संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथचलार्चाप्रयोग:

व्रतोदयान - अथचलार्चाप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथबौधायनसूत्रत्रिविक्रमानुसारेणसिंधूक्त:सर्वदेवचलप्रतिष्ठाप्रयोग: ॥
तत्रदौदशद्वादशान्यतमहस्तंमंडपंकृत्वाआग्न्येय्यांहस्तमात्रंचतुरस्त्रंकुंडंस्थंडिलंवाकृत्वा
पूर्वतोहस्तमात्रांद्वादशांगुलोच्चांत्रिवप्रांग्रहवेदिं नैऋत्यांचतुरंगुलोन्नतांहस्तमात्रांवास्तु
वेदिं मध्येमंडपनवांशांहस्तोच्चांप्रधानवेदिंकृत्वा तदुपरिसर्वतोभद्रंविरच्यप्रतिष्ठादिना
त्पूर्वेध्यु:यजमान:आचम्यप्राणानायम्यदेशकालौसंकीर्त्य अस्यांमूर्तौंलिंगेवादेवतासांनिध्या
र्थंदीर्घायुर्लक्ष्मीसर्वकामसमृध्द्यक्षय्यसुखकामोऽहंग्रहयज्ञसहितांअमुकमूर्तिंचलप्रतिष्ठांकरिष्ये ॥ (वास्तुदेवतापिंडिकापरिवारदेवतासत्त्वेतत्तदूह:कार्य:) ॥
तदंगभूतंमहागणपतिपूजनपूर्वकंस्वस्तिवाचनंमातृकापूजनंनांदीश्राध्दंआचार्यादिवरणंचकरि
ष्ये ॥ तानिकृत्वा ॥
वृताचार्य: द्विराचम्यपवित्रपाणि:प्राणानायम्यदेशकालाध्युच्चार्यअमुकमूर्तिचलप्रतिष्ठाख्ये
कर्मणियजमानेनवृतोऽहमाचार्यकर्मकरिष्ये ॥
शरीरशुध्द्यर्थंपुरुषसूक्तजपंचकरिष्ये ॥ तानिकृत्वा ॥ यदत्रेतिगौरसर्षपान्विकीर्यशुचीव इतितृचेनपंचगव्येनआपोहिष्ठेतितृचेनकुशोदकेनचदेवयजनंसंप्रोक्ष्य ॐ स्वस्त्ययनं० अहो
मुंच० देवाआयांतुइत्यादिभूमौप्रादेशंकुर्यात् ॥
ततउक्तविधिनामंडपप्रतिष्ठांकृत्वाऽकृत्वावापूर्वरात्रौसुवस्त्राच्छादितांमूर्तिंपंचगव्यहिरण्ययव
दूर्वाश्वत्थपर्णपलाशपर्णक्षिप्तोदकेनहिरण्यमंतर्धायआपोहिष्ठेतितिसृभि: हिरण्यवर्णा:शुचय
इतितिसृभि: पवमान:सुवर्जनइत्यनुवाकेनचाभिषिच्य व्याहृतिभि:इदंविष्णुरितिचपुष्पफल
यवदूर्वा:समर्प्यरक्षोहणमितिदेवहस्तेकंकणंबध्द्वावाससाऽऽच्छाध्य अवतेहेळो० उदुत्तमं०
इतिमंत्राभ्यांगंधोदकपूरितजलद्रोण्यांप्राड्मुखीमुदड्मुखींवामूर्तिमधिवासयेत् ॥ पात्राभावेसंत
तधारांकुर्यात् ॥
तत:पूर्वोक्तकुंडसमीपमेत्यअमुकप्रतिष्ठांगत्वेनहोमंकर्तुंकुंडोपलेपनाध्यग्निप्रतिष्ठांकरिष्ये ॥ तद्गोमयेनोपलिप्यउल्लिख्यउपरिमेखलायांइदंविष्णुरितिविष्णुं मध्यमेखलायांब्रह्मज
ज्ञानमितिब्रह्माणं अधोमेखलायांकद्रुदायेतिरुद्रं योन्यांगौरीर्मिमायेतिगौरींचावाह्यसंपूज्य
तारंक्तेनकौशेयवाससाऽऽच्छाध्यबलवर्धननामानमग्निंप्रतिष्ठाप्यध्यात्वा ॥
मंडपपक्षेनैऋत्यवेध्यांवास्तुमंडलंविलिख्यतत्रशिख्यादिवास्तुदेवताआवाह्यसंपूज्य ईशान्यां
कलशेविधिनावरुणंसंपूज्यवास्तुदेवताभ्य:पायसबलिंदध्यात् ॥
ततोग्रहवेध्यांग्रहान्संस्थाप्यसंपूज्याग्निसमीपमेत्यान्वाधानंकुर्यात् ॥ देशाध्युच्चार्यामुकमू
र्तिचलप्रतिष्ठाहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा ॥
गणपतिंउपकल्पितसर्वैर्द्रव्यै: प्रतिद्रव्यमेकैकयावराहुत्या शिख्यादिवास्तुदेवता:प्रत्येकंप्रति
द्रव्यंअष्टाष्टसंख्याकाभि:समित्तिलपायसाज्याहुतिभि: वास्तोष्पतिंवास्तोष्पतइतिचतसृभि:
प्रत्यृचंप्रतिद्रव्यंअष्टाविंशतिसंख्याकाभि:पूर्वोक्तद्रव्यचतुष्टयाहुतिभि: वास्तोष्पतइतिचत
सृभिर्वास्तोष्पतेध्रुवास्थूणामितिपंचर्ग्भि:प्रत्यृचंबिल्वफलै: चरक्यादिदेवता: प्रत्येकंप्रतिद्रव्यं
चतुश्चतु:संख्याकाभि:पूर्वोक्तद्रव्याहुतिभि: ॥
ग्रहहोमेआदित्यादिनवग्रहान् अष्टाष्टसंख्याकाभिरर्कादिसमिच्चर्वाज्याहुतिभि: अधिदेवता:
प्रत्यधिदेवताश्चप्रत्येकंप्रतिद्रव्यंचतुश्चतु:संख्याकाभि: पूर्वो० क्रतुसाद्गुण्यदेवता:क्रतुसरं०
प्रत्येकंद्विद्विसं० पूर्वोक्तद्रव्यैर्यक्ष्ये ॥ अत्रप्रधानं ॥
इंद्रपृथिवींपृथिवीमूर्तिंशर्वंअग्निंअग्निमूर्तिंपशुपतिंयमंयजमानमूर्तिंउग्रंनिऋतिंसूर्यमूर्तिंरुद्रं
वरुणंजलमूर्तिंभवंवायुंवयुमूर्तिंईशानं कुबेरंसोममूर्तिंमहादेवं ईशानंआकाशमूर्तिंभीमं एतालो
कपाकमूर्तिमूर्तिपतिदेवता:पलाशोदुंबराश्वत्थशम्यपामार्गसमित्तिलाज्यद्रव्यै:प्रत्येकंप्रतिद्रव्यं
२८ वा ८ आहुतिभि:तत्तन्मंत्रै: ॥
स्थाप्यदेवंअमुकंतन्मंत्रेणपूर्वोक्तसमित्पंचकतिलनीवारपायसाज्यै:प्रतिद्रव्यं १०८ वा २८ वा ८ संख्याहुतिभि: ॥
विश्वान्देवान् अग्निर्यजुर्भिरित्यनुवाकेन तिलाजाभ्यां प्रतिद्रव्यंदशाहुतिभि: ॥
पिंडिकांप्रतिद्रव्यमष्टसं० ८ पूर्वोक्तसप्तद्रव्याहुतिभि:तत्तन्मंत्रेण ॥ परिवारदेवताश्चेत् तन्मंत्रै:अमुकदेवता:प्रत्येकंप्रतिद्रव्यंअष्टसंख्याकाभि:पूर्वो० ॥
एवंत्रिभि:पर्यायै:पंचभि:पर्यायैर्वायक्ष्ये ॥ ब्रह्मादिमंडलदेवता:प्रत्येकंदशभिर्घृताक्ततिलाहुति
भिर्यक्ष्ये ॥
शेषेणेत्याज्यभागांतेयजमानस्त्यागंकुर्यात् ॥ ततोगणपतयेवराहुतिंजुहुयात् ॥ ततोग्नेरुत्त
रत:सजलंकलशंसंस्थाप्यआज्यहोमेतस्मिन्संपातान्नयेत् ॥
सर्त्विगाचार्योऽन्वाधानक्रमेणहोमंकुर्यात् ॥ प्रतिद्रव्यहोमांतेदेवंपादनाभिशिर:सुस्पृशेत् ॥
तत्रादौवास्तुदेवताहोम: ततोलोकपालमूर्तिमूर्त्यधिपतीनांहोम: तत:स्थाप्यदेवताहोम: ॥
मत्रास्तु - इदंविष्णुरितिविष्णो: त्र्यंबकमितिशिवस्य गणानांत्वेतिगणपते: उदुत्यमिति
सूर्यस्य जातवेदसइतिदुर्गाया: विष्णोर्नुकमितिनारायणस्य हिरण्यवर्णामितिलक्ष्म्या: अथवाविष्णवेनम:स्वाहाइत्यादिनामभिर्वाहोम: ॥
ततोविश्वदेवोद्देशेनअग्निर्यर्जुर्भिरित्यनुवाकांतेस्वाहेति १० आहुतय: ॥ तत:पिंडिकाहोम:
ह्रीश्चते० इतिविष्णुपिंकाया: गौरीर्मिमायेतिशिवपिंडिकाया: चित्रंदेवानामितिसूर्यपिंडिका
या: चित्रंदेवनामितिसूर्यपिंडिकाया: गणेशशक्तिपिंडिकानांगौरीर्मिमायेति हनुमदादीनांशिव
पिंडिकामंत्रा:शिष्टैर्गृह्यंते ॥
तत:परिवारदेवताहोम:तत्तल्लिंगनिर्दिष्टवेदमंत्रै:नाममंत्रैर्वाकार्य: ॥ एवंप्रथमपर्यायहोमांते
देवस्यपादौस्पृशेत् द्वितियांतेनाभिंतृतीयांतेमध्यं चतुर्थांतेउर: पंचमांतेशिरइति ॥
पर्यायत्रयपक्षेतु प्रथमांतेपादौ द्वितीयांतेनाभिं तृतीयांतेशिर: ॥ ततोर्चांशोधयेत् ॥
देवंनत्वा ॥ स्वागतंदेवदेवेशविश्वरुपनमोऽस्तुते ॥ शुध्देऽपित्वदशिष्ठानेशुध्दिंकुर्म:सहस्व
तां ॥ इतिसंप्रार्थ्य ॥
ॐ उत्तिष्ठब्रह्मण० इतिदेवमुत्थाप्य अग्न्युत्तारण्मंकुर्यात् ॥ यथाअग्निं:सप्तिमितिसूक्त
मग्निपदरहितंपुनस्तत्सहितमिति १०८ वा २८ संख्ययापठन् जलंपातयेत् ॥
ततोर्चांद्वादशवारंमृदाजलेनचप्रक्षाल्यमंत्रवत्कृतपंचगव्येनस्त्रापयेत् ॥ तत्रमंत्रौ: ॥
ॐ पय:पृथिव्यांपयओषधीषुपयोदिव्यंतरिक्षेपयोधां ॥ पयस्वती:प्रदिश:संतमुह्यं ॥
ॐ आवोराजान० ॥ तत:पंचामृतस्नानं ॐ आप्याय० दधिक्राव्णो० शुक्रमसि० मधुवाता० आयंगौ:० ॥
लिंगंचेन्नमस्तेरुद्रमन्यवइत्यारभ्यमृडयातिनइत्यंताष्टमंत्रै:संस्त्राप्यघृतेनाभ्यंगंचंदनोद्वर्तनंउष्णोदकेनक्षालनंचकृत्वागंधंदत्त्वासंपातोदकैरभिषिच्यसपल्लवैश्चतुर्भि:कुंभै:क्रमेण ॐ
आपोहिष्ठा० ॐ योव:शिवत० ॐ तस्माअरंग० ॐ आकलशेषु० इति मंत्रै: संस्त्राप्यतैरेवै
कीकृतकुंभोदकै: ॐ समुद्रज्येष्ठा: ४ ॐ आकलेषु० इति संस्त्राप्य० ॥
पूर्ववेदिकायांऔदुंबरदिपीठेऽर्चामुपवेश्यपरितोऽष्टदिक्षुसजलकुंभेषुगंधपुष्पदूर्वा:क्षिप्त्वा ॥
आध्यकुंभेसप्तमृद: ॥
द्वितीयेपुष्करपर्णशमीविकंकताश्मंतकत्वच:पल्लवांश्च ॥ तृतीयेसप्तधान्यंव्रीहियवमाषति
लकंगुश्यामाकमुद्गाख्यं ॥
चतुर्थेपंचरत्नानि ॥ पंचमेफलपुष्पाणि ॥ षष्ठेदूर्वारोचना: ॥ सप्तमेसंपातोदकं ॥ अष्टमे
कुष्ठंमांसीहरिद्राद्वयंमुराशैलेयंचंदनंवचाचंपकंमुस्ताइतिदशसर्वौषधी:क्षिप्त्वा क्रमेण आपो
हिष्ठेतितिसृभि: हिरण्यवर्णा:शुचय:पावकाइतिचतसृभि: पवमान:सुवर्जनइत्यनुवाकेनचप्रा
गादिकलशेनाभिषिंच्य ॥
एककुंभेशमीपलाशवटखदिरबिल्वाश्वत्थविकंकतपनसाम्रशिरीषोदुंबराणांपल्लवान्कषायांश्च
क्षिप्त्वातेनअश्वत्थेवइतिमंत्रेणाभिषिच्य पंचरत्नोदकेनहिरण्यवर्णा:शुचय:पावकाइतिसंस्त्रा
प्य अहतेवाससीदत्त्वाउपरिवितानंबध्द्वायज्ञोपवीतादिदीपांतोपचरान्समर्प्य ॥
ॐ हिरण्यगर्भ:सम० ॐ यआत्मदा० ॐ य:प्राणतो० ॐ यस्येमे० ॐ येनध्यौ० ॐ यंक्रंदसी० ॐ आपोहय० ॐ यश्चिदापो० इत्यष्टभिर्मंत्रैरष्टौपिष्टदीपान्दत्त्वासुवर्णशलाक
यातैजसपात्रस्थंमधुघृतंचगृहीत्वा ॥ चित्रंदेवाना० ॥
ॐ तेजोसिशुक्रमस्यमृतमसिधामनामासिप्रियंदेवानामनाधृष्टंदेवयजनमसि ॥ ॐ नमो
भगवतेतुभ्यंशिवायहरयेनम: ॥
हिरण्यरेतसेविष्णोविश्वरुपायतेनम: ॥ इतित्रिभिर्मंत्रैर्दक्षिणसव्येदेवनेत्रेमंत्रावृत्त्यालिखेत् ॥
तत: ॐ अंजंतित्वा० इतिअंजनेनमधुनाचाड्त्वा ॐ देवस्यत्वा० द्रियेणानज्मिइतिमध्वा
ज्यशर्कराभिश्चाड्त्वा तेनैवमंत्रेणांजनेनपुनरंजयेत् ॥
प्रत्यंजनंमंत्रावृत्ति: ॥ ततआदर्शभक्ष्यादिदर्शयेत् ॥ तत:कर्ताचार्यायगामृत्विग्भ्यश्चदक्षिणां
दध्यात् ॥ अथाचार्य: प्रत्यृचमादौप्रणवंवदन् पुरुषसूक्तेनदेवंस्तुत्वा वंशपात्रस्थपंचवर्णौद
नेनदेवस्यनीराजनंकारयित्वातंनीराजितंपंचवर्णौदनंरुद्रायचतुष्पथादौदध्यात् ॥
मंत्रस्तु ॥ ॐ नमोरुद्रायसर्वभूताधिपतयेदीप्तशूलधरायोमादयिताविश्वाधिपतयेरुद्रायवैन
मोनम:शिवमगर्हितंकर्मास्तुस्वाहेति अश्वत्थपर्णे ॐ भूतेभ्योनमइतिपंचवर्णौदनमयंबलिंभू
तेभ्यश्चदध्यात् ॥ अथाचार्योमध्यवेध्युपरिकृतसर्वतोभद्रेदेवानावाहयेत् ॥
मध्येब्रह्माणमित्यादिवैनायक्यंतादेवतानामभिरावाह्यसंपूज्याचार्योदेवंतन्मंत्रेणावाह्यमंडल
मध्येस्थाप्यदेवतां ॐ सुप्रतिष्ठोभवेतिनिवेश्यसंपूज्यप्रतिदैवतंदशतिलार्जुहुयात् ॥ ततोदे
वेपुष्पांजलिंसमर्प्य ॐ नमोमहभ्द्योइतिनत्वावेध्युपरिपूर्वभागेस्वस्तिकेउत्तरतोवासोपस्क
रांशय्यांकृत्वाउत्तिष्ठेतिदेवमुत्थाप्यमंगलघोषै:शय्यायांदेवमारोप्य पुरुषसूक्तोत्तरनारायणा
भ्यांस्तुत्वाऽनंतरंदेवेन्यासान्कुर्यात् ॥
ॐ पुरुषात्मनेनम: ॐ प्राणात्मने० ॐ प्रकृतितत्त्वाय० ॐ बुध्दितत्त्वाय० ॐ अहंकारत
त्वाय० ॐ मनस्तत्त्वाय० इतिसर्वांगे ॥ ॐ प्रकृति० ॐ बुध्दितत्त्वा० हृदये ॥
ॐ शब्दतत्त्वाय० शिरसि ॥ ॐ स्पर्शतत्त्वाय० त्वचि ॥ ॐ रुपतत्त्वाय० हृदि ॥ ॐ रस
तत्त्वाय० मुखे ॥ ॐ गंधतत्त्वाय० नासिकायां ॥ ॐ श्रोत्रतत्त्वाय० श्रोत्रयो: ॥ ॐ त्वक्तत्त्वाय० त्वचि ॥ ॐ चक्षुस्तत्त्वाय० चक्षुषो: ॐ जिव्हातत्त्वाय० जिव्हायां ॥ ॐ घ्राणतत्त्वाय० घ्राणे० ॥ ॐ वाक्तत्त्वाय० वाचि ॥ ॐ पाणितत्त्वाय० हस्तयो: ॥
ॐ पादतत्त्वाय० पादयो: ॥ ॐ पायुत० पायौ ॥ ॐ उपस्थत० उपस्थे ॥ ॐ पृथ्वीत०
पादादिजानुपर्यंतं ॥ ॐ अप् तत्त्वाय० जान्वादिनाभिपर्यंतं ॥ तेजस्त० नाभ्या दिहृदयांतं ॥ ॐ वायुत० हृदयादिभ्रूमध्यांतं ॥ ॐ आकाशत० भ्रूमध्यादिशिरोंतं ॥ ॐ सत्त्वतत्त्वाय ॐ रजस्त० ॐ तमस्त० सर्वांगे ॥ तत:पुरुषसूक्तन्यासोनित्यपूजावत् ॥
तत:सुखशायीभवेतिशय्यायांदेवंस्थापयित्वा मंडलशय्ययोरंतरानगंतव्यंइति प्रैषंदत्त्वास्वि
ष्टकृदादिहोमशेषंसमाप्य मंडलदेवताभ्योनामभि:पायसेनबलीन्दध्यात् ॥ नीवारचरुशेषेण
दिग्बलीन् अग्ने:परितोदत्त्वाधामंतइतिपूर्णाहुतिंहुत्वातत:पिंडिकांपरिवारदेवांश्चप्रतिमासमी
पेयथावकाशदेवेवावस्त्राच्छादितपीठेनिधायमधुघृतेनाभ्यज्यशुध्दवारिणाप्रक्षाल्यपूर्वस्नाना
विष्टकलशवारिणातत्तन्मंत्रै:स्नापयित्वागंधादिभिरभ्यर्च्य वस्त्रैराच्छाध्यन्यासान्कुर्यात् ॥
तत्रपिंडिकायां ॐ घंनम:हृदयायनम: ॥ ॐ पंनम:शिरसेस्वाहा ॥ ॐ भंनम:शिखायै० ॥
ॐ फंनमकवचायहुं ॥ ॐ ळंनमोनेत्र० ॥
ॐ क्षंनम:अस्त्रायफट् ॥ तत: ॐ महीमूषु० इतिमंत्रेणावाह्य ॐ अदितिर्ध्यौरदितिरंत०
इतिस्तुत्वा ॐ ह्रींनमइतिसंपूज्य ॥
ॐ ह्रींनम:स्वाहेतिपूर्णाहुतिंहुत्वा ॥ ॐ ह्रींश्रींह्रींक्ष:परब्रह्मणेसर्वाधारायनम: ॥ ॐ र्हींश्रीं
ह्रींदिव्यतेजोधारिणिसुभगेनमइतिमंत्राभ्यामधिवासयेत् ॥
तत:परिवारदेवेषुतत्तन्मंत्रेणषडंगन्यासंकृत्वातत्तन्मंत्रेणाधिवासयेत् ॥ ततोदेवस्यशिरोभागे विधिवत्कलशंसंस्थाप्यतत्र ॥ वासुदेवंनमस्कृत्यनिद्रामावाहयाम्यहं ॥
मोहिनींसर्वभूतानांमनोविभ्रमकारिणीं ॥ एहिसावित्रिमूर्तिस्त्वंचक्षुर्भ्यांज्ञानगोचरे ॥ विशना
सापुटेदेविकंठेचोत्कंठिताभव ॥ इतिनिद्रामावाह्यसंपूज्ययजमान:अधिवासानांगत्वेनाचार्या
यगामृत्विग्भ्यश्चदक्षिणांदध्यात् ॥
इत्यधिवासनं ॥ तत:परेध्यु:सध्योवा ॐ उत्तिष्ठब्रह्म० इतिदेवमुत्थाप्यपुरुषसूक्तोत्तरना
रायणाभ्यांस्तुत्वातत:कुंडांतिकमागत्यदेशकालौस्मृत्वाप्रतिष्ठांगहोमंकरिष्येइतिसंकल्प्या
न्वाधानंकुर्यात् ॥
चक्षुषीआज्येनेत्यंते स्थाप्यदेवंतन्मंत्रेणघृतपक्वचरुणादशाहुतिभि: अग्निंसोमंधन्वंतरिंकुहूं
अनुमतिंप्रजापतिंपरमेष्ठिनंब्रह्माणं अग्निंसोमंअग्निमन्नादंअग्निमन्नपतिंप्रजापतिंविश्वा
न्देवान्सर्वान् देवान् प्रजापतिंअग्निंस्विष्टकृतं ॥
पूजांगहोमेविष्णु:स्थाप्यश्चेत् संकर्षणादिद्वादशदेवता: शार्ड्गिणंश्रियंसरस्वतींपुष्टिंविष्णुं
चकृसरेणैकैकयाहुत्यानाममंत्रेण ॥
पुनर्विष्णुंविष्णोर्नुकमितिषण्मंत्रै:कृसरेण ॥ पुन:संकर्षणादि १२ देवता:कृसरेण ॥ स्थाप्य:
शिवश्चेत् भवंशर्वंईशानंपशुपतिंरुद्रंउग्रंभीमंमहांतंदेवंप्रत्येकंकृसरेण भवस्यदेवस्यपत्न्याध्य
ष्टदेवता: गुडौदनेन ॥
भवस्यदेवस्यसुतमित्याध्यष्टौदेवता:हरिद्रौदनेन ॥ रुद्रंसप्तदशवारंमानोमहांतमित्यादिस
प्तदशमंत्रै:प्रतिमंत्रंकृसरेण ॥
शिवंशंकरंसहमानंशितिकंठंकपर्दिनंताम्रंअरुणंअपगुरमाणंहिरण्यबाहुंसस्पिंजरंबभ्लुशंहिरण्यं
प्रत्येकंकृसरेण ॥
शेषेणेत्वादिचक्षुषीआज्येनेत्यंतेस्थाप्यदेवंमूलेनकृसराहुती: १० अग्नयेस्वाहेत्यादिनामभि:
सर्वेभ्योदेवेभ्य:स्वाहेति १५ ॥ अंते ॐ भूर्भव:स्व:स्वाहा १६ अग्नयेस्विष्टकृते० १७ ॥
विष्णुश्चेत्संकर्षणादिदेवता: ॥ तत:पूर्णाहुतिं ॐ सप्ततेअ० ॐ पुनस्त्वादित्या० इति
मंत्राभ्यांहुत्वा आचार्य: ॐ याओषधींपूर्वा० इतिदेवायपुष्पफलसर्वौषधी:समर्प्यसंपातोदकं
ताम्रपात्रेआदायदेवमंत्रेणशतवारमभिमंत्र्यतेनदेवशिरसिसिंचेत् ॥
तत: ॐ उत्तिष्ठब्रह्म० इतिदेवमुत्थाप्य ॐ विश्वतश्चक्षु० इत्युपतिष्ठेत ॥ ततो देवं ध्यात्वाजपेत् ॥
ॐ ब्रह्मणेनम: ॐ विष्णवे० ॐ रुद्राय० ॐ इंद्राय० ॐ अग्नये० ॐ यमाय० ॐ निऋतये० ॐ वरुणाय० ॐ वायवे० ॐ सोमाय० ॐ ईशानाय० ॐ वसुभ्यो० ॐ अश्विभ्यां० ॐ मरुभ्ध्यो० ॐ कुबेराय० ॐ गंगादिनदीभ्यो० ॐ अग्नीषोमाभ्यां० ॐ इंद्राग्निभ्यां० ॐ ध्यावापृथिवीभ्यां० ॐ धन्वंतरये० ॐ सर्वेशाय० ॐ विश्वेभ्योदेवे
भ्यो० ॐ ब्रह्मणेनम:इति ॥
त्तत:संपातवास्तुकलशजलेनसामात्यंयजमानमभिषिंचेत्सर्त्विगाचार्य: ॥ ततोदेवंध्यात्वा ॥
ॐ प्रतितिष्ठपरमेश्वरेतिपुष्पांजलिंनिवेध्य ॥
सच्चिदानंदंब्रह्मैवभक्तानुग्रहायगृहीतविग्रहंकरचरणाध्यवयविनंशंखचक्राध्यायुधवंतं निज
हृत्कमलेऽवस्थितसर्वलोकसाक्षिणमणीयांसंपरमेष्ठयसिपरमांश्रियंगमयेतिमंत्रेणपुष्पांजला
वागतंविभाव्य अर्चायांविन्यस्यप्राणप्रतिष्ठांकुर्यात् ॥
अस्यश्रीप्राणप्रतिष्ठामंत्रस्यब्रह्मविष्णुरुद्राऋषय:ऋग्यजु:सामानिच्छंदांसि क्रियामयवपु:
प्राणाख्यादेवता आंबीजं ह्रींशक्ति: क्रोंकीलकं प्राणप्रतिष्ठायांवि० ॥
ब्रह्मविष्णुरुद्रऋषिभ्योनम:शिरसि ॥ ऋग्यजु:सामच्छंदोभ्योनमोमुखे ॥ प्राणाख्यदेवतायै
नमोहृदि ॥ आंबीजायनमोगुह्ये ॥ क्रोंशक्त्यैनम: पादयो: ॥
ॐ अंकंखंगंघंडंपृथिव्यप्तेजोवाय्वाकाशात्मनेआंहृदयायनम: ॥ ॐ इंचंछंजंझंञंशब्दस्पर्श
रुपरसगंधात्मनेईंशिरसेस्वाहा ॥
ॐ उंटंडंठंढंणंश्रोत्रत्वक् चक्षुर्जिव्हाघ्राणात्मनेऊंशिखायैवषट्‍ ॥ ॐ एंतंथंदंधनंवाक्पाणिपा
दपायूपस्थात्मनेऐंकवचायहुं ॥
ॐ ओंपंफंबंभंमंवचनादानविहरणोत्सर्गानंदात्मनेऔंनेत्रत्रयायवौषट् ॥ ॐ अंयंरंलंवंशंषंसंहं
ळंक्षंमनोबुध्द्यहंकारचित्तविज्ञानात्मनेअ:अस्त्रायफट्‍ ॥
एवमात्मनिदेवेचकृत्वादेवंस्पृष्ट्वाजपेत् ॥ ॐ आंह्रीक्रोंयंरंलंवंशंषंसंहंस:देवस्यप्राणाइह
प्राणा: ॥ ॐ आंह्रींक्रों० हंस:देवस्यजीव इहस्थित: ॥
ॐ आंह्रींक्रो० हंस:देवस्यसर्वेंद्रियाणि ॥ ॐ आंह्रीं० हंस:देवस्यवाड्मनश्चक्षु:श्रोत्रजिव्हाघ्रा
णप्राणाइहागत्यस्वस्तयेसुखेनसुचिरंतिष्ठंतुस्वाहा ॥
ततअर्चाहृध्यंगुष्ठंदत्त्वा ॥ ॐ अस्यैप्राणा:प्रतिष्ठंतुअस्यैप्राणा:क्षरंतुच ॥ अस्यैदेवत्वमर्चा
यैमामहेतिचकश्चन ॥ इतिजपेत् ॥
तत: ॐ इतिसंरुध्यसजीवंध्यात्वाध्रुवाध्यौरितितृचंजप्त्वादेवकर्णेदेवगायत्रींदेवमंत्रंचजप्त्वा
पुरुषसूक्तेनोपस्थायदेवस्यपादनाभिशिर:सुस्पृष्ट्वा ॐ इहैवैधिमा० इतिमंत्रंत्रिर्जपेत् ॥
तत:कर्ता ॥ स्वागतंदेवदेवेशमद्भाग्यात्त्वमिहागत: ॥ प्राकृतंत्वमदृष्ट्वामांमातृवत्परिपाल
य ॥ धर्मार्थकामसिध्यर्थंस्थिरोभवशिवायन: ॥
सान्निध्यंतुसदादेवस्वार्चायांपरिकल्पय ॥ यावच्चंद्रावनीसूर्यास्तिष्ठंत्यप्रतिघातिन: ॥
तावत्त्वयात्रदेवेशस्थेयंभक्तानुकंपया ॥ भगवन्देवदेवेशत्वंपितासर्वदेहिनां ॥ येनरुपेणभग
वन् त्वयाव्याप्तंचराचरं ॥
तेनरुपेणदेवेशस्वार्चायांसन्निधोभव ॥ इतिनमेत् ॥ अथाचार्य:कर्तावालिंगंअर्चांवा ॐ भू:
पुरुषमावाहयामि ॥ ॐ भुव:पुरुषमावाहयामि ॥ ॐ स्व:पुरुषमावाहयामि ॥
ॐ भूर्भव:स्व:पुरुषमावाहयामि ॥ ॐ मित्यासनंदत्त्वा तेनैवदूर्वाश्यामाकविष्णुक्रांतापद्म
मिश्रंपाध्यं ॥
ॐ इमाआप:शिवतमा:पूता:पूततमामेध्यामेध्यतमाअमृताअमृतरसा:पाध्यास्ताजुषतांप्रति
गृह्णातुभगवान् महाविष्णुर्विष्णवेनमइतिपाध्यं ॥
भगवान् महादेवोरुद्रायनमइतिरुद्रे ॥ एवंदेवतांतरेषूह्यं ॥ ॐ इमाआप:शिवतमा० अर्घ्यास्ताजुषतांप्रति० ॥ ॐ इमाआप:० आचमनीयास्ताजुषतांप्रति० पंचामृतै:स्नानं ॥
देवमंत्रै:संस्नाप्य ॥ इदंविष्णुरितिविष्णौ नमोअस्तुनीलग्रीवायेतिलिंगेकंकणंविसृज्यवस्त्रं
यज्ञोपवीतंचदत्त्वा ॐ इमेगंधा:शुभादिव्या:सर्वगंधैरलंकृता: ॥ पूताब्रह्मपवित्रेणपूता:सूर्य
स्यरश्मिभि: ॥ इतिगंधा: ॥
ॐ इमेमाल्या:शुभादिव्या:सर्वमाल्यैरलंकृता: ॥ पूताब्र० ॥ इतिमाला० ॥ ॐ इमेपुष्पा०
इतिपुष्पं ॥ वनस्पतिरितिधूपं ॥
ज्योति:शुक्रंचतेजश्चदेवानांसततंप्रियं ॥ प्रभाकरस्तुभूतानांदीपोऽयंप्रतिगृह्यतां ॥ इतिदीपं ॥ विष्णौसंकर्षणादिद्वादशनामभि: पुष्पाणिसमर्प्य तैरेवतर्पणंकृत्वापायसगुडौदनचित्रौदन
चित्रौदनानिपवित्रंतेविततमितिनिवेध्यसंकर्षणादिद्वाद्शनामाभिर्गृहसिध्दान्नकृसराहुतीर्हुत्वा ॥ कृसरेणैव ॐ शार्ड्गिणे श्रियै सरस्वत्यै पुष्ठयै विष्णवे ॐ विष्णोर्नुकं० ॐ तदस्यप्रिय० ॐ प्रतद्विष्णु: ॐ परोमात्रया० ॐ विचक्रमे० ॐ त्रिर्देव:० इतिजुहुयात् ॥
लिंगेतुदीपांतंकृत्वा भवायदेवाय० शर्वायदे० ईशानायदे० पशुपतयेदे० रुद्रायदे० उग्रायदे०
भीमायदे० महतेदे० इतिपुष्पाणिदत्त्वातैरेवतर्पणंकृत्वा ॐ पवित्रंतेइतिपायसंगुडौदनंचनि
वेध्यतैरेवनामभि:कृसरंजुहुयात् ॥
ततोभवस्यदेवस्यपत्न्यैइत्याध्यष्टभिर्गुडौदनंहुत्वा भवस्यदेवस्यसुतायइत्याध्यष्टभिर्हरि
द्रौदनंहुत्वा ॐ त्र्यंबकं० ॐ मानोमहांत० ॐ मानस्तोके० ॐ आरात्तेगोघ्न० ॐ विकिरिद० ॐ सहस्त्राणिसहस्रधाबाहु० ॐ सहस्त्राणिसहस्त्रशो० इत्यादिभिऋग्भि:कृसरं
हुत्वा ॐ शिवाय शंकराय सहमानाय शितिकंठाय कपर्दिने ताम्राय अरुणाय अपगुरमा
णाय हिरण्यबाहवे सस्पिंजराय बभ्लुशाय हिरण्याय इतिचकृसरंहुत्वा ॥
स्विष्टकृदादिहोमशेषंसमाप्यपूर्वोक्तसर्वहविर्भिर्विष्णवेलिंगायवाबलिंदध्यात् ॥ मंत्रस्तु ॥
त्वामेकमाध्यंपुरुषंपुरातनंनारायणंविश्वसृजंयजामहे ॥ त्वमेवयज्ञोविहितोविधेयस्त्वमात्प
नात्मन्प्रतिगृह्णीष्वहव्यं ॥ लिंगेतुनारायणपदेरुद्रंशिवमित्यूह: ॥
ततोऽश्वत्थपर्णे ॥ ॐ भूर्भूव:स्वरोमितिहुतशेषंनिधाय अग्निसहितंदेवंचतुर्वारंप्रदक्षिणीकृ
त्य ॐ विश्वभुजेनम: ॐ आत्मने० इतिनत्वास्थापितदेवतानामुत्तरपूजांविधायाचार्यायगां
दत्त्वाऋत्विग्भ्योदक्षिणांदत्त्वा स्थापितदेवतापीठमाचार्यहस्तेप्रतिपाध्यशतंद्वादशयथाश
क्तिवाविप्रान् परमान्नेनभोजयेदिति ॥
इतिप्रतिष्ठेंदौनिर्णयसिंधूक्त:सर्वदेवचलार्चाप्रयोग: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP