संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथमंडपपूजाचंडेश्वरोक्ता

व्रतोदयान - अथमंडपपूजाचंडेश्वरोक्ता

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथाचार्य:सयजमान:सर्त्विक् पूर्णकुंभदध्यक्षतफलपुष्पसुवासिनीभि:सहितोमंगलघो
षै:भद्रंकर्णेभि:कनिक्रददित्यादिशाकुनसूक्तंपठन् मंडपंगच्छेत् ॥
आचार्योमंडपप्रादक्षिण्येनपश्चिमद्वारिजानुभ्यामवनिंगत्वा ॐस्योनापृथिवीतिभूमिंध्याय
न् अर्घ्यंदध्यात् ॥ तत्रादौ ॥
उध्दृतासिवराहेणकृष्णेनशतबाहुना ॥ दंष्ट्राग्रैलींलयादेवियज्ञार्थंप्रणमाम्यहं ॥ इतिनमस्का
र: ॥ ब्रह्मणानिर्मितेदेविविष्णुनाशंकरेणहि ॥ पार्वत्याचैवगायत्र्यास्कंदवैश्रवणेनच ॥
यमेनपूजितेदेविधर्मेणविजिगीषुणा ॥
सौभाग्यंदेहिपुत्रांश्चधनंरुपंचदेहिमे ॥ गृहानार्घ्यंमयादत्तंसौभाग्यंचप्रयच्छमे ॥ इत्यर्घ्यं
दत्त्वासयजमानाऋत्विज:पश्चिमद्वारेणमंडपंप्रादक्षिण्येनप्रविश्यनैऋतिवारुण्योर्मध्येपूर्वोत्तराभिमुखाउपविशेयु: ॥
आचार्योवेध्या:पश्चिमतउपविश्यआचम्यप्राणानायम्यदेशकालौस्मृत्वाअमुककर्मणियजमाने
नवृतोहंमंडपपूजादिविहितंकर्मकरिष्ये ॥
गणेशंपूजयित्वाशरीरशुध्द्याकर्माधिकारार्थंआसनविधिभूशुध्दिभूतशुध्दिपवनपावनन्यासादिनात्मानंपावयित्वाप्रतिष्ठामंडपांत: यदत्रसंस्थितंभूतं० ॥
जितंतेपुंडरीकाक्षनमस्तेविश्वभावन ॥ सुब्रह्मण्यनमस्तेस्तुमहापुरुषपूर्वज ॥ भूतानिराक्ष
सावापियेऽत्रतिष्ठंतिकेचन ॥
तेसर्वेप्यपगच्छंतुयज्ञमत्रकरोम्यहं ॥ अपसर्पंतुतेभूता० ब्रह्मकर्मसमारभे ॥ इतिलागगौर
सर्षपान्सर्वतोविकिरेत् ॥
तत:शुचीवोहव्येतितृचस्यमैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्तुप् यागभूमिप्रोक्षणेवि० तितृचेनकु
शै:पंचगव्येनआपोहिष्ठेतितृचेनअभ्ध्य:संभूतइत्युत्तरनारायणेनचाभ्दि:प्रोक्षणंकार्यं ॥
तत:कृतांजलि:स्वस्त्ययनंतार्क्ष्यमितिमंत्रद्वयंपठेत् ॥
देवाआयांतु यातुधानाअपयांतु विष्णोदेवयजनंरक्षस्व भूमौप्रादेशंकुर्यात् ॥ ततोवेदिकाग्ने
यकोणेस्थूणायांवसुदामावाह्यपूजयेत् ॥
नैऋत्यकोणेभद्रां ॥ वायव्यकोणेअदितिं ॥ ईशानकोणेनंदांचपूजयेत् ॥ तत:पश्चिमद्वारे
णबहिर्निर्गत्यमंडपप्रादक्षिण्येनमंडपद्वाराब्दहिर्हस्तांतेपूर्वेऽश्वत्थतोरणंसुदृढनामकंशंखचिन्हितं अग्निमीळेमधुच्छंदाअग्निर्गायत्री ॥ ॐ अग्निमीळे० ॥ इतिमंत्रेणनिधाय ॥
सुदृढतोरणायनमइतिनाममंत्रेणगंधादिभि:संपूज्यपुष्पमालादिशोभितंकुर्यात् ॥
राहुबृहस्पतीतत्रन्यसेत् ॥ तत्रैक:कलश:स्थाप्य: ॥ यथा ॥ महीध्यौरितिभूमिंस्पृष्ट्वा
ओषधय:समितिधान्यराशिंकृत्वा तदुपरिआकलशेष्वितिकलशंसंस्थाप्यइमंमेगंगेइतिजलेना
पूर्य गंधद्वारामितिगंधंप्रक्षिप्य याओषधीरितिसर्वौषधी: ओषधय:समितियवान् कांडात्कां
डादिदिदूर्वा: अश्वत्थेवइतिपंचपल्लवान् स्योनापृथिवीतिसप्तमृद: या:फलिनीरितिफलं
सहिरत्नानीतिपंचरत्नानिहिरण्यरुपइतिहिरण्यंचप्रक्षिप्य युवासुवासाइतिवस्त्रेणरक्तसूत्रेण
वाऽऽवेष्टय पूर्णादवींतितदुपरिपूर्णपात्रंन्यसेत् ॥ तस्मिन्कलशेध्रुवावाहनंपूजनंच ॥
ततोदक्षिणेऔदुंबरंसुभद्रनामकंचक्रचिन्हितंतोरणं ॥ ॐ इषेत्वोर्जेत्वावायवस्थोपायवस्थदे
वोव:सविताप्रार्पयतुश्रेष्ठतमायकर्मणे ॥
इतिनिधायसुभद्रतोरणायनम: इतिपूर्ववत्संपूज्यवच्चंदनादिचर्चितंकृत्वासूर्यमंगारकंचतत्र
न्यसेत् ॥ तत्रैक:कलश:पूर्ववत्स्थायप्य: ॥ तत्रधरामावाहयेत्पूजयेच्च ॥
पश्चिमेप्लाक्षंसुकर्मनामकंगदाचिन्हितंतोरणं ॥ ॐ अग्नाआयाहिवीतयेगृणानोहव्यदातये ॥ निहोतासत्सिबर्हिषि ॥
इतिनिधायसुकर्मतोरणायनमइतिपूर्वत्सरंपूज्यचंदनादिचर्चितंकृत्वाशुक्रंबुधंचतत्रन्यसेत् ॥
तत्रपूर्ववत्कलशंस्थाप्यतत्रवाक्पतिमावाह्यपूजयेत् ॥
ततउत्तरे ॥ वटतोरणंसुहोत्रनामकंपद्मचिन्हितं ॥ ॐ शनोदेवी० इतिमंत्रेणनिधायसुहोत्र
तोरणायनम: इतिपूर्ववत्संपूज्यचंदनादिचर्चितंकृत्वासोमकेतुशनींस्तत्रन्यसेत् ॥
तत्रपूर्ववत्कलशस्थापनंकृत्वातत्रविघ्नेशमावाह्यपूजयेत् ॥
तत:पूर्वद्वारेकलशद्वयंप्रतिद्वारशाखंप्रतिष्ठाप्यचंदनोदकफलपंचपल्लवसप्तमृत्तिकासुवर्ण
पंचरत्नादियुतंदध्यक्षतविभूषितंवस्त्रपुष्पमालादिचंदनचर्चितं रक्तसूत्रवेष्टितानानंपूर्ववन्मं
त्रै:स्थापयेत् ॥ प्रतिकलशंमंत्रावृत्ति: ॥
ऐरावतंकलशद्वयेन्यसेत्पूजयेच्च ॥ ऋग्वेदिनावृत्विजौ पूर्वद्वारेशांतिसूक्तजपार्थत्वेनत्वां
वृणे ॥ ऋग्वेद:पद्मपत्राक्षोगायत्र:सोमदेवत: ॥
अत्रिगोत्रस्तुविप्रेंद्रऋत्विक्त्वंमेमखेभवेतिप्रत्येकंवृत्त्वा ॥ अग्निमीळेमधुच्छंदाअग्निर्गायत्री ॥ ॐ अग्निमीळे० ॥ इतिमंत्रेणगंधाध्युपचारै:पूजयेत् ॥
तत:सहस्त्राक्षंमत्तैरावतस्थितंपीतकिरीटकुंडलधरंदक्षिणवामकरस्थवज्रोत्पलमिंद्रंध्यात्वा ॥
एह्येहिसर्वामरसिध्दसाध्यैरभिष्टुतोवज्रधरामरेश ॥
संवीज्यमानोऽप्सरणांगणेनरक्षाध्वरंनोभगवन्नमस्ते ॥ भोइंद्रइहागच्छेहतिष्ठ ॥
इंद्रंसांगंसप० सशक्तिकंद्वारकलशेआ० ॥ आशु:शिशानइतींद्रोऽप्रतिरथइंद्रस्त्रिष्टुप् ॥
ॐ आशु:शिशानोवृष० ॥ इतिपीतांपताकांपीतध्वजंचोच्छ्रयेत् ॥ त्रातारमिंद्रंगर्गइंद्रस्त्रिष्टुप् ॥ इंद्रपूजनेवि० ॥ ॐ त्रातारमिंद्र० ॥ इतिइंद्रंपूजयित्वा ॥ इंद्र:सुरपति:श्रेष्ठोवज्रहस्तोम
हाबल: ॥ शतयज्वाचयोदेवस्तस्मैनित्यंनमोनम: ॥
इतिनत्वाइंद्रायसांगायसाधुधायसशक्तिकायअमुंसदीपमाषभक्तबलिंसमर्पयामीतिसमर्पयेत् ॥ हस्तौपादौप्रक्षाल्याचम्य ॥
ततआग्नेयेगत्वापूर्ववत्कलशंस्थापयित्वापुंडरीकंअमृतंचतत्रन्यसेत्पूजयेच्च ॥ छागस्थंरक्तं
दक्षिणवामकरद्वयधृतशक्तिकमंडलुंयज्ञोपवीतिनमग्निंध्यात्वा ॥
एह्येहिसर्वामरहव्यवाहमुनिप्रवीरैरभितोभिजुष्ट ॥ तेजस्विनालोकगणेनसार्धंममाध्वरंपाहि
कवेनमस्ते ॥
भोअग्नेइत्यादिअग्निंसांगमावाह्यरक्तांपताकांरक्तध्वजंच ॥ अग्निंदूतंमेधातिरग्निर्गायत्री ॥ पताकोच्छ्रयणेवि० ॥ ॐ अग्निंदूतंवृणीमहे० इतिउच्छ्रयेत् ॥
त्वंनोअग्नेनाभाग:काण्वोग्निर्महापंक्ति: ॥ ॐ त्वंनोअग्नआयुषुत्वंदेवेषुपूर्व्यवस्वएकइरज
स्यि ॥ त्वामाप:परिस्त्रुत:परियंतिस्वसेतवोनभंतामन्यकेसमे ॥
इतिमंत्रेणाग्निंगंधादिभि:पूजयित्वा ॥ आग्न्येय:पुरुषोरक्त:सर्वदेवमयोऽव्यय: ॥
धुम्रकेतुरजोऽध्यक्षस्तस्मैनित्यंनमोनम: ॥ इतिनत्वाअग्नयेसांगायेतिबलिंदध्यात् ॥
ततआचम्यदक्षिणेगत्वाप्रतिद्वारशाखंचंदनोदकादियुतंपूर्ववत्कलशव्दयंस्थापयित्वावामन
नामकंदिग्गजंतत्रन्यसेत्पूजयेच्च ॥
ततोयजुर्वेदिनावृत्विजौ शांतिसूक्तजपार्थत्वेनत्वांवृणे ॥ कातराक्षोयजुर्वेदस्त्रैष्टुभोविष्णुदेव
त: ॥ काश्यपेयस्तुविप्रेंद्रऋत्विक् त्वंमेमखेभव ॥ इतिप्रत्येकंवृत्त्वा ॥
ॐ इषेत्वोर्जेत्वावा० ॥ इतिमंत्रेणगंधाध्युपचारै:पूजयेत् ॥ ततोमहिषारुढंधृतदंडपाशदक्षिण
वामकरद्वयंकृष्णांजनचयोपममग्निसमलोचनंयमंध्यात्वा ॥
एह्येहिवैवस्वतधर्मराजसर्वामरैरर्चितधर्ममूर्ते ॥ शुभाशुभानंदशुचामधीशशिवायन:पाहिमखं
नमस्ते ॥
भोयमइत्यादियमंसांगमित्याध्यावाह्य ॥ कृष्णांपताकांकृष्णंध्वजंच ॥ आयंगौ:सार्पराज्ञी
सर्पागायत्री ॥
ॐ आयंगौ:पृश्निरक्रमीद० ॥ इतिमंत्रेणोच्छ्रयेत् ॥ तत:यमायसोमंयमोयमोऽनुष्टुप् ॥
ॐ यमायसोमं० ॥ इतियमंगंधादिभि:पूजयित्वा ॥
महामहिषमारुढंदंडहस्तंमहाबलं ॥ आवाहयामियज्ञोस्मिन् पूजेयंप्रतिगृह्यतां ॥ इतिनत्वा ॥ यमायसांगायेत्यादिबलिंदध्यात् ॥
ततआचम्यनैऋत्यांगत्वापूर्ववत्कलशंस्थापयित्वा कुमुदंदुर्जयंचतत्रपूजयित्वा ॥ नरारुढंम
हाकायंखड्गहस्तंमहाबलं ॥ राक्षसैर्वेष्टितंनीलंपीताभरणभूषितं ॥ इतिनिऋतिंध्यात्वा ॥
एह्येहिरक्षोगणनायक्स्त्वंविशालवेतालपिशाचसंघै: ॥ ममाध्वरंपाहिपिशाचनाथलोकेश्वर
स्त्वंभगवन्नमस्ते ॥
भोनिऋतेइत्यादिनानिऋतिंकलशेआवाह्य ॥ मोषुण:कण्वोनिऋतिर्गायत्री ॥ पताकोच्छ्रय
णेवि० ॥ ॐ मोषुण:परापरा० ॥ इतिनीलपताकांनीलध्वजंचोच्छ्‍येत् ॥
असुन्वंतइतिमंत्रेणमोषुणइतिवानिऋतिंगंधादिभि:पूजयित्वा ॥ निऋतिंखड्गहस्तंचसर्वलो
कैकपावनं ॥
आवाहयामियज्ञेऽस्मिन्पूजेयंप्रतिगृह्यतां ॥ इतिनत्वासांगायेत्यादिबलिंदध्यात् ॥
ततआचम्यपश्चिमेगत्वापूर्ववत्कलशद्वयंस्थापयित्वाअंजनाख्यंदिग्गजंतत्रन्यसेत् ॥
सामवेदिनावृत्विजौ पश्चिमद्वारेशांतिसूक्तजपार्थंत्वामहंवृणे ॥ सामवेदस्तुपिंगाक्षोजाग
त:शक्तिदेवत: ॥
भारद्वाजस्तुविप्रेंद्रऋत्विक् त्वंमेमखेभवेतिकंवृत्त्वाअग्न आयाहीतिगंधाध्युपचारै:पूजयेत् ॥
तत:मकरस्थंपाशहस्तंशुक्लवर्णंकिरीटिनंवरुणंध्यात्वा ॥ एह्येहियादोगणवारिधीनांगणेनप
र्जन्यमहाप्सरोभि: ॥ विध्याधरेंद्रामरगीयमानपाहित्वमस्मान्भगवन्नमस्ते ॥
भोवरुणेत्यादिद्वारकलशेआवाह्य ॥ श्वेतांपताकांश्वेतध्वजंच ॥ इमंमेवरुणेतिशुन: शेपोवरुणोगायत्री ॥ वरु० ॐ इमंमेवरुणश्रुधीहवमध्याचमृळय ॥ त्वामवस्युराचके ॥
इतिउच्छ्रयेत् ॥ तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् ॥ ॐ तत्त्वायामि० इतिवरुणंगंधादि
भि:पूजयेत् ॥
पाशहस्तंचवरुणमर्णसांपतिमीश्वरं ॥ आवाहयामियज्ञेस्मिन्वरुणायनमोनम: ॥
इतिनत्वावरुणायेत्यादिमाषभक्तबलिंदत्वा ॥
ततआचम्यवायव्यांगत्वातत्रपूर्ववत्कलशंस्थापयित्वा तत्रपुष्पदंतंसिध्दार्थंचसंपूज्यमृगाधि
रुढंधूम्रवर्णंचित्रांबरधरंयुवानंध्वजवरददक्षिणवामकरद्वयंवायुंध्यात्वा ॥
एह्येहियज्ञेममरक्षणायमृगाधिरुढ:सहसिध्दसंघै: ॥ प्राणाधिप:कालकवे:सहायगृहाणपूजां
भगवन्नमस्ते ॥ भोवायोइहागच्छेत्यावाह्य ॥
धृम्रांपताकांधूम्रध्वजंच ॥ वायोशतंवामदेवोवायुरनुष्टुप् ॥ ॐ वायोशतंहरीणां० ॥ इतिमं
त्रेणोच्छ्‍येत् ॥ तववायवांगिरसोव्यश्वोवायुर्गायत्री ॥
ॐ ततवायवृतस्पते० इतिवायुंगंधादिभिरभ्यर्च्य ॥ वायुमाकाशगंचैवपवनंवेगवद्गतिं ॥
आवाहयामियज्ञेस्मिन् पूजेयंप्रतिगृह्यतां ॥
अनाकारोमहौजाश्चयश्चादृष्टगतिर्दिवि ॥ तस्मैपूज्यायजगतोवायवेऽहंनमामिच ॥
इतिनत्वासांगायेत्यादिमाषभक्तबलिंदध्यात् ॥ ततआचम्यउत्तरेगत्वापूर्ववत्कलशद्वयं
संस्थाप्यसार्वभौमंदिग्गजंतत्रन्यसेत् ॥
अथर्ववेदिनावृत्विजौ शांतिसूक्तजपार्थत्वेनग्वांवृणे ॥ बृहन्नेत्रोऽथर्ववेदोनुष्टुभोरुद्रदैवत: ॥
वैशंपायनविप्रेंद्रऋत्विक् त्वंमेमखेभवेतिप्रत्येकंवृत्वा ॥ शंनोदेवीरितिमंत्रेणगंधाध्युपचारै:
पूजयेत् ॥
ततोनरयुतविमानस्थंकुंडलमहाकेयूररुचिरंगदावरदयुतदक्षिणवामभुजद्वयंमुकुटिनंमहोदरं
महाकायंहरितवर्णंकुबेरंध्यात्वा ॥
एह्येहियक्षेश्वरयज्ञरक्षांविधत्स्वनक्षत्रगणेनसार्धं ॥ सर्वौषधीभि:पितृभि:सहैवगृहाणपूजां
भगवन्नमस्ते ॥ भोसोमेत्यादिद्वारकलशेआवाह्य ॥ हरितांपताकांहरितध्वजंच ॥
आप्यायस्वराहूगणोगोतम:सोमोगायत्री ॥ ॐ आप्यायस्व० इत्युच्छ्रयेत् ॥ सोमोधेनुंरा
हूगणोगोतम:सोमस्त्रिष्टुप् ॥ ॐ सोमोधेनुं० ॥ इतिमंत्रेणसोमंगंधादिभि:पूजयेत् ॥
सर्वनक्षत्रमध्येतुसोमोराजाव्यवस्थित: ॥
तस्मैसोमायदेवायनक्षत्रपतयेनम:॥ इतिनत्वासांगायेत्यादिसोमायेमंमाषभक्तबलिंसमर्पया
मीतिदध्यात् ॥
ततआचम्यईशान्यांगत्वापूर्ववत्कलशंसंस्थाप्य ॥ सुप्रतीकंदिग्गजंमंगल्म्चतत्रसंपूज्य
वृषारुढंदक्षिणवामहस्तयोर्वरदत्रिशूलधरंत्रिनेत्रंशुक्लमीशानंध्यात्वा ॥
एह्येहिविश्वेश्वरनस्त्रिशूलकपालखट्वांगधरेणसार्धं ॥ लोकनयज्ञेश्वरयज्ञसिध्द्यैगृहाण
पूजांभगवन्नमस्ते ॥
भोईशानेत्यादिईशानंकलशेआवाह्य ॥ श्वेतांपताकांश्वेतध्वजंच ॥ अभित्वादेवसवितरित्या
जीगर्ति:शुन:शेष:सवितागायत्री ॥ ॐ अभित्वादेवसवित० इत्युच्छ्रयेत् ॥
तमीशानमितिगंधादिभिरभ्यर्च्य ॥ वृषस्कंधसमारुढशूलहस्तत्रिलोचन ॥ आवाहयामियज्ञे
ऽस्मिन् पूजेयंप्रतिगृह्यतां ॥
सर्वाधिपोमहादेवईशान:शुक्लईश्वर: ॥ शूलपाणिर्विरुपाक्षस्तस्मैनित्यंनमोनम: ॥ इति
ध्यात्वा ॥ ईशानायसांगायेत्यादिवलिंगदध्यात् ॥
ततआचम्यईशानपूर्वयोर्मध्येअधउद्दिश्य अनंतशयनासीनंफणासहस्त्रमंडितंपद्मशंखधरो
र्ध्वाधोदक्षिणकरद्वयं चक्रगदाधरोर्ध्वाधोवामकरद्वयमनंतंध्यात्वा ॥
एह्येहिपातालधरामरेंद्रनागांगनाकिन्नरगीयमान ॥ यक्षोरगेंद्रामरलोकसंघैरनंतरक्षाध्वरम
स्मदीयं ॥ भोअनंतइहागच्छेत्यादिअनंतमावाह्यश्वेतांपताकांश्वेतध्वजंच ॥ आयंगौ:सार्प
राज्ञीसर्पागायत्री ॥ ॐ आयंगौ:पृश्नि० इत्युच्छ्रयेत् ॥
तेनैवमंत्रेणशेषंगंधादिभिरभ्यर्च्य ॥ योऽसावनंतरुपेणब्रह्मांडंसचराचरं ॥ पुष्पवध्दारयेन्मू
र्ध्नितस्मैनित्यंनमोनमइतिनत्वासांगायेत्यादिमाषभक्तबलिंदध्यात् ॥
ततआचम्यपश्चिमनिऋतिमध्येऊर्ध्वमुद्दिश्य अक्षसूत्रकुशमुष्टिधरोर्ध्वाधोदक्षिणकरद्वयं
सुवर्णकमंडलुधरोर्ध्वाधोवामकरद्वयंचतुर्मुखंश्मश्रुजटिलंलंबोदरंसुवर्णवर्णंब्रह्माणंध्यात्वा ॥
एह्येहिसर्वाधिपतेसुरेंद्रलोकेनसार्धंपितृदेवताभि: ॥
सर्वस्यधातास्यमितप्रभावोविशाध्वरंन:सततंशिवाय ॥ भोब्रह्मन् इहागच्छेत्यादिब्रह्माणं
सांगमित्याध्यावाह्यरक्तांपताकांरक्तध्वजंच ॥
ब्रह्मजज्ञानंगौतमोवामदेवोब्रह्मात्रिष्टुप् ॥ ॐ ब्रह्मजज्ञानंप्रथमं० अनेनोच्छ्रयेत् ॥
तेनैव ब्रह्माणंगंधादिबिरभ्यर्च्य ॥ पद्मयोनिश्चतुर्मूर्तिर्वेदावास:पितामह: ॥
यज्ञाध्यक्षश्चतुर्वक्रस्तस्मैनित्यंनमोनमइतिनत्वासांगायेत्यादिबलिंदध्यात् ॥
अन्येतुस्योनापृथिवीतिपृथ्वींसंपूज्यतेनैवध्वजपताकास्थापनंकुर्वंति ॥ रुपनारायणमतेईशा
नपूर्वयोर्मध्येब्रह्मपूजनं ॥
ततआचम्यमंडपमध्येअत्युच्चदंडंदशहस्तदीर्घंत्रिहस्तायतंविचित्रवर्णंमहाध्वजं ॥ इंद्रस्यवृ
ष्णइत्यस्येंद्रोऽप्रतिरथइंद्रस्त्रिष्टुप् ॥
ॐ इंद्रस्यवृष्णो० इतिसंस्थाप्य ॥ ब्रह्मजज्ञानमितिमंत्रेणतत्रैवब्रह्मपूजनंकार्यं ॥
ततोमंडपस्यषोडशस्तंभेषुसर्वेभ्योदेवेभ्योनम: । वंशेषुकिन्नरेभ्योनम: ॥
पृष्ठेपन्नगेभ्योनमइतिपूजयेत् ॥ ततोमंडपाद्वहि:पूर्वस्यांदिशिकिंचिभ्दूमिमुपलीप्यतत्रो
पविश्य ॥
त्रैलोक्येयानिभूतानिस्थावराणिचराणिच ॥ ब्रह्माविष्णुशिवै:सार्धंरक्षांकुर्वंतुतानिमे ॥
देवदानवगंधर्वायक्षराक्षसपन्नगा; ॥ ऋषयोमनवोगावोदेवमातरएवच ॥
सर्वेममाध्वरेरक्षांप्रकुर्वंतुमुदान्विता: ॥ ब्रह्माविष्णुश्चरुद्रश्चक्षेत्रपालगणै:सह ॥ रक्षंतुमंडपं
सर्वेघ्नंतुरक्षांसिसर्वत: ॥
त्रैलोक्यस्थस्थावरेभ्योभूतेभ्योनम: ॥ त्रैलोक्यस्थचरेभ्योभूतेभ्योनम: ॥ ब्रह्मणेनम: ॥
विष्णवेनम: ॥ शिवायनम: ॥ देवेभ्योनम: ॥ दानवेभ्योनम: ॥ गंधर्वेभ्योनम: ॥ यक्षेभ्योनम: ॥ रक्षोभ्योनम: ॥ पन्नगेभ्योनम: ॥ ऋषिभ्योनम: ॥ मनुष्येभ्योनम: ॥
गोम्योनम: ॥ देवमातृभ्योनम: ॥ इतिप्रत्येकंसंपूज्यपूर्वमंत्रैरेभ्योभूमौमाषभक्तबलिंदध्या
त् ॥ इतिमंडपप्रतिष्ठा ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP