संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अश्वत्थोपनयनम्

व्रतोदयान - अश्वत्थोपनयनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततोयजमानआचार्योवाऽश्वत्थपश्चिमेस्थंडिलेसंस्कारहोमंकुर्यात् ॥ तध्यथा ॥
अश्वत्थस्यपुंसवनाध्युपनयनांतान्संस्कारान् व्याहृतिद्वाराकरिष्येइतिसंकल्प्य ॥
अग्निंपवमानसंज्ञप्रतिष्ठाप्यान्वादध्यात् ॥ अत्रप्रधानं ॥ अग्निंवायुंसूर्यंप्रजाप्रतिंआज्यद्र
व्येणप्रत्येकंप्रतिसंस्कारं ८ वा ४ संख्याकाहुतिभिर्यक्ष्ये ॥
ॐ भू:स्वाहा अग्नयइ० ॐ भुव:स्वाहा वायवइ० ॐ स्व:स्वाहा सूर्यायेदं० ॐ भूर्भुवस्व:
स्वाहा प्रजापतयइदंनममइति प्रतिसंस्कारहोमांते ॥
ॐ वनस्पतेशतवल्शोविरोहसहस्त्रवल्शाविवयंरुहेम ॥ यंत्वामयंस्वधितिस्तेजमान:प्रणिना
यमहतेसौभगाय ॥ इतिमंत्रेणअश्वत्थंस्पृशेत् ॥
एवमुपनयनपर्यंतंकृत्वायजमानाश्वत्थांतरालेंऽत:पटंधृत्वासुमूर्तेमंगलाष्टकपाठपुर:सरंतदेवलग्नमितिपठितेअंत:पटंनि:सार्य देवानांनुवयमितिध्रुवसूक्तंपठित्वा ॥
देवानांनुवयमितिनवर्चस्यबृहस्पतिर्दाक्षायण्यदितिर्वऽनुष्टुप् जपेविनियोग: ॥
ॐ देवानांनुवयंजानाप्रवोचामविपन्यया ॥ उक्थेषुशस्यमानेषु:पश्यादुत्तरेयुगे ॥
ब्रह्मणस्पतिरेतासंकर्मारइवाधमत् ॥ देवानांपूर्व्येयुगेसत:सदजायत ॥
देवानांयुगेप्रथमेसत:सदजायत ॥ तदाशाअन्वजायंततदुत्तानपदस्परि ॥
भूर्जज्ञउत्तानपदोभुवआशाअजायंत ॥ अदितेर्दक्षोअजायतदक्षाद्वदिति:परि: ॥
अदितिर्ह्यजनिष्टदक्षयादुहितातव ॥ तांदेवाअन्वजायंतभद्राअमृतबंधव: ॥१॥
यद्देवाअद:सलिलेसुसंरब्धाअतिष्ठत ॥ अत्रावोनृत्यतामिवतीव्रोरेणुपायत ॥
यद्देवायतयोयथाभुवनान्यपिन्वत ॥ अत्रासमुद्रआगूल्हमासूर्यमजभर्तन ॥
अष्टौपुत्रासोअदितेर्येजातास्तन्व१स्परि ॥ देवाँउपप्रैत्सप्तभि:परमार्तांडमास्यत् ॥
सप्तभि:पुत्रैरदितिरुपप्रैत्पूर्व्यंयुगं ॥ प्रजायैमृत्यवेत्वपुनर्मार्तांडमाभरत् ॥२॥
इतिध्रुवसूक्तम् ॥ येयज्ञेनेतिवर्गपंचकंशाखांतरस्थमंत्रांश्चपठित्वा युवंवस्त्राणी तिकौपीनं
यज्ञोपवीतंपरममितिमंत्रेणयज्ञोपवीतं इयंदुरुक्तादितिद्वाभ्यांकनकमयींदर्भमयींवामेखलां
स्वस्तिनोमिमीतामितिदंडं कृष्णाजिनंचतत्तन्मंत्रैर्दत्त्वा सप्रणवांसव्याहृतिकांसशिरस्कांगाय
त्रींअश्वत्थंस्पृष्ट्वाउपदेशवत्पठेत् ॥
इत्युपनयनम् ॥ ततोमहानाम्न्यादिसमावर्तनांतंकृत्वाकनककुंडलेअलंकारांश्चदत्त्वा
आयुष्यंवर्चस्यमितिसूक्तंपठित्वा मौंजीविसर्जनांतंकृत्वाममाग्नेइतिसूक्तंपठेत् ॥
तत:स्विष्टकृदादिहोमशेषंसमापयेत् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP