संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथवास्तुमंडलदेवता:

व्रतोदयान - अथवास्तुमंडलदेवता:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


तत्रमंडलेप्रणवाध्यैश्चतुर्थ्यंतैर्नमोंऽतैर्वक्ष्यमाणनामाभिर्देवताआवाह्यस्थापयेत् ॥
तत्रैशानकोणपदेवास्तो:शिरसि ॐ शिखियेनम: शिखिनमावाहयामीत्येवंसर्वत्र १
तद्दक्षिणैकपदेदक्षिणनेत्रे ॐ पर्जन्यायन० २ तद्दक्षिणेततोपिपश्चिमतइतिपदद्वयेदक्षि
णश्रोत्रे ॐ जयंतायन० ३ तद्दक्षिणपदद्वयेदक्षिणांसे ॐ कुलिशायुधाय० ४ तद्दक्षिणप
दद्वयेदक्षिणबाहौ ॐ सूर्याय० ५ तद्दक्षिणपदद्वयेदक्षिणबाहौ ॐ सत्याय० ६ तद्दक्षिणपदद्वयेदक्षिणकर्पूरे ॐ भृशाय० ७ तद्दक्षिणेअंसपंक्तिगतैकपदेदक्षिणप्रबाहौ ॐ आकाशायन० ८ आग्नेयकोणपदेदक्षिणप्रबाहौ ॐ वायवेन० ९ तत्पश्चिमैकपदेदक्षिण
मणिबंधे ॐ पूष्णेन० पूषणमावा० १० तत्पश्चिमेततोप्युत्तरइतिपदद्वयेदक्षिणपार्श्वे ॐ
वितथाय० ११ तत्पश्चिमपदद्वयेदक्षिणपार्श्वेएव ॐ गृहक्षताय० १२ तत्पश्चिमपदद्वये
दक्षिणोरौ ॐ यमाय० १३ तत्पश्चिमपदद्वयेदक्षिणजानौ ॐ गंधर्वाय० १४ तत्पश्चिम
पदद्वयेदक्षिणजंघायां ॐ भृंगराजाय० १५ तत्पश्चिमेबाह्यपंक्तिगतैकपदेदक्षिणस्फिचि
ॐ मृगाय० १६ नैऋतकोनपदैकपदेपादयो: ॐ पितृभ्यो० १७ तदुत्तरैकपदेवामस्फिचि ॐ
दौवारिकाय० १८ तदुत्तरैकपदेततोपिप्रागितिपदद्वयेवामजंघायां ॐ सुग्रीवाय० १९ तदुत्तर
पदद्वयेवामजानौ ॐ पुष्पदंताय० २० तदुत्तरपदद्वयेवामोरौ ॐ जलाधिपाय० २१ तदुत्तरपदद्वयेवामपार्श्वे ॐ असुराय० २२ तदुत्तरपदद्वयेवामपार्श्वेएव ॐ शोषाय० २३ तदुत्तरेबाह्यपंक्तिगतैकपदेवाममणिबंधे ॐ पापाय० २४ वायव्यकोणपदेवामप्रवाहौ ॐ रोगाय० २५ तत्प्रागेकपदेवामप्रवाहौ ॐ अहये० २६ तत्प्राक्ततोपिदक्षिणेचेतिपदद्वयेवाम
कर्पूरे ॐ मुख्याय० २७ तत्प्राक् पदद्वयेवामबाहौ ॐ भल्लाटाय० २८ तत्प्राक् पदद्वये
वामबाहौ ॐ सोमाय० २९ तत्प्राक्पदद्वयेवामांस ॐ सर्पाय० ३० तत्प्राक् पदद्वयेवाम
श्रोत्रे ॐ अदितयेन० ३१ तत्प्राग् बाह्यपंक्तिगतैकपदेवामनेत्रे ॐ दितयेन० ३२ तद्दक्षिणेईशानकोणपदाध:कोणपदेमुखे ॐ आपाय० ३३ आग्नेयकोणपदादध:कोणपदेद
क्षिणहस्ते ॐ सावित्राय० ३४ नैऋत्यपदाध:कोणपदेमेढ्रे ॐ जयाय० ३५ वायव्यकोणाध:
कोनपदेवामहस्ते ॐ रुद्राय० ३६ मध्यगतनवकोष्ठब्रह्मपदसंलग्नप्रागादिपदत्रयेदक्षिण
स्तने ॐ अर्यम्णे० अर्यमणमावा० ३७ तद्दक्षिणैकपदेदक्षिणहस्ते ॐ सवित्रेन० ३८
तत्पश्चिमेब्रह्मसंलग्नपदत्रयेजठरवामभागे ॐ विवस्वतेन० विवस्वंतमा० ३९ तत्पश्चिमै
कपदेवृषणयो: ॐ विबुधाधिपाय० ४० तदुत्तरब्रह्मसंलग्नपदत्रयेजठरवामभागे ॐ मित्राय ४१ तदुत्तरैकपदेवामहस्ते ॐ राजयक्ष्मणे० राजयक्ष्माणमा० ४२ तत्प्राक्पदत्रयेवामस्तने ॐ पृथ्वीधरायन० ४३ तत्प्रागेकपदेउरसि ॐ आपवत्साय० ४४ ततोमध्यनवपदेषुहृन्ना
भ्यो: ॐ ब्रह्मणेन० ४५ ॥
तदुत्तरे वास्तोष्पतेमैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् वृषवास्तुप्रतिष्ठापनेविनियोग: ॐ वास्तोष्पतेप्रतिजानी० इतिसुवर्णादिप्रतिमामग्न्युत्तारणपूर्वकंसंस्थाप्य ४६ मंडलाब्दहि
रीशानादिकोणचतुष्टये ॐ चरक्यै० ४७ ॐ विदार्यै० ४८ ॐ पूतनायैन० ४९ ॐ पापराक्षस्यैन० ५० तत:पूर्वोदिचतुर्दिक्षु ॐ स्कंदायन० ५१ ॐ अर्यम्णेनम: ५२ ॐ जृंभ
कायन० ५३ ॐ पिलिपिच्छायन० ५४ तत:पूर्वाध्यष्टदिक्षुतत्तन्मंत्रैर्नामभिर्वा ॐ इंद्रायन०
५५ ॐ अग्नयेन० ५६ ॐ यमायन० ५७ ॐ निऋतयेन० ५८ ॐ वरुणायन० ५९ ॐ वायवेन० ६० ॐ कुबेरायन० ६१ ॐ ईशानाय० ६२ इत्यावाह्य वास्तुपीठदेवताभ्योनम इतिसंपूज्यमंडलादीशान्यांकलशंसंस्थाप्यतत्रवरुणायनमइतिवरुणंसंपूज्याग्निसमीपमेत्याऽन्वाधानंकुर्यात् अस्मिन्वास्तुशांतिकर्मण्यन्वाधानंकरिष्ये ॥
अस्मिनन्वाहितेऽग्नावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वाऽत्रप्रधानं ॥ आदित्यादिनवग्रहान्
प्रत्येकंप्रतिद्रव्यं अष्टाविंशत्यष्टाविंशतिसंख्याकाभि:समित्तिलाज्याहुतिभि: ॥
अधिदेवता:प्रत्यधिदेवताश्चतैरेवद्रव्यै:प्रत्येकंप्रतिद्रव्यंअष्टाष्टसंख्याकाभि: ॥
क्रतुसाद्गुण्यदेवता:क्रतुसंरक्षकदेवताश्चचतुश्चतु:संख्याकाभि:तैरेवद्रव्यै: ॥ शिख्यादिपंचच
त्वारिंशद्देवता:प्रत्येकंप्रतिद्रव्यंअष्टोत्तरशताष्टाविंशत्यष्टान्यतमसंख्याकाभि:औदुंबरसमित् १ तिल २ (यव) पायस ३ आज्या ४ हुतिभि: ॥
वास्तुंवास्तोष्पतइतिचतसृभिऋग्भि:प्रतिद्रव्यं १०८ वा २८ वा ८ संख्याहुतिभि:पूर्वोक्तद्र
व्यै: ॥
पुनर्वास्तुंवास्तोष्पत इतिचतसृभि:वास्तोष्पतेध्रुवास्थूणामित्यनयाचक्रमेणप्रत्यृचंपंचैकान्य
तरसंख्याकाभि:पंचबिल्वफलाहुतिभिस्तद्वीजाहुतिभिर्वा ॥
चरक्यादीनष्टौप्रत्येकं प्रतिद्रव्यंअष्टाभि:चतसृभिर्वासमित्तिलपायसाज्याहुतिभिर्यक्ष्ये ॥
शेषेणेत्यादिप्रणीताप्रणयनांतेशिख्यादिदेवताभ्य:प्रत्येकममुष्मैत्वेतिनिर्वापप्रोक्षणपूर्वकमाज्यभागांतेयजमान:इदंउपकल्पितमन्वाधानोक्तद्रव्यजातमन्वाधानोक्ताहुतिसंख्यापर्याप्त
मन्वाधानोक्ताभ्योदेवताभ्योनममेत्युक्त्वोसृजेत् ॥
ततआचार्यादयोग्रहहोमंकृत्वा उदुंबरसमित् १ तिल २ पायस ३ आज्य ४ द्रव्यै: शिख्यादिपंचचत्वारिंशद्देवताभ्योनाममंत्रै:प्रत्येकमष्टाविंशत्यष्टाष्टसंख्याकाभिराहुतिभिर्वा
हुत्वा वास्तवेवास्तोष्पत इतिचतसृभि:क्रमेणउदुंबरसमित्तिलपायसाज्यनिजुहुयात् ॥
पुनर्वास्तवेवास्तोष्पत इतिचतसृभिर्वास्तोष्पतेध्रुवेत्यनयाचप्रत्यृचंपंचएकैकंवाघृताक्तंबिल्वं
जुहुयात् ॥
वास्तोष्पत इतिचतसृणांवसिष्ठोवास्तोष्पतिस्त्रिष्टुबंत्यागायत्री ॥ वास्तोष्पतेध्रुवास्थूणा
मितीरिंबिठिर्वास्तोष्पतिर्बृहती ॥ होमेविनियोग: ॥
ततश्चरक्यादिभ्योन्वाधानोक्तमुख्यन्यूनसंख्ययासमिदादिद्रव्याणिजुहुयात् ॥ इंद्रादीनां
होम:कृताकृत: तत:स्विष्टकृदादिप्रायश्चित्तहोमांते लोकपालेभ्योग्रहपीठदेवताभ्य:क्षेत्रपाला
यचबलिंदत्त्वापूर्णाहुतिंजुहुयात् ॥ मूर्धानंभरद्वाजोवैश्वानरस्त्रिष्टुप् पूर्णाहुतौवि० ॥
ॐ मूर्धानं देवा:स्वाहा वैश्वानरायेदं० ॥ तत:प्रणीतानिनयनादिकर्मशेषंसमाप्यवास्तुमंडल
पश्चिमदेशे ॐ शिखिनेनम; एषपायसबलिर्नममेतिप्रत्येकंपायबलीन्दत्त्वाचरक्यादिभ्यस्त
थैवमाषभक्तबलीन्दध्यात् ॥
ततआचार्यादय:समुद्रज्येष्ठाइत्यादिमंत्रै:सुरास्त्वामित्यादिभिश्चमंत्रै:सपत्नीकंयजमानंशांति
कलशोदकेनाभिषिच्यसर्वौषधीभिरनुलिप्यस्नापयेयु: ॥
तत:यजमानआचार्योवागृहंप्रागादितस्त्रिसूत्र्याराक्षोघ्नपावमानमंत्रै: सतूर्यमंगलघोषंवेष्टयि
त्वा समंताद्दुग्धपूर्णयाजलपूर्णयाचसस्तन्कुंभ्यातथैवसूक्तद्वयेनधाराद्वयमविच्छिन्नं
कुर्यात् ॥
कृणुष्वेतिपंचदशर्चंरक्षोहणंवाजिनम्तिपंचविंशर्चंवाराक्षोघ्नं ॥ स्वादिष्ठयेतिदशर्चंपावमानं ॥ ततोमध्यनवपदेब्रह्मस्थानेसुरुपांस्त्रीरुपांपृथ्वींध्यात्वा ॐ पृथिव्यैनम: इतिसंपूज्य ॥
सर्वदेवमयंवास्तुवास्तुदेवमयंपरंइतिपठित्वा ॥ गृहस्याग्नेयकोणेआकाशपदे यजमानपदेन
जानुमात्रंगर्तंखात्वामध्येगोमयेनोपलिप्यशुभ्रचंदनपुष्पाक्षतैरलंकृत्यसरधान्यबीजानिदध्यो
दनंचक्षिप्त्वानवंजलपूर्णंकलशंशुक्लैकपुष्पयुतंगंधाध्यचिंतमादायजानुभ्यामवनिंगत्वातज्ज
लंगर्ते ॐ नमोवरूणायेतिमंत्रेणक्षिपेत् ॥
जलेप्रदक्षिणावर्तेपुष्पेचोर्ध्वमुखेशुभम् ॥ तत:पक्वमृत्पेटिकायांशाल्यादिसप्तधान्यबीजानि
यव १ व्रीहि २ माष ३ तिल ४ कंगु ५ श्यामाक ६ मुद्गाख्यानि ७ दध्योदनंशैवालंफलपुष्पाणिचक्षिप्त्वातूर्यघोषेणपूर्वस्थापितवृषवास्तुप्रतिमामानीयपेटिकायां
संस्थाप्यगंधादिभि:संपूज्यप्रार्थयेत् ॥
पूजितोऽसिमयावास्तोहोमाध्यैरर्चनै:शुभै: ॥ प्रसीदपाहिविश्वेशदेहिमेगृहजंसुखं ॥ वास्तुमू
र्तेनमस्तेऽस्तुभूशय्याभिरतप्रभो ॥
मद्गृहंधनधान्यादिसमृध्दंकुरुसर्वदेति ॥ ततोमृत्पेटिकांपिधायशनैर्गतेंसंस्थाप्य ॥ सशैल
सागरांपृथ्वींयथावहसिमूर्धनि ॥
तथामांवहकल्याणसंपत्संततिभि:सह ॥ इतिसंप्रार्थ्यतयैवमृदागर्तंपूरयेत् ॥ मृदआधिक्ये
उत्तमंसाम्येमध्यमंन्यूनत्वेत्वधमंफलंविध्यात् ॥ गर्तोपरिभूमिंगोमयेनोपलिप्यशुक्लगंधपु
ष्पाक्षतैर्भूषयेत् ॥
ततोऽग्ने:पश्चिमतआचार्यंसंपूज्यतस्मैवासोयुगंगांचदत्त्वाब्रह्मऋत्विग्भ्योयथाशक्तिदक्षणां
दत्त्वाग्रहाणाम्शिख्यादीनांचपूजांकृत्वाक्षमाप्य ॐ उत्तिष्ठब्र० यांतुदेवेतिचविसर्जनेकृतेतत्प्र
तिमाध्याचार्यहस्तेप्रतिपाध्याग्निंसंपूज्यगच्छगच्छेतिविसृज्यब्राह्मणै:शांतिंपाठयित्वाग्रह
शिख्यादिप्रीत्यर्थंप्रत्येकंत्रींस्रीनेकैकंवायथाशक्तिवाब्राह्मणान्संभोज्याशिषोगृहीत्वासुहृध्युतो
भुंजीत ॥ इतिश्रीमन्नारायणभट्टसूरिसूनुभट्टरामकृष्णविरचित:पौराणवास्तुशां० ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP