संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथमंडपपूजाचंडेश्वरोक्ता व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथमंडपपूजाचंडेश्वरोक्ता ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथमंडपपूजाचंडेश्वरोक्ता Translation - भाषांतर श्री: ॥ अथाचार्य:सयजमान:सर्त्विक् पूर्णकुंभदध्यक्षतफलपुष्पसुवासिनीभि:सहितोमंगलघोषै:भद्रंकर्णेभि:कनिक्रददित्यादिशाकुनसूक्तंपठन् मंडपंगच्छेत् ॥आचार्योमंडपप्रादक्षिण्येनपश्चिमद्वारिजानुभ्यामवनिंगत्वा ॐस्योनापृथिवीतिभूमिंध्यायन् अर्घ्यंदध्यात् ॥ तत्रादौ ॥उध्दृतासिवराहेणकृष्णेनशतबाहुना ॥ दंष्ट्राग्रैलींलयादेवियज्ञार्थंप्रणमाम्यहं ॥ इतिनमस्कार: ॥ ब्रह्मणानिर्मितेदेविविष्णुनाशंकरेणहि ॥ पार्वत्याचैवगायत्र्यास्कंदवैश्रवणेनच ॥ यमेनपूजितेदेविधर्मेणविजिगीषुणा ॥ सौभाग्यंदेहिपुत्रांश्चधनंरुपंचदेहिमे ॥ गृहानार्घ्यंमयादत्तंसौभाग्यंचप्रयच्छमे ॥ इत्यर्घ्यंदत्त्वासयजमानाऋत्विज:पश्चिमद्वारेणमंडपंप्रादक्षिण्येनप्रविश्यनैऋतिवारुण्योर्मध्येपूर्वोत्तराभिमुखाउपविशेयु: ॥आचार्योवेध्या:पश्चिमतउपविश्यआचम्यप्राणानायम्यदेशकालौस्मृत्वाअमुककर्मणियजमानेनवृतोहंमंडपपूजादिविहितंकर्मकरिष्ये ॥ गणेशंपूजयित्वाशरीरशुध्द्याकर्माधिकारार्थंआसनविधिभूशुध्दिभूतशुध्दिपवनपावनन्यासादिनात्मानंपावयित्वाप्रतिष्ठामंडपांत: यदत्रसंस्थितंभूतं० ॥जितंतेपुंडरीकाक्षनमस्तेविश्वभावन ॥ सुब्रह्मण्यनमस्तेस्तुमहापुरुषपूर्वज ॥ भूतानिराक्षसावापियेऽत्रतिष्ठंतिकेचन ॥ तेसर्वेप्यपगच्छंतुयज्ञमत्रकरोम्यहं ॥ अपसर्पंतुतेभूता० ब्रह्मकर्मसमारभे ॥ इतिलागगौरसर्षपान्सर्वतोविकिरेत् ॥ तत:शुचीवोहव्येतितृचस्यमैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्तुप् यागभूमिप्रोक्षणेवि० तितृचेनकुशै:पंचगव्येनआपोहिष्ठेतितृचेनअभ्ध्य:संभूतइत्युत्तरनारायणेनचाभ्दि:प्रोक्षणंकार्यं ॥ तत:कृतांजलि:स्वस्त्ययनंतार्क्ष्यमितिमंत्रद्वयंपठेत् ॥ देवाआयांतु यातुधानाअपयांतु विष्णोदेवयजनंरक्षस्व भूमौप्रादेशंकुर्यात् ॥ ततोवेदिकाग्नेयकोणेस्थूणायांवसुदामावाह्यपूजयेत् ॥ नैऋत्यकोणेभद्रां ॥ वायव्यकोणेअदितिं ॥ ईशानकोणेनंदांचपूजयेत् ॥ तत:पश्चिमद्वारेणबहिर्निर्गत्यमंडपप्रादक्षिण्येनमंडपद्वाराब्दहिर्हस्तांतेपूर्वेऽश्वत्थतोरणंसुदृढनामकंशंखचिन्हितं अग्निमीळेमधुच्छंदाअग्निर्गायत्री ॥ ॐ अग्निमीळे० ॥ इतिमंत्रेणनिधाय ॥ सुदृढतोरणायनमइतिनाममंत्रेणगंधादिभि:संपूज्यपुष्पमालादिशोभितंकुर्यात् ॥ राहुबृहस्पतीतत्रन्यसेत् ॥ तत्रैक:कलश:स्थाप्य: ॥ यथा ॥ महीध्यौरितिभूमिंस्पृष्ट्वा ओषधय:समितिधान्यराशिंकृत्वा तदुपरिआकलशेष्वितिकलशंसंस्थाप्यइमंमेगंगेइतिजलेनापूर्य गंधद्वारामितिगंधंप्रक्षिप्य याओषधीरितिसर्वौषधी: ओषधय:समितियवान् कांडात्कांडादिदिदूर्वा: अश्वत्थेवइतिपंचपल्लवान् स्योनापृथिवीतिसप्तमृद: या:फलिनीरितिफलं सहिरत्नानीतिपंचरत्नानिहिरण्यरुपइतिहिरण्यंचप्रक्षिप्य युवासुवासाइतिवस्त्रेणरक्तसूत्रेणवाऽऽवेष्टय पूर्णादवींतितदुपरिपूर्णपात्रंन्यसेत् ॥ तस्मिन्कलशेध्रुवावाहनंपूजनंच ॥ ततोदक्षिणेऔदुंबरंसुभद्रनामकंचक्रचिन्हितंतोरणं ॥ ॐ इषेत्वोर्जेत्वावायवस्थोपायवस्थदेवोव:सविताप्रार्पयतुश्रेष्ठतमायकर्मणे ॥ इतिनिधायसुभद्रतोरणायनम: इतिपूर्ववत्संपूज्यवच्चंदनादिचर्चितंकृत्वासूर्यमंगारकंचतत्रन्यसेत् ॥ तत्रैक:कलश:पूर्ववत्स्थायप्य: ॥ तत्रधरामावाहयेत्पूजयेच्च ॥ पश्चिमेप्लाक्षंसुकर्मनामकंगदाचिन्हितंतोरणं ॥ ॐ अग्नाआयाहिवीतयेगृणानोहव्यदातये ॥ निहोतासत्सिबर्हिषि ॥ इतिनिधायसुकर्मतोरणायनमइतिपूर्वत्सरंपूज्यचंदनादिचर्चितंकृत्वाशुक्रंबुधंचतत्रन्यसेत् ॥तत्रपूर्ववत्कलशंस्थाप्यतत्रवाक्पतिमावाह्यपूजयेत् ॥ ततउत्तरे ॥ वटतोरणंसुहोत्रनामकंपद्मचिन्हितं ॥ ॐ शनोदेवी० इतिमंत्रेणनिधायसुहोत्रतोरणायनम: इतिपूर्ववत्संपूज्यचंदनादिचर्चितंकृत्वासोमकेतुशनींस्तत्रन्यसेत् ॥तत्रपूर्ववत्कलशस्थापनंकृत्वातत्रविघ्नेशमावाह्यपूजयेत् ॥तत:पूर्वद्वारेकलशद्वयंप्रतिद्वारशाखंप्रतिष्ठाप्यचंदनोदकफलपंचपल्लवसप्तमृत्तिकासुवर्णपंचरत्नादियुतंदध्यक्षतविभूषितंवस्त्रपुष्पमालादिचंदनचर्चितं रक्तसूत्रवेष्टितानानंपूर्ववन्मंत्रै:स्थापयेत् ॥ प्रतिकलशंमंत्रावृत्ति: ॥ ऐरावतंकलशद्वयेन्यसेत्पूजयेच्च ॥ ऋग्वेदिनावृत्विजौ पूर्वद्वारेशांतिसूक्तजपार्थत्वेनत्वांवृणे ॥ ऋग्वेद:पद्मपत्राक्षोगायत्र:सोमदेवत: ॥ अत्रिगोत्रस्तुविप्रेंद्रऋत्विक्त्वंमेमखेभवेतिप्रत्येकंवृत्त्वा ॥ अग्निमीळेमधुच्छंदाअग्निर्गायत्री ॥ ॐ अग्निमीळे० ॥ इतिमंत्रेणगंधाध्युपचारै:पूजयेत् ॥ तत:सहस्त्राक्षंमत्तैरावतस्थितंपीतकिरीटकुंडलधरंदक्षिणवामकरस्थवज्रोत्पलमिंद्रंध्यात्वा ॥एह्येहिसर्वामरसिध्दसाध्यैरभिष्टुतोवज्रधरामरेश ॥ संवीज्यमानोऽप्सरणांगणेनरक्षाध्वरंनोभगवन्नमस्ते ॥ भोइंद्रइहागच्छेहतिष्ठ ॥इंद्रंसांगंसप० सशक्तिकंद्वारकलशेआ० ॥ आशु:शिशानइतींद्रोऽप्रतिरथइंद्रस्त्रिष्टुप् ॥ ॐ आशु:शिशानोवृष० ॥ इतिपीतांपताकांपीतध्वजंचोच्छ्रयेत् ॥ त्रातारमिंद्रंगर्गइंद्रस्त्रिष्टुप् ॥ इंद्रपूजनेवि० ॥ ॐ त्रातारमिंद्र० ॥ इतिइंद्रंपूजयित्वा ॥ इंद्र:सुरपति:श्रेष्ठोवज्रहस्तोमहाबल: ॥ शतयज्वाचयोदेवस्तस्मैनित्यंनमोनम: ॥ इतिनत्वाइंद्रायसांगायसाधुधायसशक्तिकायअमुंसदीपमाषभक्तबलिंसमर्पयामीतिसमर्पयेत् ॥ हस्तौपादौप्रक्षाल्याचम्य ॥ ततआग्नेयेगत्वापूर्ववत्कलशंस्थापयित्वापुंडरीकंअमृतंचतत्रन्यसेत्पूजयेच्च ॥ छागस्थंरक्तंदक्षिणवामकरद्वयधृतशक्तिकमंडलुंयज्ञोपवीतिनमग्निंध्यात्वा ॥एह्येहिसर्वामरहव्यवाहमुनिप्रवीरैरभितोभिजुष्ट ॥ तेजस्विनालोकगणेनसार्धंममाध्वरंपाहिकवेनमस्ते ॥ भोअग्नेइत्यादिअग्निंसांगमावाह्यरक्तांपताकांरक्तध्वजंच ॥ अग्निंदूतंमेधातिरग्निर्गायत्री ॥ पताकोच्छ्रयणेवि० ॥ ॐ अग्निंदूतंवृणीमहे० इतिउच्छ्रयेत् ॥त्वंनोअग्नेनाभाग:काण्वोग्निर्महापंक्ति: ॥ ॐ त्वंनोअग्नआयुषुत्वंदेवेषुपूर्व्यवस्वएकइरजस्यि ॥ त्वामाप:परिस्त्रुत:परियंतिस्वसेतवोनभंतामन्यकेसमे ॥ इतिमंत्रेणाग्निंगंधादिभि:पूजयित्वा ॥ आग्न्येय:पुरुषोरक्त:सर्वदेवमयोऽव्यय: ॥ धुम्रकेतुरजोऽध्यक्षस्तस्मैनित्यंनमोनम: ॥ इतिनत्वाअग्नयेसांगायेतिबलिंदध्यात् ॥ततआचम्यदक्षिणेगत्वाप्रतिद्वारशाखंचंदनोदकादियुतंपूर्ववत्कलशव्दयंस्थापयित्वावामननामकंदिग्गजंतत्रन्यसेत्पूजयेच्च ॥ ततोयजुर्वेदिनावृत्विजौ शांतिसूक्तजपार्थत्वेनत्वांवृणे ॥ कातराक्षोयजुर्वेदस्त्रैष्टुभोविष्णुदेवत: ॥ काश्यपेयस्तुविप्रेंद्रऋत्विक् त्वंमेमखेभव ॥ इतिप्रत्येकंवृत्त्वा ॥ ॐ इषेत्वोर्जेत्वावा० ॥ इतिमंत्रेणगंधाध्युपचारै:पूजयेत् ॥ ततोमहिषारुढंधृतदंडपाशदक्षिणवामकरद्वयंकृष्णांजनचयोपममग्निसमलोचनंयमंध्यात्वा ॥ एह्येहिवैवस्वतधर्मराजसर्वामरैरर्चितधर्ममूर्ते ॥ शुभाशुभानंदशुचामधीशशिवायन:पाहिमखंनमस्ते ॥ भोयमइत्यादियमंसांगमित्याध्यावाह्य ॥ कृष्णांपताकांकृष्णंध्वजंच ॥ आयंगौ:सार्पराज्ञीसर्पागायत्री ॥ ॐ आयंगौ:पृश्निरक्रमीद० ॥ इतिमंत्रेणोच्छ्रयेत् ॥ तत:यमायसोमंयमोयमोऽनुष्टुप् ॥ ॐ यमायसोमं० ॥ इतियमंगंधादिभि:पूजयित्वा ॥ महामहिषमारुढंदंडहस्तंमहाबलं ॥ आवाहयामियज्ञोस्मिन् पूजेयंप्रतिगृह्यतां ॥ इतिनत्वा ॥ यमायसांगायेत्यादिबलिंदध्यात् ॥ ततआचम्यनैऋत्यांगत्वापूर्ववत्कलशंस्थापयित्वा कुमुदंदुर्जयंचतत्रपूजयित्वा ॥ नरारुढंमहाकायंखड्गहस्तंमहाबलं ॥ राक्षसैर्वेष्टितंनीलंपीताभरणभूषितं ॥ इतिनिऋतिंध्यात्वा ॥एह्येहिरक्षोगणनायक्स्त्वंविशालवेतालपिशाचसंघै: ॥ ममाध्वरंपाहिपिशाचनाथलोकेश्वरस्त्वंभगवन्नमस्ते ॥ भोनिऋतेइत्यादिनानिऋतिंकलशेआवाह्य ॥ मोषुण:कण्वोनिऋतिर्गायत्री ॥ पताकोच्छ्रयणेवि० ॥ ॐ मोषुण:परापरा० ॥ इतिनीलपताकांनीलध्वजंचोच्छ्येत् ॥असुन्वंतइतिमंत्रेणमोषुणइतिवानिऋतिंगंधादिभि:पूजयित्वा ॥ निऋतिंखड्गहस्तंचसर्वलोकैकपावनं ॥ आवाहयामियज्ञेऽस्मिन्पूजेयंप्रतिगृह्यतां ॥ इतिनत्वासांगायेत्यादिबलिंदध्यात् ॥ ततआचम्यपश्चिमेगत्वापूर्ववत्कलशद्वयंस्थापयित्वाअंजनाख्यंदिग्गजंतत्रन्यसेत् ॥सामवेदिनावृत्विजौ पश्चिमद्वारेशांतिसूक्तजपार्थंत्वामहंवृणे ॥ सामवेदस्तुपिंगाक्षोजागत:शक्तिदेवत: ॥ भारद्वाजस्तुविप्रेंद्रऋत्विक् त्वंमेमखेभवेतिकंवृत्त्वाअग्न आयाहीतिगंधाध्युपचारै:पूजयेत् ॥तत:मकरस्थंपाशहस्तंशुक्लवर्णंकिरीटिनंवरुणंध्यात्वा ॥ एह्येहियादोगणवारिधीनांगणेनपर्जन्यमहाप्सरोभि: ॥ विध्याधरेंद्रामरगीयमानपाहित्वमस्मान्भगवन्नमस्ते ॥भोवरुणेत्यादिद्वारकलशेआवाह्य ॥ श्वेतांपताकांश्वेतध्वजंच ॥ इमंमेवरुणेतिशुन: शेपोवरुणोगायत्री ॥ वरु० ॐ इमंमेवरुणश्रुधीहवमध्याचमृळय ॥ त्वामवस्युराचके ॥ इतिउच्छ्रयेत् ॥ तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् ॥ ॐ तत्त्वायामि० इतिवरुणंगंधादिभि:पूजयेत् ॥ पाशहस्तंचवरुणमर्णसांपतिमीश्वरं ॥ आवाहयामियज्ञेस्मिन्वरुणायनमोनम: ॥ इतिनत्वावरुणायेत्यादिमाषभक्तबलिंदत्वा ॥ ततआचम्यवायव्यांगत्वातत्रपूर्ववत्कलशंस्थापयित्वा तत्रपुष्पदंतंसिध्दार्थंचसंपूज्यमृगाधिरुढंधूम्रवर्णंचित्रांबरधरंयुवानंध्वजवरददक्षिणवामकरद्वयंवायुंध्यात्वा ॥ एह्येहियज्ञेममरक्षणायमृगाधिरुढ:सहसिध्दसंघै: ॥ प्राणाधिप:कालकवे:सहायगृहाणपूजांभगवन्नमस्ते ॥ भोवायोइहागच्छेत्यावाह्य ॥ धृम्रांपताकांधूम्रध्वजंच ॥ वायोशतंवामदेवोवायुरनुष्टुप् ॥ ॐ वायोशतंहरीणां० ॥ इतिमंत्रेणोच्छ्येत् ॥ तववायवांगिरसोव्यश्वोवायुर्गायत्री ॥ ॐ ततवायवृतस्पते० इतिवायुंगंधादिभिरभ्यर्च्य ॥ वायुमाकाशगंचैवपवनंवेगवद्गतिं ॥ आवाहयामियज्ञेस्मिन् पूजेयंप्रतिगृह्यतां ॥ अनाकारोमहौजाश्चयश्चादृष्टगतिर्दिवि ॥ तस्मैपूज्यायजगतोवायवेऽहंनमामिच ॥ इतिनत्वासांगायेत्यादिमाषभक्तबलिंदध्यात् ॥ ततआचम्यउत्तरेगत्वापूर्ववत्कलशद्वयंसंस्थाप्यसार्वभौमंदिग्गजंतत्रन्यसेत् ॥ अथर्ववेदिनावृत्विजौ शांतिसूक्तजपार्थत्वेनग्वांवृणे ॥ बृहन्नेत्रोऽथर्ववेदोनुष्टुभोरुद्रदैवत: ॥वैशंपायनविप्रेंद्रऋत्विक् त्वंमेमखेभवेतिप्रत्येकंवृत्वा ॥ शंनोदेवीरितिमंत्रेणगंधाध्युपचारै: पूजयेत् ॥ ततोनरयुतविमानस्थंकुंडलमहाकेयूररुचिरंगदावरदयुतदक्षिणवामभुजद्वयंमुकुटिनंमहोदरंमहाकायंहरितवर्णंकुबेरंध्यात्वा ॥ एह्येहियक्षेश्वरयज्ञरक्षांविधत्स्वनक्षत्रगणेनसार्धं ॥ सर्वौषधीभि:पितृभि:सहैवगृहाणपूजांभगवन्नमस्ते ॥ भोसोमेत्यादिद्वारकलशेआवाह्य ॥ हरितांपताकांहरितध्वजंच ॥आप्यायस्वराहूगणोगोतम:सोमोगायत्री ॥ ॐ आप्यायस्व० इत्युच्छ्रयेत् ॥ सोमोधेनुंरा हूगणोगोतम:सोमस्त्रिष्टुप् ॥ ॐ सोमोधेनुं० ॥ इतिमंत्रेणसोमंगंधादिभि:पूजयेत् ॥ सर्वनक्षत्रमध्येतुसोमोराजाव्यवस्थित: ॥ तस्मैसोमायदेवायनक्षत्रपतयेनम:॥ इतिनत्वासांगायेत्यादिसोमायेमंमाषभक्तबलिंसमर्पयामीतिदध्यात् ॥ततआचम्यईशान्यांगत्वापूर्ववत्कलशंसंस्थाप्य ॥ सुप्रतीकंदिग्गजंमंगल्म्चतत्रसंपूज्य वृषारुढंदक्षिणवामहस्तयोर्वरदत्रिशूलधरंत्रिनेत्रंशुक्लमीशानंध्यात्वा ॥ एह्येहिविश्वेश्वरनस्त्रिशूलकपालखट्वांगधरेणसार्धं ॥ लोकनयज्ञेश्वरयज्ञसिध्द्यैगृहाणपूजांभगवन्नमस्ते ॥ भोईशानेत्यादिईशानंकलशेआवाह्य ॥ श्वेतांपताकांश्वेतध्वजंच ॥ अभित्वादेवसवितरित्याजीगर्ति:शुन:शेष:सवितागायत्री ॥ ॐ अभित्वादेवसवित० इत्युच्छ्रयेत् ॥तमीशानमितिगंधादिभिरभ्यर्च्य ॥ वृषस्कंधसमारुढशूलहस्तत्रिलोचन ॥ आवाहयामियज्ञेऽस्मिन् पूजेयंप्रतिगृह्यतां ॥ सर्वाधिपोमहादेवईशान:शुक्लईश्वर: ॥ शूलपाणिर्विरुपाक्षस्तस्मैनित्यंनमोनम: ॥ इतिध्यात्वा ॥ ईशानायसांगायेत्यादिवलिंगदध्यात् ॥ततआचम्यईशानपूर्वयोर्मध्येअधउद्दिश्य अनंतशयनासीनंफणासहस्त्रमंडितंपद्मशंखधरोर्ध्वाधोदक्षिणकरद्वयं चक्रगदाधरोर्ध्वाधोवामकरद्वयमनंतंध्यात्वा ॥ एह्येहिपातालधरामरेंद्रनागांगनाकिन्नरगीयमान ॥ यक्षोरगेंद्रामरलोकसंघैरनंतरक्षाध्वरमस्मदीयं ॥ भोअनंतइहागच्छेत्यादिअनंतमावाह्यश्वेतांपताकांश्वेतध्वजंच ॥ आयंगौ:सार्पराज्ञीसर्पागायत्री ॥ ॐ आयंगौ:पृश्नि० इत्युच्छ्रयेत् ॥ तेनैवमंत्रेणशेषंगंधादिभिरभ्यर्च्य ॥ योऽसावनंतरुपेणब्रह्मांडंसचराचरं ॥ पुष्पवध्दारयेन्मूर्ध्नितस्मैनित्यंनमोनमइतिनत्वासांगायेत्यादिमाषभक्तबलिंदध्यात् ॥ततआचम्यपश्चिमनिऋतिमध्येऊर्ध्वमुद्दिश्य अक्षसूत्रकुशमुष्टिधरोर्ध्वाधोदक्षिणकरद्वयंसुवर्णकमंडलुधरोर्ध्वाधोवामकरद्वयंचतुर्मुखंश्मश्रुजटिलंलंबोदरंसुवर्णवर्णंब्रह्माणंध्यात्वा ॥एह्येहिसर्वाधिपतेसुरेंद्रलोकेनसार्धंपितृदेवताभि: ॥ सर्वस्यधातास्यमितप्रभावोविशाध्वरंन:सततंशिवाय ॥ भोब्रह्मन् इहागच्छेत्यादिब्रह्माणंसांगमित्याध्यावाह्यरक्तांपताकांरक्तध्वजंच ॥ ब्रह्मजज्ञानंगौतमोवामदेवोब्रह्मात्रिष्टुप् ॥ ॐ ब्रह्मजज्ञानंप्रथमं० अनेनोच्छ्रयेत् ॥ तेनैव ब्रह्माणंगंधादिबिरभ्यर्च्य ॥ पद्मयोनिश्चतुर्मूर्तिर्वेदावास:पितामह: ॥ यज्ञाध्यक्षश्चतुर्वक्रस्तस्मैनित्यंनमोनमइतिनत्वासांगायेत्यादिबलिंदध्यात् ॥अन्येतुस्योनापृथिवीतिपृथ्वींसंपूज्यतेनैवध्वजपताकास्थापनंकुर्वंति ॥ रुपनारायणमतेईशानपूर्वयोर्मध्येब्रह्मपूजनं ॥ततआचम्यमंडपमध्येअत्युच्चदंडंदशहस्तदीर्घंत्रिहस्तायतंविचित्रवर्णंमहाध्वजं ॥ इंद्रस्यवृष्णइत्यस्येंद्रोऽप्रतिरथइंद्रस्त्रिष्टुप् ॥ॐ इंद्रस्यवृष्णो० इतिसंस्थाप्य ॥ ब्रह्मजज्ञानमितिमंत्रेणतत्रैवब्रह्मपूजनंकार्यं ॥ ततोमंडपस्यषोडशस्तंभेषुसर्वेभ्योदेवेभ्योनम: । वंशेषुकिन्नरेभ्योनम: ॥ पृष्ठेपन्नगेभ्योनमइतिपूजयेत् ॥ ततोमंडपाद्वहि:पूर्वस्यांदिशिकिंचिभ्दूमिमुपलीप्यतत्रोपविश्य ॥ त्रैलोक्येयानिभूतानिस्थावराणिचराणिच ॥ ब्रह्माविष्णुशिवै:सार्धंरक्षांकुर्वंतुतानिमे ॥ देवदानवगंधर्वायक्षराक्षसपन्नगा; ॥ ऋषयोमनवोगावोदेवमातरएवच ॥सर्वेममाध्वरेरक्षांप्रकुर्वंतुमुदान्विता: ॥ ब्रह्माविष्णुश्चरुद्रश्चक्षेत्रपालगणै:सह ॥ रक्षंतुमंडपंसर्वेघ्नंतुरक्षांसिसर्वत: ॥ त्रैलोक्यस्थस्थावरेभ्योभूतेभ्योनम: ॥ त्रैलोक्यस्थचरेभ्योभूतेभ्योनम: ॥ ब्रह्मणेनम: ॥विष्णवेनम: ॥ शिवायनम: ॥ देवेभ्योनम: ॥ दानवेभ्योनम: ॥ गंधर्वेभ्योनम: ॥ यक्षेभ्योनम: ॥ रक्षोभ्योनम: ॥ पन्नगेभ्योनम: ॥ ऋषिभ्योनम: ॥ मनुष्येभ्योनम: ॥गोम्योनम: ॥ देवमातृभ्योनम: ॥ इतिप्रत्येकंसंपूज्यपूर्वमंत्रैरेभ्योभूमौमाषभक्तबलिंदध्यात् ॥ इतिमंडपप्रतिष्ठा ॥ N/A References : N/A Last Updated : August 22, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP