संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथदशहराव्रतविधि:

व्रतोदयान - अथदशहराव्रतविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ देशकालौसंकीर्त्य ममैतज्जन्मजन्मांतरसमुद्भतत्रिविधकायिकचतुर्वि
धवाचिकत्रिविधमानसिकेतिस्कांदोक्तदशविधपापनिरासत्रयस्त्रिंशच्छतपित्रुद्वारब्रह्मलोकावाप्त्यादिफप्राप्त्यर्थं ज्येष्ठमासादिदशयोगपर्वणिअस्यांमहानध्यांस्नानंतीर्थपूजनंप्रतिमायां
जान्हवीपूजांतिलादिदानंमूलमंत्रजपमाज्यहोमंचयथाशक्तिकरिष्ये ॥
यथाविधिस्नानंदशवारंकृत्वा ॥ जलेस्थितोदशवारंसकृद्वावक्ष्यमाणंस्तोत्रंपठित्वावास:परि
धानादिपितृतर्पनांतंनित्यंविधाय तिर्थेपूजांविधाय सर्पिर्मिश्रान् दशप्रसृतिकृष्णतिलान् तीर्थेजलिनाप्रक्षिप्यगुडमिश्रान् सक्तुपिंडान् दशप्रक्षिपेत् ॥
ततोगंगातटे ताम्रेमृन्मयेवास्थापितकलशेसौवर्णादिप्रतिमायांचतुर्भुजांगंगामावाहयेत् ॥
तत्रमंत्र: ॥ नमोभगवत्यैदशपापहरायैगंगायैगंगायैनारायण्यैरेवत्यैशिवायैदक्षायैअमृतायैवि
श्वरुपिण्यैनंदिन्यैतेनमोनम: ॥
द्विजमात्रविषयोविंशत्यक्षरोयथा ॥ ॐ नम:शिवायैनारायण्यैदशपापहरायैगंगायैस्वाहेति ॥ एवं गंगामावाह्य ॥ नारायणंरुद्रंब्रह्माणंसूर्यंभगीरथंहिमाचलंचनाममंत्रेणतत्रैवावाह्य ॥
उक्तमूलमंत्रमुच्चार्यश्रीगंगायैनारायणरुद्रब्रह्यसूर्यभगीरथहिमवत्सहितायैआसनंसमर्पयामी
त्येवमासनाध्युपचारै:पूजयेत् ॥
दशविधपुष्पै:संपूज्यदशांगंधूपयित्वादशविधनैवेध्यांतेतांबूलदक्षिणांदत्त्वादशफलान्यर्पयित्वा
दशदीपान्दत्त्वापूजांसमापयेत् ॥
दशविप्रेभ्य:प्रत्येकंषोडशषोडशमुष्टितिलान् सदक्षिणान् दध्यात् ॥ एवंयवानामपि ॥
ततोदशगाएकांवागांदध्यात् ॥ मत्स्यकच्छपमंडूकान् सौवर्णान् राजतान् पिष्टमयान्वासं
पूज्यतीर्थेक्षिपेत् ॥
एवंदीपान्प्रवाहयेत् ॥ जपहोमचिकीर्षायांपूर्वोक्तमूलमंत्रस्यपंचसहस्त्रसंख्याजपदशांशहोम: ॥ यथाशक्तिवाजपहोमौ ॥ तत्रदशहराव्रतांगत्वेनहोमंकरिष्येइतिसंकल्प्य स्थंडिलेऽग्निंप्र
तिष्ठाप्यान्वाधानेचक्षुषीआज्येनेत्यंतेश्रीगंगांअमुकसंख्ययाआज्येन नारायणादिषड्देवताए
कैकयाज्याहुत्याशेषेणस्विष्टकृतमित्यादिप्रोक्षण्यादिषट्‍पात्राण्यासाध्य आज्यंसंस्कृत्ययथा
न्वाधानंजुहुयात् ॥
दशब्राह्मणान् सुवासिनीश्चभोजयेत् ॥ प्रतिपद्दिनमारभ्यस्नानादिपूजांतोविधि:कार्यइति
केचित् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP