संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथप्रदोषव्रतम्

व्रतोदयान - अथप्रदोषव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: तिथ्यादिसंकीर्त्य आत्मन:अखिलपापक्षयशत्रुपराजयपूर्वकायुरारोग्यैश्वर्यपुत्रपौत्राध्यभि
वृध्दिद्वाराश्रीउमामहेश्वरप्रीत्यर्थंआचरितप्रदोषव्रतोध्यापनंकरिष्ये ॥
वृताचार्य:उक्तप्रकारेणलिंगतोभद्रस्थताम्रकलशेरौप्यपूर्णपात्रयुतेसौवर्णंसांबसदाशिवंपुरतोराजतंवृषभंतत्तन्मंत्रै:प्रतिष्ठाप्य ॥
परित:असितांगभैरवाय० १ रुद्रभैरवाय० २ चंडभैरवाय० ३ क्रोधभैरवाय० ४ उन्मत्तभैर
वाय० ५ भीषणभैरवाय० ६ संहारभैरवाय० ७ कपालभैरवाय० ८ ॥ इतिप्रतिष्ठाप्यपूजयेत् ॥ मूलमंत्रेणन्यासंकृत्वापंचब्रह्ममंत्रै:सध्योजातादिभि:पूजयेत् ॥
प्रकारांतरेणवापूजनं विष्णुं० १ ब्रह्माणं० २ भास्करं० ३ सोमं० ४ पूर्वादिक्रमेण प्रथमावरणे ॥
जयं १ विजयं २ गणपतिं ३ दुर्गा ४ द्वितीये ॥ नंदीश्वरं १ क्षेत्रपालं २ वास्तोष्पतिं ३
वायुं ४ तृतीये ॥
सप्तर्षीन् चतुर्थे ॥ भूतनाथं पंचमे ॥ इंद्रादीन्षष्ठे ॥ कपालिनंसप्तमे ॥ गंधर्वान् अष्टमे ॥ सध्योजातायेत्यासनं वामदेवायेतिपाध्यं अघोरायेत्यर्घ्यं तत्पुरुषायेत्याचमनीयं ईशानायेतिस्नानं त्र्यंबकमितिवस्त्रंयज्ञोपवीतंउत्तरीयंच नम:सोमायेतिगंधं नम:शंभवेइत्यक्षा
न् इमारुद्रायेतिपुष्पाणि एवापित्रेइतिबिल्वदलानि मानस्तोकेइतिधूपं आतेपितरितिदीपं
त्वादत्तेतिनैवेध्यं कद्रुद्रायेतितांबूलं इमारुद्रायस्थिरधन्वनेइतिदक्षिणाम् सहिक्षयेणक्षम्येति
मंत्रपुष्पम् यातेदिध्युदितिनमस्कार: पुनर्माममंत्रेणअष्टौप्रदक्षिणानमस्कारांश्चकुर्यात् ॥
भवाय० १ महादेवाय० २ रुद्राय० ३ नीलकंठाय० ४ शशिमौलिने० ५ उग्राय० ६ भीमाय०
७ ईशानाय० ८ ॥
ततोर्घ्यं रजतादिपात्रेक्षीरकुशघृतदधितंडुलसिध्दार्थगंधपुष्पादिक्षिप्त्वासजलंदध्यात् ॥
भयरोगादिदारिद्र्यपापक्षुदपमृत्यव: ॥
ऋणशोकमनस्तापानश्यंतुममसर्वदा ॥ तत:प्रार्थयेत् ॥ प्रसीददेवदेवेशप्रसीदपरमेश्वर ॥
प्रसीदसोमसर्वज्ञप्रसीदकरुणाकर ॥ प्रातरग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ प्रधानं उमामहेश्वरं
पलाशसमित् १ बिल्वपत्र २ पायस ३ आज्य ४ द्रव्यै: प्रत्येकमष्टोत्तरशत १०८ संख्याका
हुतिभि: (पक्षे शिवंगौरींच त्र्यंबकंगौरीर्मिमायेतिमंत्राभ्यांप्रत्येकं प्रतिद्रव्यं १०८ पायसाज्या
भ्यांवा) पीठदेवता:ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
तत:पीठंगांचदत्त्वाब्राह्मणान्भोजयेत् ॥ भूयसींदक्षिणांदत्त्वाशिषोग्राह्या: ॥
इतिप्रदोषव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP