संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथदेवस्थापनदिनकृत्यं

व्रतोदयान - अथदेवस्थापनदिनकृत्यं

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


N/Aस्थापनदिवसेप्रातराचार्योयागमंडपमागत्यावाहितदेवता:संपूज्याधिवासितांपिंडिकां त्रातारमिं
द्रमितिमंत्रेणगृहीत्वाशांतिघोषेणप्रासादप्रादक्षिण्येनप्रासादमानीय शंतातीयेनविघ्नोध्दरणाय
पुष्पोदकधारयाप्रदक्षिणंप्रासादमभ्युक्ष्य महाँइंद्रोवज्रबाहुरितिमंत्रेणसमुल्लिख्यपुनरस्त्रपूतवा
रिणासर्वत:प्रोक्ष्यपिंडिकास्थापनदेशंनिश्चित्य द्वारदेशेदेवस्यदृष्टिपातंचनिर्णीयतत्रपंचर
त्नोपरिसौवर्णंकूर्मंद्वारसंमुखंनिधायतदुपरिरत्नानिन्यस्य तदुपरिकूर्मशिलाब्रह्मशिलापिंडि
कात्मिकांत्रिवप्रांसिंहासनापरपर्यायांशिलांनिदध्यात् ॥
तत:शिलामध्यदेशंस्पृष्ट्वाप्रार्थयेत् ॥ त्वमेवपरमाशक्तिस्त्वमेवासनधारीका ॥ शिवाज्ञ
यात्वयादेविस्थातव्यमिहसर्वंदा ॥
ॐ तत्त्वाध्वनेनम: ॥ ॐ मंत्राध्वनेनम: ॥ ॐ कालाध्वनेनम: ॥ इतिपुष्पांजलित्रयंदत्त्वा
ध्रुवाध्यौरितिसूक्तेनपिंडिकायाऊर्ध्वभागंस्पृष्ट्वास्वमंत्रंपिंडिकायांन्यस्य ॥
ॐ आत्मतत्त्वाय० ॥ ॐ आत्मतत्त्वाधिपतये० ॥ ॐ क्रियाशक्त्यै० ॥ ॐ शिवतत्त्वाय० ॥ ॐ शिवतत्त्वाधिपतये० ॥ ॐ इच्छाशक्त्यै० ॥ ॐ विध्यातत्त्वाय० ॥ ॐ विध्यात्
त्वाधिपतयेआधारशक्त्यै० ॥
इतिविन्यस्य पिंडिकांप्रार्थयेत् ॥ सर्वदेवमयीशानित्रैलोक्याल्हादकारिणि ॥ त्वांप्रतिष्ठाप
याम्यत्रमंदिरेशिवपूजिते ॥ यावच्चंद्रश्चसूर्यश्चयावदेषावसुंधरा ॥
तावत्त्वंदेवदेवेशिमंदिरेस्मिन्स्थिराभव ॥ पुत्रानायुष्मतोलक्ष्मीमचलामजरामृते ॥ अभयंस
र्वभूतेभ्य:कर्तुंनित्यंचदेहिमे ॥
विजयंभूपते:सर्वलोकानांसुखमेवच ॥ सुभिक्षंक्षेममारोग्यंकुरुदेविनमोनम: ॥ तत:प्रणवंश्व
भ्रेविन्यस्य ॥
तद्बाह्येस्वरान् ॥ तद्बाह्येकादिक्षांतनिव्यंजनानि ॥ तद्बाह्येइंद्रादिनामाभिरष्टरत्नानि
पूर्वादिक्रमेणवज्रमौक्तिकवैडूर्यशंखस्फटिकपुष्परागेंद्रनीलमहानीलाइतिन्यस्यसप्तधान्यरुप्यवृषभमन:शिला:क्षिपेत् ॥
विष्णुश्चेद्रूप्यवृषस्थानेरुप्यगरुड: ॥ तत:पायसेनसंलिप्यशुक्लवस्त्रेणाच्छाध्य ॐ नम:सु
र्दशनायेतिरक्षांकृत्वा गृहावैप्रतिष्ठेतिप्रासादमभिषिच्यदिक्पालेभ्योबलीन्दत्त्वाआचम्यप्रासा
दंपंचगव्येनाभ्युक्ष्यकुशै:संमार्जयेत् ॥
तत:संपातोदकमापादंमूलेनाष्टवारमभिमंत्र्यतेनदेवस्यशिरोभिषिच्यशंखतूर्यनिनादेन ॐ
उत्तिष्ठब्रह्मणस्पतेइतिस्थाप्यदेवमुत्थाप्य प्रासादप्रादक्षिण्येनकनिक्रदितिसूक्तेनविष्णुं
सध्योजातादिपंचानुवाकैर्लिंड्गंगृहंप्रवेश्यपिंदिकासमीपेसंस्थाप्यपाध्यार्घ्यमधुपर्केणाभ्यर्च्य
सुवर्णशलाकामंतरितांकृत्वासुलग्ने पुण्याहमस्तु ॐ प्रतितिष्ठपरमेश्वरइत्युक्त्वा अतोदेवा
इतिविष्णुं रुद्रेणलिंगं एवमन्यान्देवांस्तत्तत्सूक्तेनचस्थापयेत् ॥
यजमानान्वित आचार्योदेवंप्रार्थयेत् ॥ लोकानुग्रहहेत्वर्थंस्थिरोभवसुखायन: ॥ सान्निध्यं
हिसदादेवप्रत्यक्षंपरिकल्पय ॥
प्रधानपुरुषौयावध्यावच्चंद्रदिवाकरौ ॥ तावत्त्वमनयाशक्त्यायुक्तोत्रैवस्थिरोभव ॥
इतिप्रार्थ्यप्राणप्रतिष्ठांकुर्यात् ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP