संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथषड्‍ग्रहादियोगशांति:

व्रतोदयान - अथषड्‍ग्रहादियोगशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्तागृहस्येशानभागेआचमनादिदेशकालकीर्तनांतेममश्रीपरमेश्वरप्रीतिद्वाराजन्म
नक्षत्रेजन्मराशौवाजन्मराशेरमुकस्थानेवात्र्यादिग्रहयोगसूचितसकलानिष्टनिरासपूर्वकैहि
कपुत्रलाभसुखवृध्दिचिरायुरैश्वर्यसंपत्तिपारलौकिकशिवपुरव्रजनसिध्दयर्थंब्रह्मयामलोक्तां
ग्रहयोगशांतिंकरिष्ये (षडादिग्रहयोगेतथोह:कार्य:) ॥
तदंगंगणेशपूजनंस्वस्तिवाचनमाचार्यादिवरणंचकरिष्येइतिसंकल्प्य वरणांतेआचार्य:प्रादेशां
तंकृत्वाकुंडात्स्थंडिलाद्वाऐशान्यांचतुरस्त्रंहस्तमात्रंस्थंडिलंतंडुलैर्निर्मायतत्रयोगकर्तृणांग्रहाणांसंख्ययाकलशान्प्राक्संस्थानुदक्संथान्वासंस्थाप्यतत्रनिहितेषुपूर्णपात्रेषुतत्तन्द्रहमंडलानि
लिखेत् ॥
यद्वाएकमेवकुंभंसंस्थाप्यमहतिपूर्णपात्रेग्रहमंडलानिलिखेत् ॥ तेषुसुवर्णेनतदर्धेनवामितेन
यथाशक्तिसुवर्णेनवाकृतास्तन्द्रहप्रतिमास्तदधिप्रत्यधिदेवताप्रतिमाश्चनिधायतासुग्रहादींस्त्तत्तन्मंत्रैरावाह्यग्रहयज्ञोक्तप्रकारेणनैवेध्यांतंपूजयेत् ॥
तत:स्थंडिलेऽग्निंप्रतिष्ठाप्यध्यात्वान्वादध्यात् ॥ चक्षुषीआज्येनेत्यंतेस्थापितग्रहान् तत्त
त्समिच्चर्वाज्यतिलै:प्रत्येकंप्रतिद्रव्यं १००८।१०८।२८ वाआहुतिभि: अधिदेवता:प्रत्यधिदेव
ताश्चतैरेवद्रव्यै:प्रत्येकंप्रतिद्रव्यं १०८।२८।८ वा शेषेणस्विष्टकृतमित्याध्याज्यभागहोमांते
ग्रहोत्तरतोभिषेकार्थंकलशंमहीध्यौरित्यादिविधिनासंस्थाप्य आपोहिष्ठेत्यादितिसृभिर्नहिते
क्षत्रमितितिसृभिर्वाजलेनापूर्यतत्रपंचामृतंपंचगव्यंपंचत्वच:पंचपल्लवान्सर्वौषधीस्तिस्त्रोवात्र्यवराणियज्ञियतरुमूलानिगंधादिचतत्तन्मंत्रै:प्रक्षिप्यतत्रवरुणंसंपूज्यान्वाधानुसारेणहोमंकृत्वास्विष्टकृदादिप्रायश्चित्तहोमांतेपूर्णाहुतिंहुत्वा होमशेषंसमाप्यभद्रासनोपविष्टंयजमानंसर्व
कलशजलैरभिषिंचेत् ॥
तत्रमंत्रा: योगकारकाणांतत्तदधिदेवताप्रत्यधिदेवतानांचवैदिकमंत्रांतेग्रहाणामादिरादित्यो० ९
ॐ जातवेदसे० ॐ त्र्यंबकं० ॐ क्षेत्रस्यपतिना० यतइंद्रेत्यादिद्वयोर्भर्गइंद्रोबृहतीद्वितीया
सतोबृहतीपंक्ति:इंद्रंवोविश्वतस्परीत्यादयोष्टलोकपालमंत्रा: सुरास्त्वामभिषिंचंतु० येनदेवा:
पवित्रेणेत्यादित्रयाणांखिलमंत्राणांवामदेवइंद्रोनुष्टुवंत्यस्यविश्वेदेवास्त्रिष्टुप् आपोहिष्ठेतिन
वर्चस्य० स्वादिष्टयेतिदशर्चस्यमधुच्छंदा:पवमान:सोमोगायत्रीअभिषेकेवि० ॥
समुद्रज्येष्ठाइत्यादिपुण्यसूक्तैश्चाभिषिक्तोयजमानो धृतशुक्लांबर:स्नानवस्त्रमाचार्यायद
त्त्वाज्यावलोकनंदतद्दानंचकृत्वाचार्यादिभ्योदक्षिणांदध्यात् ॥ ततोयथाशक्तिब्राह्मणान्सं
भोज्यभूयसींदत्त्वाशिषोगृहीत्वाकर्मसमापयेत् ॥ इतिग्रहयोगशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP