संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथग्रहणशांति:

व्रतोदयान - अथग्रहणशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ मात्स्यै ॥ होरायांग्रस्यतेयस्यनक्षत्रेवानिशाकर: ॥ प्राणसंदेहमाप्नोतिसवामरणमृ
च्छति ॥
यस्यत्रिजन्मनक्षत्रेग्रस्येतेशशिभास्करौ ॥ तज्जनानांभवेत्पीडायेजना:शांतिवर्जिता: ॥
यस्यराशिंसमासाध्यभवेग्द्रहणसंभव: ॥ तस्यस्नानंप्रवक्ष्यामिमंत्रौषधिसमन्वितं ॥
चंद्रोपरागंसंप्राप्यकृत्वाब्राह्मणवाचनं ॥ संपूज्यचतुरोविप्रान्शुक्लमाल्यानुलेपनै: ॥
पूर्वमेवोपरागस्यसमानीयौषधादिकं ॥ स्थापयेच्चतुर:कुंभानग्रत:सागरानिव ॥
गजाश्वरथ्यावल्मीकसंगमाध्द्रदगोकुलात् ॥ राजद्वारप्रदेशाच्चमृदमानीयनिक्षिपेत् ॥
पंचगव्यंपंचरत्नंपंचत्वक्पंचपल्लवं ॥ रोचनंपद्मकंशंखंकुंकुमंरक्तचंदनं ॥
शुक्तिस्फटिकतीर्थांबुसितर्षपगुग्गुलून् ॥
मधूकंदेवदारुंचविष्णुक्रांतांशतावरीं ॥ बलांचसहदेवींचनिशाद्वितयमेवच ॥ एतत्स्वर्व
विनिक्षिप्यकुंभेष्वावाहयेत्सुरान् ॥
सर्वेसमुद्रा:सरितस्तीर्थानिजलदानदा: ॥ आयांतुयजमानस्यदुरितक्षयकारका: ॥
गंगेचयमुनेचैवेति ॥ यौसौवज्रधरोदेवआदित्यानांप्रभुर्मत: ॥ सहस्त्रनयनश्चंद्रोग्रहपीडांव्य
पोहतु ॥ मुखंय:सर्वदेवानांसप्तार्चिरमितध्युति: ॥
चंद्रोपरागसंभूतामग्नि:पीडां० ॥ कर्मसाक्षीतुलोकानांधर्मोमहिषवाहन: ॥ यमश्चद्रोपरागो
त्थांग्रहपीडां० ॥
रक्षोगणाधिप:साक्षान्नीलांजनसमप्रभ: ॥ खड्गहस्तोतिभीमश्चग्रह० ॥ नागपाशधरोदेव:
सदामकरवाहन: ॥
चंद्रोपरागकलुषंवरुणोमेव्यपोहतु ॥ योसाविंदुधरोदेव:पिनाकीवृषवाहन: ॥ चंद्रोपरागपापा
निनिवारयतुशंकर: ॥
त्रैलोक्येयानिभूतानिस्थावराणिचराणिच ॥ ब्रह्मविष्ण्वर्करुद्राश्चदहंतुममपातकं ॥
एवंमावाहयेत्कुंभान्मंत्रैरेभिश्चवारुणै: ॥ एतानेवतथामंत्रान्स्वर्णपट्टेविलेखयेत् ॥
ताम्रपट्टेथवालिख्यनववस्त्रेतथैवच ॥ मस्तकेयजमानस्यनिदध्युस्तेद्विजोत्तमा: ॥
कलशान्द्रव्यसंयुक्तान्नानारुपसमन्वितान् ॥ गृहीत्वास्थापयेग्दूधंभद्रपीठोपरिस्थिते ॥
पूर्वोक्तैरेवमंत्रैश्चयजमानोद्विजोत्तमा: ॥ अभिषेकंतत:कुर्युर्मंत्रैर्वारुणसूक्तकै: ॥
तत:शुक्लांबरधर:शुक्लमाल्यानुलेपन: ॥
आचार्यंवरयेत्पश्चात्स्वर्णपट्टंनिवेदयेत् ॥ आचार्येदक्षिणांदध्याग्दोदानंचस्वशक्तित: ॥
होमंचैवप्रकुर्वीततिलैर्व्याहृतिभिस्तथा ॥ निवृत्तेग्रहणेसर्वंब्राह्मणेभ्योविशेषत: ॥
दानंचशक्तितोदध्याध्यदीच्छेदात्मनोहितं ॥ सूर्यग्रहेसूर्यनामयुक्तान्मंत्रांश्चकीर्तयेत् ॥
अनेनविधिनायस्तुग्रहणेस्नानमाचरेत् ॥ नतस्यग्रहणेदोष:कदाचिदपिजायते ॥
इतिग्रहणशांति: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP