संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २२४

आचारकाण्डः - अध्यायः २२४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ।
चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः ।
अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥१॥

उतिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः ।
ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥२॥

भूर्भुवः स्वर्महर्लोकं चराचरं जनस्तथा ।
विष्णुश्च रुद्रो भूत्वासौ पातालानि दहत्यधः ॥३॥

विष्णुर्दहेत्त्रिलोकञ्चि मुखान्मेघान् सृजत्यलम् ।
वर्षन्ते वै वर्षशतं नानावर्णा महाघनाः ॥४॥

विष्णुरूपःशतं वाति वर्षाणां वायुरूर्जितः ।
विष्णुरे कार्णवी भूते वर्षे ब्रह्मस्वरूपधृक् ।
शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ॥५॥

सुप्त्वा वर्षसहस्रं स जगद्भूयोऽसृजद्धरिः ।
अथ प्राकृतिकं वक्ष्ये प्रलयं शृणु शौनक ॥६॥

पूर्णे संवत्सरशते संहृत्य सकलं जगत् ।
ब्रह्माणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः ॥७॥

ये गता ब्रह्मणः स्थानं तेऽपि यान्ति परं पदम् ।
अनावृष्ट्यर्कसम्पन्ना आसन्मेघास्तथा द्विज ।
शतं वर्षाणि वर्षद्भिर्मेधैरण्डं प्रपूर्यते ॥८॥

अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पतेः ।
पूर्णे ब्रह्मायुषि गते भिद्यतेऽम्भसि लीयते ॥९॥

एवं सा जगदाधारा तोये चोर्वो प्रलीयते ।
आपस्तेजसि लीयन्ते तेजो वायौ प्रलीयते ॥१०॥

वायुः खे खञ्च भूतादौ विशते च तदा महान् ।
महान्प्रपद्यतेऽव्यक्तं प्रकृतिः पुरुषे परे ॥११॥

शतवर्षं हरिः शेते सृजत्यथ दिनगमे ।
अव्यक्तादिक्रमेणैव व्यक्तीभूतं चराचरम् ॥१२॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नैमित्तिकप्रलयोनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP