संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसमुद्रस्नानविधि:

व्रतोदयान - अथसमुद्रस्नानविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानामम्यदेशकालौसंकीर्त्यममकायिकवाचिकमानसिकज्ञाताज्ञातादिसक
लपातकनिरासार्थंअध्यामुकपर्वनिमित्तंसमुद्रस्नानंकरिष्ये इतिसंकल्प्य पाषाणंसिकतापिंडं
वाहस्तेगृहीत्वा ॥
पिप्पलादसमुत्पन्नेकृत्येलोकभयंकरे ॥ पाषाणस्तेमयादत्तआहारार्थेप्रकल्प्यतां ॥
इतिसमुद्रेप्रक्षिप्यप्रार्थयेत् ॥
विश्वाचीचघृताचीचविश्वयोनेविशांपते ॥ सांनिध्यंकुरुमेदेवसागरेलवणांभसि ॥
नमस्तेविश्वगुप्तायनमोविष्णोअपांपते ॥ नमोजलधिरुपायनदीपांतयेनम: ॥
समस्तजगदाधारशंखचक्रगदाधर ॥ देवदेहिममानुज्ञांतवतीर्थनिषेवणे ॥
त्रितत्वात्मकमीशानंनमोविष्णुमुमापतिं ॥ सांनिध्यंकुरुदेवेशसमुद्रेलवणांभसि ॥
अग्निश्चयोनिरनिलश्चदेहोरेतोधाविष्णुरमृतस्यनाभि: ॥ एतब्द्रुन्पांडवसत्यवाक्यंततोऽ
वगाहेतपतिंनदीनां ॥
इतिपठित्वानित्यस्नानविधिवत्स्नात्वाअघमर्षणस्नानांगतर्पणेकृत्वासमुद्रायार्घ्यं ॥
सर्वदोभगवान् श्रीमान्सर्वरत्नाकरोयत: ॥ सर्वरत्नप्रधानस्त्वंगृहाणस्तंमहोदधेइत्यर्घ्यं
दध्यात् ॥
ततस्तर्पणं ॥ यथा ॥ पिप्पलादंतर्पयामि विकण्वं कृतांतं जीवकेश्वरं वसिष्ठं वामदेवं
पराशरं उमापतिं वाल्मीकिं नारदं वालखिल्यान् नलं नीलं गवाक्षं गवयं गंधमादनं जांबवंतं हनूमंतं सुग्रीवं अंगदं मैदं द्विविदं वृषभं रामं लक्ष्मणं यशस्विनीं सीतां तर्पयामि ॥
एवंजलमध्येतर्पणंकृत्वा ॥ आब्रह्मस्तंबपर्यंतंयत्किंचित्सचराचरं ॥ मयादत्तेनतोयेनतृप्ति
मेवाभिगच्छतु ॥
इत्यंजलिंदध्यात् ॥ इतिसमुद्रस्नानविधि: ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP