संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकुंडसंस्कारादि

व्रतोदयान - अथकुंडसंस्कारादि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत:कुंडांतिकमेत्यदेशकालध्युच्चार्य अमुकप्रतिष्ठांगत्वेनहवनंकर्तुंकुंडोपलेनाध्य
ग्निप्रतिष्ठांकरिष्ये ॥
तद्गोमयेनोपलिप्योल्लिख्य उपरिमेखलायांइदंविष्णुरितिविष्णुं मध्यमेखलायांब्रह्मज
ज्ञानमितिब्रह्माणं अधोमेखलायांकद्रुद्रायेतिरुद्रं योन्यांगौरीर्मिमायेतिगौरीं आवाह्यसंपूज्य
स्वगृह्योक्तविधिनाग्निंप्रतिष्ठाप्य नैऋत्यवेध्यांवास्तुपूजामुपरिनिर्दिष्टवत्कुर्यात् ॥
ततोग्रहवेध्यामुक्तविधिनाग्रहान्संस्थाप्यसंपूज्य तदीशान्यांकुंभेवरुणंसंपूज्य अग्निसमीप
मेत्यान्वाधानंकुर्यात् ॥
अत्रप्रधानं वास्तुहोमे शिख्यादिपंचचत्वारिंशद्देवता: उदुंबरसमित्तिल (यव) पायसाज्यद्र
व्यै:प्रत्येकंप्रतिद्रव्यमष्ट ८ संख्याकाभि: वास्तोष्पतिंवास्तोष्पतइतिचतसृभि:पूर्वोक्तद्रव्यै:
प्रतिद्रव्यंप्रत्यृचं २७ पुन: वास्तोष्पतइतिचतसृभि:वास्तोष्पतेध्रुवास्थूणामित्यनयाचप्रत्यृचं
बिल्वफलेनतत्खंडेनवा चरक्याध्यवशिष्टदेवता:पूर्वोक्तचतुर्द्रव्यै:प्रत्येकंप्रतिद्रव्यंचतु:संख्या
भि: ॥
ग्रहहोमे सूर्यादिनवग्रहदेवता: अर्कादिसमिच्चर्वाज्यद्रव्यै:प्रतिदैवतंप्रतिद्रव्यं २८ वा ८ ॥
अधिदेवता:प्रत्यधिदेवताश्चप्रत्येकंप्रतिद्रव्यं ८।४ भिर्वाविनायकादीनिंद्रादींश्चप्रत्येकंप्रतिद्र
व्यं ४।२ संख्याकाभि:पूर्वोक्तद्रव्यत्रयातुतिभि: ॥
प्रधानहोमे लोकपालमूर्तिमूर्तिपतीन् पलाशोदुंबराश्वत्थशम्यपामार्गसमिदाज्यतिलद्रव्यै:प्र
त्येकंप्रतिद्रव्यं २८ वा ८ संख्याहुतिभि: स्थाप्यदेवंपूर्वोक्तद्रव्यै:प्रतिद्रव्यं १००८।१०८।२८
वासंख्यया ॥
अग्निर्यजुर्भिरित्यनुवाकेनविश्वान्देवान् तिलाज्याभ्यांदशदशाहुतिभि: ॥ पिंडिकांतैरेवद्रव्यै;
प्रतिद्रव्यंअष्टसंख्याहुतिभि: परिवारदेवता:प्रत्येकंप्रतिद्रव्यं ८ संख्याभि:एवंपंचपर्यायै:पर्या
यत्रयेणवायक्ष्येनपुन: स्थाप्यदेवंविष्णुं पुरुषसूक्तेनचतुरावृत्तिभि:प्रत्यृचमाज्येन प्रासादाधि
वासनहोमे पिंडिकावाहनपरिवारदेवता: प्रत्येकमष्टाविंशतिसंख्याभिस्तिलाहुतिभि: स्थाप्य
देवंविष्णुं अष्टोत्तरशतसंख्यया चरुद्रव्येण मूलमंत्रेण (प्रासादोत्सर्गेकर्तव्ये प्रासादोत्सर्गांग
होमे वास्तुं वास्तोष्पते इति मंत्रेण अष्टोत्तरशतसंख्याहुतिभिराज्यद्रव्येण स्थाप्यदेवं अष्टोत्तरशतसंख्याभिराज्यद्रव्येण)
ब्रह्मादिमंडलदेवता: प्रत्येकंदशदशाहुतिभिर्घृताक्ततिलद्रव्येण शेषेणेत्यादि (स्थाप्यदेवेरुद्रे
तुपुन:स्थाप्यदेवंशिवंयातइषुरित्यनुवाकेनद्रापेसहस्त्राणीत्यनुवाकाभ्यांच प्रतिमंत्रंचतुरावृत्ति
भिराज्येन प्रासादाधिवासनहोमेइत्यादिपूर्ववदन्वादध्यात्) आज्यभागांतेअग्नेरुत्तरत:संपात
कलशंसंस्थाप्यतस्मिन्नाज्यहोमेसंपातान्नयेत् ॥
अथयजमानेनद्रव्यत्यागेकृतेन्वाधानक्रमेणसर्त्विगाचार्योजुहुयात् ॥ वास्तुहोमंकृत्वाराक्षो
घ्नसूक्तपावमानसूक्ताभ्यां त्रिसूत्र्याप्रासादंवेष्टयित्वा परितोजलदुग्धयो:पृथगविच्छिन्ने
जलधारेदत्त्वापूर्वस्थापितवास्तुप्रतिमांमृत्पेटिकायांनिधायप्रासादाग्नेयकोणे (वायव्यकोणे
वा) वास्तुविध्युक्तप्रकारेणगर्तेनिवेशयेत् ॥
ततोग्रहहोमंकृत्वाप्रधानहोमंकुर्यात् प्रतिद्रव्यहोमांतेदेवंपादनाभिशिर:सुस्पृशेत् ॥ तत्रमंत्रा: ॥ ॐ इंद्रायेंदो० स्योनापृथिवि० अघोरेभ्यो० अग्नआयाहि० अग्निंदूतंवृ० नम:शिवायचप
शुपतयेच० यमायसोमं० असिहिवी० स्तुहिश्रुतं० असुन्वंतु० आकृष्णेन० योरुद्रोअग्नौ० इमंमेवरुण० शंनोदेवी० नमोभवायचरुद्रायच० आनोनियुभ्दि:० वातआवातु० तमीशानं० आप्यायस्व० वयंसोम० तत्पुरुषायविद्महे० अभित्वादेवस० आदित्प्रत्नस्य० नमउग्रायचभीमायच० २४ इतिलोकपालादिहोम: ॥
तत:पलाशसमिदादिसप्तद्रव्यै:स्थाप्यदेवमंत्रेणउक्तसंख्यहोम: ॥ अग्निर्यजुर्भिरित्यनुवाके
नप्रतिद्रव्यं १० ॥
ॐ अग्निर्युजुर्भि: । सवितास्तोमै: । इंद्रउक्थामदै: । मित्रावरुणावाशिषा । अंगिरसोधि
ष्णियैरग्निभि: । मरुत:सदोहविर्धानाभ्यां । आप:प्रोक्षणीभि: । ओषधयोबर्हिषा । अदितिर्वेध्या । सोमोदीक्षया ॥१॥
त्वष्टेध्मेन । विष्णुर्यज्ञेन । वसवआज्येन । आदित्यादक्षिणाभि: । विश्वेदेवाऊर्जा । पूषास्वगाकारेण । बृहस्पति:पुरोधया । प्रजापतिरुद्गीथेन । अंतरिक्षंपवित्रेण । वायु:पात्रै: । अहश्रध्दयास्वाहा ॥२॥
पिंडिकां ॐ ह्रीश्चतेलक्ष्मीश्च० ॥ लिंगार्चायांगौरिर्मिमायेतिमंत्रेणतैरेवद्रव्यै: प्रतिद्रव्यं ८ ॥ तत:परिवारस्थाप्यानांमंत्रै:प्रतिद्रव्यं ८ इतिप्रथमपयायंहुत्वादेवपादौस्पृशेत् ॥
एवंद्वितीयंपर्यायंहुत्वानाभिं ॥ तृतीयंमध्यं ॥ चतुर्थंउर: ॥ पंचमंहुत्वाशिर:स्पृष्ट्वा प्रतिपर्यायंसंपातजलेनदेवमभिषिञ्चेत् ॥
तत:स्थाप्येविष्णौपुरुषसूक्तेनप्रत्यृचमाज्यंहुत्वाइदंविष्णुरितिपादौस्पृशेत् पुनस्तथाहुत्वावि
ष्णोर्नुकमितिनाभिंस्पृशेत् पुनस्तथाहुत्वाअतोदेवाइतिशिर: पुनस्तथाहुत्वापुरुषसूक्तेनसर्वां
गंस्पृशेत् ॥
रुद्रेतु ॐ यातैइषु:शि० अनुवाकांतं ॐ द्रापे० सहस्त्राणि० इत्यनुवा काभ्यांचप्रत्यृचमाज्यं
हुत्वा सर्वोवैरुद्रइतिमंत्रेणमूलंस्पृशेत् ॥ पुनस्तथाहुत्वाकद्रुद्राये तिमध्यंस्पृशेत् ॥
पुनस्तथाहुत्वानमोहिरण्यबाहवइत्यग्रंस्पृशेत् ॥ पुनस्तथाहुत्वारुद्रेणसर्वांगंस्पृशेत् ॥
अथप्रासादाधिवासनहोम: पिंडिकामंत्रेणपरिवारदेवमंत्रैश्चप्रत्येकं २८ तिल होम: ॥
मूलमंत्रेणचरुं १०८ हुत्वाप्रासादोत्सर्गेचिकीर्षिते वास्तोष्पतइतिमंत्रेण १०८ आज्यंहुत्वा देवमंत्रेण १०८ आज्यं चहुत्वा ब्रह्मादिमंडलदेवता:प्रत्येकं १० तिलैर्हुत्वा मूर्धानमितिपूर्णा
हुतिंजुहुयात् ॥
तत:स्विष्टकृदादिहोमशेषंसमाप्यपिंडिकापरिवारदेवांश्चवेध्यांप्रतिमासमीपेवेदीसन्निधौवावस्त्राच्छादितपीठेनिधाय मधुघृतेनाभ्यज्य शुध्दवारिणाप्रक्षाल्य पूर्वस्नानावशिष्टकलशवा
रिणातत्तन्मंत्रै:स्नापयित्वागन्धादिभिरभ्यर्च्यवस्त्रैराच्छाध्यन्यासान्कुर्यात् ॥
तत्रपिंडिकायांन्यास: ॥ ॐ घंनम:हृदये ॥ ॐ पंनम:शिरसि ॥ ॐ भंनम:शिखायां ॥ ॐ फंनम:कवचायहुं ॥ ॐ लंनम:नेत्रत्रयायवौषट् ॥ ॐ क्षंनम: अस्त्रायफट् ॥ ॐ महीमूषुमातरं० इतिमंत्रेणावाह्य ॐ अदितिर्ध्यौरदितिरं० इतिस्तुत्वा ॐ ह्रींनमइतिमंत्रेण
संपूज्य तेनैवपूर्णाहुतिंहुत्वा ॥
ॐ ह्रींश्रींह्रींक्ष:परब्रह्मणेसर्वाधारायनम: ॐ ह्रींश्रींह्रीं दिव्यतेजोधारिणिसुभगेनमइतिमंत्रा
भ्यामधिवासयेत् ॥
तथापरिवारत्वेनस्थाप्येतरदेवेषुचतत्तन्मंत्रेणषडंगन्यासादिकृत्वातत्तन्मंत्रेणसर्वा:परिवारदेवता:पूजनपूर्वकंमुख्यदेवतावामपार्श्वेऽधिवासयेत् ॥
अथप्रासादाधिवासनं ॥ प्रासादस्याग्रेएकाशीतिपदंमंडलंअक्षतै:कृत्वातेषुपदेषुसप्तधान्यपुंजा
न्कृत्वातत्रजलपूर्णान् ८१ कलशानाहृत्यनवनवकानिस्थापयित्वा तेषुमध्यमपूर्वादिक्रमेण आजिघ्रकलशंमह्युरुधारापयस्वत्यात्वाविशंत्विंदव:समुद्रमिवसिंधव: सामासहस्त्रआभजप्र
जयापशुभि:सहपुनर्माविशताद्रयि: ॥
इतिमंत्रावृत्त्याष्टदिक्षुमध्येचनवकुंभान्न्यसेत् ॥ तत्रमध्यनवकमध्यकुंभेशम्युदुंबराश्वत्थचं
पकाशोकपलाशप्लक्षन्यग्रोधकदंबाम्रबिल्वार्जुनपल्लवान् सोमायवनस्पत्यंतर्गतायनमइति
न्यसेत् १ पूर्वनवकमध्यकुंभेपद्मकरोचनदूर्वादर्भश्वेतपीतसर्षपसितरक्तचंदनजातीपुष्पकुंद
नंध्यावर्तदशकंक्षिपेत् २ आग्नेयनवकमध्यकुंभेयवव्रीहितिलस्वर्णरजतसमुद्रगानदीजलकूल
मृदंतरिक्षगोमयंक्षिपेत् ३ दक्षिणनवकमध्यकुंभेसहदेवीविष्णुक्रांताभृंगराजमहौषधीशमीश
तावरीगुडूचीश्यामाकानष्टौक्षिपेत् ४ नैऋत्यनवकमध्यकुंभेकदलनारिकेलबिल्वनारिंगमातु
लिंगगदरामलकचूतफलाष्टकं ५ पश्चिमेमंत्रवत्पंचगव्यं ६ वायव्येशमुदुंबराश्वत्थन्यग्रोध
फलानांकषायं ७ उत्तरेशंखपुष्पीसहदेवीबलाशतावरीगुडूचीवचाव्याघ्रीमूलाष्टकं ८ ऐशानेस
प्तमृद: ९ इतिक्षिप्त्वा तान् श्रीसूक्तेनाभिमंत्र्य शेषान्गंधोदकपूरितान्मध्यादिकलशानां
समंतात्पूर्वादिक्रमेणाष्टावष्टौविन्यस्यसर्वानेकाशीतिकलशान् स्थाप्यदेवमूलमंत्रेणाभिमंत्र्य
सूत्रेणावेष्ट्यांतर्बहिरधऊर्ध्वंचप्रासादंपंचगव्येनाभ्युक्ष्यमूर्धानंदिवइतिवल्मीकमृदाविलिप्यव
क्ष्यमाणमंत्रै:कुंभोदकै:प्रासादमभिषिंचेत् ॥
ॐ समुद्रज्येष्ठा:० इत्यैशाननवकमध्यस्थेनमृत्कुंभेन १ ॥
ॐ यज्ञायज्ञाव:समनातुतुर्वणिर्धियंधियंवोदेवयाउदधिध्वे ॥ आवोर्वाच:सुवितायरोदस्योर्महे
ववृत्यामवसेसुवृक्तिभि: ॥ इतिवायव्यनवकमध्यस्थेनकषायकुंभेन २ ॥
ॐ पय:पृथिव्यांपयओषधीषुपयोदिव्यंतरिक्षेपयोधां ॥ पयस्वती:प्रदिश:संतुमह्यं ॥
इतिवारुणपंचगव्यकुंभेन ३ ॥
ॐ या:फलिनीर्या इतिनैऋत्यफलकुंभेन ४ ॥
हंस:शुचिषदितिसौम्यमूलकुंभेन ५ ॥
ॐ विष्णोरराटमसिविष्णो:पृष्ठमसिविष्णो:श्नप्त्रेस्थोविष्णो:स्यूरसिविष्णोर्ध्रुवमसिविष्णवे
त्वाइतिपूर्वकुंभेन ६ ॥
ॐ सोमंराजानमवसेग्निंगीर्भिर्हवामहे ॥ आदित्यान्विष्णुंसूर्यब्रह्माणंचबृहस्पतिं ॥ इति
वन्हिकुंभेन ॥ विश्वतश्चक्षुरितियाम्यकुंभेन ८ ॥
नमोअस्तुसर्पेभ्योयेकेचइतिमध्यकुंभेन ९ ॥
इदमाप:प्रवहतेतिप्रागाध्यष्टकुंभै:सर्वै:सशिखरंप्रासादंपूर्वादिक्रमेणस्त्रापयेत् ॥ एकाशीतिकुं
भासंभवेतुएककुंभेनगंधोदकपुरितेन ॐ दैव्यायकर्मंणेशुंधत्वं इतिप्रासादंप्रोक्ष्यक्षालयित्वा
देवरुपंप्रासादंसंचिंत्यपताकादिनाशोभयित्वागंधादिनासंपूज्यतस्याधस्ताद्देवंसंचित्यमंत्रेणप्रासादमधिवासयेत् तध्यथा ॐ ह्रीं सर्वदेवमयाचिंत्यसर्वरत्नोज्ज्वलाकृते ॥
यावच्चंद्रश्चसूर्यश्चतावदत्रस्थिरोभव ॥ इतिमंत्रेणप्रासादमधिवासयेत् ॥ ततश्चतस्त्रोगा:
देवगायत्र्यादुग्ध्वातत्क्षीरेदेवगायत्र्याचरुंश्रपयित्वादेवायनिवेध्यद्वादशब्राह्मणान्भोजयित्वा
अनेनकर्मणाविष्णुर्मेप्रीयतामितिवदेत् ॥
ततआचार्यायधेनुंदत्त्वारात्रौजागरणंकुर्यादितिप्रासादाधिवासनं ॥ अथप्रासादोत्सर्गोऽभीप्सित
श्चेत्तदानीमेवप्रासादोत्सर्गंकुर्यात् ॥
यथा यजमानोबहिर्निर्गत्य प्रासादाभिमुखोभूत्वा प्रासादंदेवरुपपंध्यात्वादेशकालौसंकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं इमंशिलेष्टकादार्वादिनिर्मितंवलभीजगतीप्राकारगोपुरपरिवारदेवतालयसं
युतंप्रासादं तत्तद्देवतालोककाम:कुलद्वयानुग्रहाय अमुकदेवताप्रीतयेऽहमुत्सृजामि इतिकु
शयवयुतंजलंक्षिप्त्वादेवंनत्वाब्राह्मनान् भोजयेत् ॥
उत्तरदिनेदेवप्रतिष्ठोत्तरंप्रासादोत्सर्गंकुर्यादितित्रिविक्रम: । हेमाध्यादयस्तु प्रासादस्यदेवमय
त्वेनध्यानमेवोत्सर्ग: नत्वस्यसंकल्पइत्यूचु: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP