संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथकुंडसंस्कारादि व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथकुंडसंस्कारादि ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथकुंडसंस्कारादि Translation - भाषांतर श्री: ॥ तत:कुंडांतिकमेत्यदेशकालध्युच्चार्य अमुकप्रतिष्ठांगत्वेनहवनंकर्तुंकुंडोपलेनाध्यग्निप्रतिष्ठांकरिष्ये ॥तद्गोमयेनोपलिप्योल्लिख्य उपरिमेखलायांइदंविष्णुरितिविष्णुं मध्यमेखलायांब्रह्मजज्ञानमितिब्रह्माणं अधोमेखलायांकद्रुद्रायेतिरुद्रं योन्यांगौरीर्मिमायेतिगौरीं आवाह्यसंपूज्यस्वगृह्योक्तविधिनाग्निंप्रतिष्ठाप्य नैऋत्यवेध्यांवास्तुपूजामुपरिनिर्दिष्टवत्कुर्यात् ॥ ततोग्रहवेध्यामुक्तविधिनाग्रहान्संस्थाप्यसंपूज्य तदीशान्यांकुंभेवरुणंसंपूज्य अग्निसमीपमेत्यान्वाधानंकुर्यात् ॥ अत्रप्रधानं वास्तुहोमे शिख्यादिपंचचत्वारिंशद्देवता: उदुंबरसमित्तिल (यव) पायसाज्यद्रव्यै:प्रत्येकंप्रतिद्रव्यमष्ट ८ संख्याकाभि: वास्तोष्पतिंवास्तोष्पतइतिचतसृभि:पूर्वोक्तद्रव्यै:प्रतिद्रव्यंप्रत्यृचं २७ पुन: वास्तोष्पतइतिचतसृभि:वास्तोष्पतेध्रुवास्थूणामित्यनयाचप्रत्यृचंबिल्वफलेनतत्खंडेनवा चरक्याध्यवशिष्टदेवता:पूर्वोक्तचतुर्द्रव्यै:प्रत्येकंप्रतिद्रव्यंचतु:संख्याभि: ॥ ग्रहहोमे सूर्यादिनवग्रहदेवता: अर्कादिसमिच्चर्वाज्यद्रव्यै:प्रतिदैवतंप्रतिद्रव्यं २८ वा ८ ॥अधिदेवता:प्रत्यधिदेवताश्चप्रत्येकंप्रतिद्रव्यं ८।४ भिर्वाविनायकादीनिंद्रादींश्चप्रत्येकंप्रतिद्रव्यं ४।२ संख्याकाभि:पूर्वोक्तद्रव्यत्रयातुतिभि: ॥ प्रधानहोमे लोकपालमूर्तिमूर्तिपतीन् पलाशोदुंबराश्वत्थशम्यपामार्गसमिदाज्यतिलद्रव्यै:प्रत्येकंप्रतिद्रव्यं २८ वा ८ संख्याहुतिभि: स्थाप्यदेवंपूर्वोक्तद्रव्यै:प्रतिद्रव्यं १००८।१०८।२८वासंख्यया ॥अग्निर्यजुर्भिरित्यनुवाकेनविश्वान्देवान् तिलाज्याभ्यांदशदशाहुतिभि: ॥ पिंडिकांतैरेवद्रव्यै;प्रतिद्रव्यंअष्टसंख्याहुतिभि: परिवारदेवता:प्रत्येकंप्रतिद्रव्यं ८ संख्याभि:एवंपंचपर्यायै:पर्यायत्रयेणवायक्ष्येनपुन: स्थाप्यदेवंविष्णुं पुरुषसूक्तेनचतुरावृत्तिभि:प्रत्यृचमाज्येन प्रासादाधिवासनहोमे पिंडिकावाहनपरिवारदेवता: प्रत्येकमष्टाविंशतिसंख्याभिस्तिलाहुतिभि: स्थाप्यदेवंविष्णुं अष्टोत्तरशतसंख्यया चरुद्रव्येण मूलमंत्रेण (प्रासादोत्सर्गेकर्तव्ये प्रासादोत्सर्गांगहोमे वास्तुं वास्तोष्पते इति मंत्रेण अष्टोत्तरशतसंख्याहुतिभिराज्यद्रव्येण स्थाप्यदेवं अष्टोत्तरशतसंख्याभिराज्यद्रव्येण) ब्रह्मादिमंडलदेवता: प्रत्येकंदशदशाहुतिभिर्घृताक्ततिलद्रव्येण शेषेणेत्यादि (स्थाप्यदेवेरुद्रेतुपुन:स्थाप्यदेवंशिवंयातइषुरित्यनुवाकेनद्रापेसहस्त्राणीत्यनुवाकाभ्यांच प्रतिमंत्रंचतुरावृत्तिभिराज्येन प्रासादाधिवासनहोमेइत्यादिपूर्ववदन्वादध्यात्) आज्यभागांतेअग्नेरुत्तरत:संपातकलशंसंस्थाप्यतस्मिन्नाज्यहोमेसंपातान्नयेत् ॥ अथयजमानेनद्रव्यत्यागेकृतेन्वाधानक्रमेणसर्त्विगाचार्योजुहुयात् ॥ वास्तुहोमंकृत्वाराक्षोघ्नसूक्तपावमानसूक्ताभ्यां त्रिसूत्र्याप्रासादंवेष्टयित्वा परितोजलदुग्धयो:पृथगविच्छिन्नेजलधारेदत्त्वापूर्वस्थापितवास्तुप्रतिमांमृत्पेटिकायांनिधायप्रासादाग्नेयकोणे (वायव्यकोणेवा) वास्तुविध्युक्तप्रकारेणगर्तेनिवेशयेत् ॥ ततोग्रहहोमंकृत्वाप्रधानहोमंकुर्यात् प्रतिद्रव्यहोमांतेदेवंपादनाभिशिर:सुस्पृशेत् ॥ तत्रमंत्रा: ॥ ॐ इंद्रायेंदो० स्योनापृथिवि० अघोरेभ्यो० अग्नआयाहि० अग्निंदूतंवृ० नम:शिवायचपशुपतयेच० यमायसोमं० असिहिवी० स्तुहिश्रुतं० असुन्वंतु० आकृष्णेन० योरुद्रोअग्नौ० इमंमेवरुण० शंनोदेवी० नमोभवायचरुद्रायच० आनोनियुभ्दि:० वातआवातु० तमीशानं० आप्यायस्व० वयंसोम० तत्पुरुषायविद्महे० अभित्वादेवस० आदित्प्रत्नस्य० नमउग्रायचभीमायच० २४ इतिलोकपालादिहोम: ॥ तत:पलाशसमिदादिसप्तद्रव्यै:स्थाप्यदेवमंत्रेणउक्तसंख्यहोम: ॥ अग्निर्यजुर्भिरित्यनुवाकेनप्रतिद्रव्यं १० ॥ॐ अग्निर्युजुर्भि: । सवितास्तोमै: । इंद्रउक्थामदै: । मित्रावरुणावाशिषा । अंगिरसोधिष्णियैरग्निभि: । मरुत:सदोहविर्धानाभ्यां । आप:प्रोक्षणीभि: । ओषधयोबर्हिषा । अदितिर्वेध्या । सोमोदीक्षया ॥१॥त्वष्टेध्मेन । विष्णुर्यज्ञेन । वसवआज्येन । आदित्यादक्षिणाभि: । विश्वेदेवाऊर्जा । पूषास्वगाकारेण । बृहस्पति:पुरोधया । प्रजापतिरुद्गीथेन । अंतरिक्षंपवित्रेण । वायु:पात्रै: । अहश्रध्दयास्वाहा ॥२॥पिंडिकां ॐ ह्रीश्चतेलक्ष्मीश्च० ॥ लिंगार्चायांगौरिर्मिमायेतिमंत्रेणतैरेवद्रव्यै: प्रतिद्रव्यं ८ ॥ तत:परिवारस्थाप्यानांमंत्रै:प्रतिद्रव्यं ८ इतिप्रथमपयायंहुत्वादेवपादौस्पृशेत् ॥ एवंद्वितीयंपर्यायंहुत्वानाभिं ॥ तृतीयंमध्यं ॥ चतुर्थंउर: ॥ पंचमंहुत्वाशिर:स्पृष्ट्वा प्रतिपर्यायंसंपातजलेनदेवमभिषिञ्चेत् ॥ तत:स्थाप्येविष्णौपुरुषसूक्तेनप्रत्यृचमाज्यंहुत्वाइदंविष्णुरितिपादौस्पृशेत् पुनस्तथाहुत्वाविष्णोर्नुकमितिनाभिंस्पृशेत् पुनस्तथाहुत्वाअतोदेवाइतिशिर: पुनस्तथाहुत्वापुरुषसूक्तेनसर्वांगंस्पृशेत् ॥ रुद्रेतु ॐ यातैइषु:शि० अनुवाकांतं ॐ द्रापे० सहस्त्राणि० इत्यनुवा काभ्यांचप्रत्यृचमाज्यंहुत्वा सर्वोवैरुद्रइतिमंत्रेणमूलंस्पृशेत् ॥ पुनस्तथाहुत्वाकद्रुद्राये तिमध्यंस्पृशेत् ॥ पुनस्तथाहुत्वानमोहिरण्यबाहवइत्यग्रंस्पृशेत् ॥ पुनस्तथाहुत्वारुद्रेणसर्वांगंस्पृशेत् ॥ अथप्रासादाधिवासनहोम: पिंडिकामंत्रेणपरिवारदेवमंत्रैश्चप्रत्येकं २८ तिल होम: ॥ मूलमंत्रेणचरुं १०८ हुत्वाप्रासादोत्सर्गेचिकीर्षिते वास्तोष्पतइतिमंत्रेण १०८ आज्यंहुत्वा देवमंत्रेण १०८ आज्यं चहुत्वा ब्रह्मादिमंडलदेवता:प्रत्येकं १० तिलैर्हुत्वा मूर्धानमितिपूर्णाहुतिंजुहुयात् ॥ तत:स्विष्टकृदादिहोमशेषंसमाप्यपिंडिकापरिवारदेवांश्चवेध्यांप्रतिमासमीपेवेदीसन्निधौवावस्त्राच्छादितपीठेनिधाय मधुघृतेनाभ्यज्य शुध्दवारिणाप्रक्षाल्य पूर्वस्नानावशिष्टकलशवारिणातत्तन्मंत्रै:स्नापयित्वागन्धादिभिरभ्यर्च्यवस्त्रैराच्छाध्यन्यासान्कुर्यात् ॥ तत्रपिंडिकायांन्यास: ॥ ॐ घंनम:हृदये ॥ ॐ पंनम:शिरसि ॥ ॐ भंनम:शिखायां ॥ ॐ फंनम:कवचायहुं ॥ ॐ लंनम:नेत्रत्रयायवौषट् ॥ ॐ क्षंनम: अस्त्रायफट् ॥ ॐ महीमूषुमातरं० इतिमंत्रेणावाह्य ॐ अदितिर्ध्यौरदितिरं० इतिस्तुत्वा ॐ ह्रींनमइतिमंत्रेणसंपूज्य तेनैवपूर्णाहुतिंहुत्वा ॥ ॐ ह्रींश्रींह्रींक्ष:परब्रह्मणेसर्वाधारायनम: ॐ ह्रींश्रींह्रीं दिव्यतेजोधारिणिसुभगेनमइतिमंत्राभ्यामधिवासयेत् ॥ तथापरिवारत्वेनस्थाप्येतरदेवेषुचतत्तन्मंत्रेणषडंगन्यासादिकृत्वातत्तन्मंत्रेणसर्वा:परिवारदेवता:पूजनपूर्वकंमुख्यदेवतावामपार्श्वेऽधिवासयेत् ॥ अथप्रासादाधिवासनं ॥ प्रासादस्याग्रेएकाशीतिपदंमंडलंअक्षतै:कृत्वातेषुपदेषुसप्तधान्यपुंजान्कृत्वातत्रजलपूर्णान् ८१ कलशानाहृत्यनवनवकानिस्थापयित्वा तेषुमध्यमपूर्वादिक्रमेण आजिघ्रकलशंमह्युरुधारापयस्वत्यात्वाविशंत्विंदव:समुद्रमिवसिंधव: सामासहस्त्रआभजप्रजयापशुभि:सहपुनर्माविशताद्रयि: ॥इतिमंत्रावृत्त्याष्टदिक्षुमध्येचनवकुंभान्न्यसेत् ॥ तत्रमध्यनवकमध्यकुंभेशम्युदुंबराश्वत्थचंपकाशोकपलाशप्लक्षन्यग्रोधकदंबाम्रबिल्वार्जुनपल्लवान् सोमायवनस्पत्यंतर्गतायनमइतिन्यसेत् १ पूर्वनवकमध्यकुंभेपद्मकरोचनदूर्वादर्भश्वेतपीतसर्षपसितरक्तचंदनजातीपुष्पकुंदनंध्यावर्तदशकंक्षिपेत् २ आग्नेयनवकमध्यकुंभेयवव्रीहितिलस्वर्णरजतसमुद्रगानदीजलकूलमृदंतरिक्षगोमयंक्षिपेत् ३ दक्षिणनवकमध्यकुंभेसहदेवीविष्णुक्रांताभृंगराजमहौषधीशमीशतावरीगुडूचीश्यामाकानष्टौक्षिपेत् ४ नैऋत्यनवकमध्यकुंभेकदलनारिकेलबिल्वनारिंगमातुलिंगगदरामलकचूतफलाष्टकं ५ पश्चिमेमंत्रवत्पंचगव्यं ६ वायव्येशमुदुंबराश्वत्थन्यग्रोधफलानांकषायं ७ उत्तरेशंखपुष्पीसहदेवीबलाशतावरीगुडूचीवचाव्याघ्रीमूलाष्टकं ८ ऐशानेसप्तमृद: ९ इतिक्षिप्त्वा तान् श्रीसूक्तेनाभिमंत्र्य शेषान्गंधोदकपूरितान्मध्यादिकलशानांसमंतात्पूर्वादिक्रमेणाष्टावष्टौविन्यस्यसर्वानेकाशीतिकलशान् स्थाप्यदेवमूलमंत्रेणाभिमंत्र्यसूत्रेणावेष्ट्यांतर्बहिरधऊर्ध्वंचप्रासादंपंचगव्येनाभ्युक्ष्यमूर्धानंदिवइतिवल्मीकमृदाविलिप्यवक्ष्यमाणमंत्रै:कुंभोदकै:प्रासादमभिषिंचेत् ॥ ॐ समुद्रज्येष्ठा:० इत्यैशाननवकमध्यस्थेनमृत्कुंभेन १ ॥ ॐ यज्ञायज्ञाव:समनातुतुर्वणिर्धियंधियंवोदेवयाउदधिध्वे ॥ आवोर्वाच:सुवितायरोदस्योर्महेववृत्यामवसेसुवृक्तिभि: ॥ इतिवायव्यनवकमध्यस्थेनकषायकुंभेन २ ॥ ॐ पय:पृथिव्यांपयओषधीषुपयोदिव्यंतरिक्षेपयोधां ॥ पयस्वती:प्रदिश:संतुमह्यं ॥ इतिवारुणपंचगव्यकुंभेन ३ ॥ ॐ या:फलिनीर्या इतिनैऋत्यफलकुंभेन ४ ॥हंस:शुचिषदितिसौम्यमूलकुंभेन ५ ॥ॐ विष्णोरराटमसिविष्णो:पृष्ठमसिविष्णो:श्नप्त्रेस्थोविष्णो:स्यूरसिविष्णोर्ध्रुवमसिविष्णवेत्वाइतिपूर्वकुंभेन ६ ॥ॐ सोमंराजानमवसेग्निंगीर्भिर्हवामहे ॥ आदित्यान्विष्णुंसूर्यब्रह्माणंचबृहस्पतिं ॥ इतिवन्हिकुंभेन ॥ विश्वतश्चक्षुरितियाम्यकुंभेन ८ ॥नमोअस्तुसर्पेभ्योयेकेचइतिमध्यकुंभेन ९ ॥इदमाप:प्रवहतेतिप्रागाध्यष्टकुंभै:सर्वै:सशिखरंप्रासादंपूर्वादिक्रमेणस्त्रापयेत् ॥ एकाशीतिकुंभासंभवेतुएककुंभेनगंधोदकपुरितेन ॐ दैव्यायकर्मंणेशुंधत्वं इतिप्रासादंप्रोक्ष्यक्षालयित्वा देवरुपंप्रासादंसंचिंत्यपताकादिनाशोभयित्वागंधादिनासंपूज्यतस्याधस्ताद्देवंसंचित्यमंत्रेणप्रासादमधिवासयेत् तध्यथा ॐ ह्रीं सर्वदेवमयाचिंत्यसर्वरत्नोज्ज्वलाकृते ॥ यावच्चंद्रश्चसूर्यश्चतावदत्रस्थिरोभव ॥ इतिमंत्रेणप्रासादमधिवासयेत् ॥ ततश्चतस्त्रोगा: देवगायत्र्यादुग्ध्वातत्क्षीरेदेवगायत्र्याचरुंश्रपयित्वादेवायनिवेध्यद्वादशब्राह्मणान्भोजयित्वाअनेनकर्मणाविष्णुर्मेप्रीयतामितिवदेत् ॥ ततआचार्यायधेनुंदत्त्वारात्रौजागरणंकुर्यादितिप्रासादाधिवासनं ॥ अथप्रासादोत्सर्गोऽभीप्सितश्चेत्तदानीमेवप्रासादोत्सर्गंकुर्यात् ॥यथा यजमानोबहिर्निर्गत्य प्रासादाभिमुखोभूत्वा प्रासादंदेवरुपपंध्यात्वादेशकालौसंकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं इमंशिलेष्टकादार्वादिनिर्मितंवलभीजगतीप्राकारगोपुरपरिवारदेवतालयसंयुतंप्रासादं तत्तद्देवतालोककाम:कुलद्वयानुग्रहाय अमुकदेवताप्रीतयेऽहमुत्सृजामि इतिकुशयवयुतंजलंक्षिप्त्वादेवंनत्वाब्राह्मनान् भोजयेत् ॥ उत्तरदिनेदेवप्रतिष्ठोत्तरंप्रासादोत्सर्गंकुर्यादितित्रिविक्रम: । हेमाध्यादयस्तु प्रासादस्यदेवमयत्वेनध्यानमेवोत्सर्ग: नत्वस्यसंकल्पइत्यूचु: ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP