणांद्विपंचाशत् चमकै:सहद्वेसहस्त्रेद्वेशतेपंचषष्टि:पंचाशीतिर्वेति ॥ अतिरुद्रेसमग्रहोमेएकधापक्षेचतुर्दशसहस्त्राणिषट्शतानिएकचत्वारिंशच्चरुपकाइतिषांतावत्यआहुतय: । चमकानांतुप्रत्येकंरुध्यांद्वादशेतिपंचदशसहस्त्राणिनवशतानिद्वासप्ततिश्चसर्वास्त्रिंशत्सहस्त्राणिषट्शतानित्रयोदशचाहुतय: । तत्रैवत्रेधाविभागेरुपाणांत्रिचत्वारिंशत् सहस्त्राणिनवशतानित्रयोविंशतिश्चमकै:सहएकोनषष्टिसहस्त्राणिअष्टौशतानिपंचनवतिश्च तत्रैवषोढाविभागेरुपाणांसप्ताशीतिसहस्त्राणिअष्टौशतानिषट्चत्वारिंशच्चचमकै:सहलक्षमेकंत्रीणिसहस्त्राणिअष्टौशतान्यष्टादशच । तत्रैवषोडशधापक्षेरुपाणांसप्ताशीतिसहस्त्राणिअष्टौशतानिषट्चत्वारिंशच्चचमकै:सहलक्षमेकंत्रीणिसहस्त्राणिअष्टौशतान्यष्टादशच ।तत्रैवषोडशधापक्षेरुपाणांद्वेलक्षेचतुस्त्रिंशत्सहस्त्राणिद्वेशतेषट्पंचाशच्चचमकै:सहद्वेलक्षेपंचाशत्सहस्त्राणिद्वेशतेअष्टाविंशतिश्च । तत्रैवाष्टाचत्वारिंशध्दापक्षेरुपाणांसप्तलक्षाणिद्वेसहस्त्रेसप्तशतान्यष्टषष्टिश्च चमकै:सहसप्तलक्षाणिअष्टादशसहस्त्राणिसप्तशतानिचत्वारिंशच्च । तत्रैवएकोनसप्तत्युत्तरशतधाविभागेचतुर्विंशतिर्लक्षाणिचतु:सप्ततिसहस्त्राणित्रीणिशतान्येकोनत्रिंशच्च चमकै:सहचतुर्विंशतिलक्षाणिनवतिसहस्त्राणित्रीणिशतान्येकाचेति ॥ अतिरुद्रेदशांशहोमेएकधापक्षेनमकानामेकंसहस्त्रंचत्वारिशतानिचतु:षष्टि:श्चाहुतय:चमकानुवाकानांप्रतिरुपयोजनेएकंसहस्त्रंपंचशतानिषण्णवति:अवशिष्टरुपेचद्वेद्वादशवेतिसर्वास्त्रीणिसहस्त्राणिद्विषष्टिर्द्वासप्ततिर्वा । तत्रैवत्रेधापक्षेनमकानांचत्वारिसहस्त्राणित्रीणिशतानिद्वानवतिश्च चमकै:सहपंचसहस्त्राणिनवशतानिनवति:शतंवा । तत्रैवषोढापक्षेनमकानांचत्वारिसहस्त्रानित्रीणिशतानिद्वानवतिश्च चमकै:सहपंचसहस्त्राणिनवशतानिनवति:शतंवा । तत्रैवषोढापक्षेनमकानामष्टौसहस्त्राणिसप्तशतानिचतुरशीतिश्च चमकै:सहदशसहस्त्राणित्रिशतानिव्ध्यशीतिर्द्वानवतिर्वा । एषुत्रिष्वपिपक्षेषुमूलावशिष्टरुपदशांशाभाव: । तत्रैवषोडशधापक्षेनमकानांत्रयोविंशतिसहस्त्राणिचत्वारिशतानिचतुर्विंशतिश्च मूलावशिष्टरुपस्यद्वे चमकै:सहपंचविंशतिसहस्त्राणिचतुर्विंशतिश्चतुस्त्रिंशद्वा । तत्रैवाष्टाचत्वारिंशध्दापक्षेनमकानांसप्ततिसहस्त्राणिद्वेशतेद्विसप्ततिश्च मूलावशिष्टरुपस्यचपंच चमकै:सहएकसप्ततिसहस्त्राणिअष्टौशतानिपंचसप्तति:पंचाशीतिर्वा । तत्रैवैकोनसप्तत्युत्तरशतधापक्षेनमकानांद्वेलक्षेसप्तचत्वारिंशत्सहस्त्राणिचत्वारिशतानिषोडशच मूलावशिष्टरुपस्यचसप्तदश चमकै:सहद्वेलक्षएकोनपंचाशत्सहस्त्राणिएकत्रिंशदेकचत्वारिंशद्वा ॥अतिरुद्रेशतांशहोमेएकधाविभागेनमकानांएकशतंषट्चत्वारिंशच्चेतितेषांतावत्य आहुतय: अवशिष्टैकचत्वारिंशद्रूपाणांशतांशोनसंभवति । चमकानांत्रयोदशरुद्रीष्वेकंशतंषट्पंचाशच्चरुपकत्रयेद्वेद्वादशवेतिषट् त्रिंशद्वासर्वास्त्रीणिशतानिअष्टावष्टत्रिंशद्वा । तत्रैवत्रेधाविभागेनकमानांचत्वारिशतान्यष्टाविंशतिश्च अवशिष्टरुपाणामेकाचमकै:सहषट्शतानिएकएकत्रिंशद्वा । तत्रैवषोढाविभागेनमकानांअष्टौशतानिषट्सप्ततिश्चअवशिष्टरुपाणांद्वे चमकै:सहएकंसहस्त्रंचत्वारिंपंचशतानिपंचपंचत्रिंशद्वा । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांसप्तसहस्त्राणिअष्टौच अवशिष्टरुपाणांविंशति:चमकै:सहसप्तसहस्त्राणिएकंशतंनवतिश्चशतद्वयंविंशतिश्चवा । तत्रैवैकोनसप्तत्युत्तरशतधाविभागेनमकानांचतुर्विंशतिसहस्त्राणिषट्शतानिचतु:सप्ततिश्च अवशिष्टरुपाणामेकोनसप्तति: चमकै:सहचतुर्विंशतिसहस्त्राणिनवशतानिपंचपंचत्रिंशद्वेति ॥ एवंकैश्चिद्रुद्रहोमसंख्याभिहिता । अन्यैस्तुयत्रप्रागुक्तसंख्यातोधिकंरुपकमवशिष्यतेतत्रसमग्ररुपकेणहोम: । यत्रत्वाहुतयोवशिष्यंतेतत्रषडाहुतिपर्यंतमाध्यैस्त्रिभिर्मंत्रैस्त्रिस्त्र आहुतय:अंत्यै:स्त्रिभिस्तिस्त्र: । यत्ररुपादधिकाअवशिष्यंतेतत्ररुपकेणहोम: । रुपकेचद्वेद्वादशवाचमकाहुतय: । एवंचकिंचिदधिकमात्रंहोमेसंपध्यतेनतुप्रागुक्तपक्षवत्प्रधानभूतकियध्दोमलोपोभवतित्युक्तं । अस्मिंश्चपक्षेप्रागुक्तसंख्ययैषांसंख्याएकीकृत्ययोज्या । इहचरुद्रहोमेउक्तेष्वनेकप्रकारेषुयत्रयत्राहुतिसंख्याधिक्यमाहुतिपरिमाणाधिक्यंवातत्रतत्रफलतारतम्यंद्रष्टव्यं ॥ एवंरुद्रहोमंविधायहृदयाध्यस्त्रांतंप्रागुक्तंपंचांगन्यासंकुर्यात् ॥ ऋत्विगादिपक्षेतुसर्वेप्येवमेवकुर्यु: ॥ ततआचार्योयजमानोवाप्रागुक्तरुद्रपीठदेवताभ्यस्तत्तन्नाममंत्रैराज्यंस्त्रुवेणजुहुयात् ॥ इहचहौम्यद्रव्यमधोमेखलायांभूमौवापतितमग्नौनक्षिपेत् मध्यमोपरिमेखलयो:पतितस्यपरिधिपरिस्तरणांतर्गतत्वेनाग्निप्रक्षेपार्हत्वात्तद्वहिर्गतस्यांत:प्रक्षेपनिषेधाच्चेतिहोमप्रकारसंक्षेप: ॥एवंहोमंपरिसमाप्यचंदनाध्युपचारैरग्नेनयेतिमंत्रेणसंकल्पपूर्वकंस्वाहास्वधायुतमग्निंपूजयेत् । अग्नयेगंधादिबहिरेवदध्यात्। ततोग्रहपीठदेवतानांरुद्रपीठदेवतानांचोत्तरपूजांकेचिदाहु: ॥ पूजासंपूर्णतांवाचयित्वायस्यस्मृत्याआवाहनंनजानामीत्युक्त्वास्विष्टकृदादिनवाहुतीश्चहुत्वाबलिदानंइंद्रादिलोकपालेभ्योग्रहेभ्यश्चकृत्वा रुद्रपीठस्याग्रेकद्रुद्रायेतिरुद्रायबलिंदत्त्वापूर्णाहुतिंवसौर्धारांचजुहुयात् (बलिदानपूर्णाहुतिसोर्धारादिपूर्वंमात्स्येग्रहयज्ञेद्रष्टव्यं) ॥एवंवसोर्धारांविधाययथाशाखंपूर्णपात्रविमोकादिकर्मशेषंसमापयेदाचार्य: । तदनंतरंवरणक्रमेणऋत्विज:प्रतिनिधयश्चोदद्मुखा:प्राड्मुखयजमानहस्तेश्रेय:संपादनंकुर्वंति ॥ तच्चैवं ॥शिवाआप:संत्वितियजमानहस्तेजलंक्षिपेत् सौमनस्यमस्त्वितिपुष्पंअक्षतंचारिष्टंचास्त्वित्यक्षतान् दीर्घमायु:श्रेय:शांति:पुष्टिस्तुष्टिश्चास्त्वितिपुनर्जलं । मयाभवन्नियोगेनमहारुद्रमध्येयथांशेनय:कृतोजपस्तद्दशांशेनामुकपक्षेणचय:कृतोहोमस्तस्माज्जपाध्दोमाच्चयदुत्पन्नंश्रेयस्तत्तुभ्यमहंसंप्रददइति ॥ इदंनिर्मूलत्वाध्यजमानप्रतारनामात्रमेव । तदनंतरमग्ने:पश्चिमभागेप्राड्मुखोपविष्टोयजमानउदड्मुखानाचार्यादीन् पूजयिष्य इतिसंकल्प्य श्रीमहारुद्रस्वरुपिणेआचार्यायेदंपाध्यंइदंबार्हस्यत्यंवासोयुगुलमित्यादिगंधपुष्पधूपदीपतांबूलानिदत्त्वा पूर्वोक्तविशेषणवतिकालेदेशेचकृतस्यमहारुद्रादिकमण:प्रतिष्ठासिध्द्यर्थममुकगोत्रायामुकवेदांतर्गतामुकशाखाध्यायिनेमुकशर्मणेआचार्याययथाशक्यलंकृतामिमांसवत्सांगांरुद्रदैवत्यां इदंचहिरण्यमग्निदैवतंतुभ्यमहंसंप्रददइतिकुशाक्षतसहितजलंविप्रहस्तेनिक्षिप्य नममेतिवदेत् विप्र:स्वस्तीत्युक्त्वाकामस्तुतिंकइदंकस्माअदादित्यादिकांस्वशाखास्थांपठेत् ॥ एवमेवब्रह्मपूजांविधायदक्षिणांदत्त्वा अनंतरंग्रहजापेकभ्य:पूजापूर्वकंग्रहदक्षिणादेयाअनंतरमृत्विजोपिपूजयित्वासंकल्पपूर्वकंदक्षिणांदध्यात् गोरभावेतन्निष्क्रयत्वेननिष्कंतदर्धंवासुवर्णंशक्त्यादध्यात् ततोद्वारजापकेभ्योदक्षिणादेया ततोनानावेदांतर्गतनानाशाखाध्यायिभ्योनानागोत्रेभ्योनानाशर्मभ्योब्राह्मणेभ्योदीनानाथेभ्यश्चयथाशक्तिभूयसींदक्षिणांदातुमुत्सृजेनममेतिसकुशाक्षतजलंक्षिप्त्वा ॐ तत्सदितिवदेत् ॥ तदनंतरग्रहवेदिसमीपस्थकलशोदकेनरुद्रकलशोदकेनद्वारकलशोदकेनद्वारकलशोदकेनचदूर्वापंचपल्लवैरुद्रड्मुखाआचार्यर्त्विजस्तिष्ठंत:प्राड्मुखंसकुटुंबमुपविष्टंयजमानभिषिंचेयु: अभिषेकेपत्नीवामभागे अभिषेकसमयेगीतवाध्यादिमंगलघोष:कार्य: ॥समुद्रज्येष्ठाइतिचतसृणांवसिष्ठआपस्त्रिष्टुप् अभिषेकेविनियोग: ॐ समुद्रज्येष्ठा:० ४त्रायंतामिहदेवाइत्यादि अक्षीभ्यामित्यादिच अन्येपिस्वशाखोक्तामंत्राग्राह्या: पौराणास्तुसुरास्त्वामभिषिंचंत्वित्यादय: एवमभिषेकानंतरंसर्वौषधीभिरनुलिप्यशुध्दोदकेनस्त्रात्वाशुक्लमाल्यांबरानुलेपन:सपत्नीकोयजमानोग्रहरुद्रपीठदेवतानांगंधाध्युपचारैरुत्तरपूजांदक्षिणाप्रदक्षिणानमस्कारांतां निर्वर्त्यपुष्पांजलिंदत्त्वा आवाहनंनजानामि० अपराधसहस्त्राणि० यस्य स्मृत्या० मंत्रहीनं० इतिपीठद्वयेक्षमाप्य उत्तिष्ठब्रह्मणस्पते अभ्यारमिदद्रय: यांतुदेवगणाइतिपुष्पाक्षतप्रक्षेपेणग्रहपीठदेवताविसृज्यएवमेवरुद्रपीठेदेवताविसर्जयेत् ग्रहपीठंपूजोपस्करयुतं रुद्रपीठमपिसोपस्करंरुद्रप्रतिमांचाचार्यायदध्यात् ॥ तत्रप्रतिमादानमंत्रा: ॥ श्रीरुद्रप्रतिमांस्वर्णमयींवस्त्रयुगान्वितां ॥ श्रीरुद्रप्रीतयेचापिप्राप्तानिष्टनिवृत्तये ॥ प्रार्थिताभीष्टसंसिध्द्यैतुभ्यंश्रीरुद्ररुपिणे ॥ संप्रदध्यांविधानेनयथोक्तफलमस्तुमे ॥यदातुमारकतंलिंगंतदादानमंत्र: ॥ इदंमारकतंलिंगंरौप्यपीठान्वितंशुभं ॥ नंदिनाराजतेनापिश्वेतवस्त्रयुगान्वितम् ॥ धान्यैर्द्वादशभिर्युक्तमेकादशफलान्वितं ॥ संप्रदध्यांविधानेनयथोक्तफलमस्तुमे ॥ काश्मीरजलिंगपक्षेतुइदंमारकतमित्यत्रइदंकाश्मीरजमितिप्रयोज्यं ॥ द्वादशधान्यानितुव्रीहियवमाषतिलमुद्गखल्वगोधूममसूरप्रियंग्वणुश्यामाकनीवारा: ॥तेषांमानंतुप्रस्थाधिकंद्रोणावधियथाशक्तिग्राह्यं उक्तधान्याभावेयथासंभवंग्राह्याणि । ततोग्निंसंपूज्यगच्छगच्छसुरश्रेष्ठेत्यग्निंविसृज्य सर्वामंडपदेवताद्वारदेवताश्चयांतुदेवगणाइतिविसृज्य ध्वजपताकाध्युपस्करयुतंमंडपमाचार्यायदध्यात् । अमुंमंडपंध्वजपताकाध्युपस्करयुतंतुभ्यमहंसंप्रददेनममेति । ॐ स्वस्तीतिसप्रतिब्रूयात् । तत:कृतस्यमहारुद्रादिकर्मण: संपूर्णतासिध्दयेयथोपपन्नेनान्नेनयथाकालंनानागोत्रान्नानाशर्मणोमुकसंख्यान्ब्राह्मणान्भोजयिष्येइतिसंकल्प्ययथाकालंब्राह्मणान् भोजयेत् भूरिदक्षिणासंकल्पानंतरंवाब्राह्मणभोजनसंकल्प: । रुपेएक: रुध्र्यांत्रय: लघुरुद्रेएकादश महारुद्रेएकविंशत्युत्तरशतंअतिरुद्रेत्रयोदशशतान्येकत्रिंशच्चेति ततो ब्रह्मार्पणंब्रह्महवि:० चतुर्भिश्चचतुर्भिश्चेत्युक्त्वा मयायत्कृतंयथाकालंयथादेशंयथादेशंयथाज्ञानंयथाशक्तिचमहारुद्रादिकर्मतेनश्रीपरमेश्वर:प्रीयतां ॐ तत्सद्ब्रहार्पणमस्त्वितिसकुशजलंक्षिपेत् । तत:सदस्यंचंदनाक्षतपुष्पवस्त्रतांबूलदक्षिणादिभि:पूजयित्वंजलिंबध्द्वा मयायत्कृतंमहारुद्रादिकर्मतत्कालहीनंभक्तिहीनंश्रध्दाहीनंशक्तिहीनंभवतांब्राह्मणानांवचनात्सर्वंसंपूर्णमच्छिद्रंचास्तुइतिप्रार्थयेत् तत:संपूर्णमच्छिद्रमस्त्विसर्वेवदेयु: ॥ ततस्तेषांमंत्राशिषोगृहीत्वातान्सानुनयंविसृज्यदीनानाथादीनन्नादिभि:संतोष्यस्वयंसुन्हन्मित्रादियतु:सोत्साह:संतुष्टोहविष्यंभुंजीतेति ॥ रामेश्वरभट्टात्मजनारायनसूरिणाकाश्यां ॥ कार्मणसज्जनतुष्टयैरुद्रानुष्ठानपध्दतीरचिता ॥ ग्रंथाननेकानालोड्यविचार्यसहसज्जनै: ॥ कृत:श्रमोऽनेनविभु:शंकर: प्रीयतांमम ॥इतिश्रीभट्टरामेश्वरसुतनारायणभट्टकृतारुद्रानुष्ठानपध्दति:समाप्ता ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP