आचारकाण्डः - अध्यायः ९०
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥ मार्कण्डेय उवाच ॥
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा ॥
प्रम्लौचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥१॥
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥
प्रसादयामास भूयः प्रम्लोचा च वराप्सराः ॥२॥
अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना ॥
जाता वरुणपुत्रेण पुष्करेण महात्मना ॥३॥
तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् ॥
मनुर्महामतिस्तस्यां समुत्पत्स्यति ते सुतः ॥४॥
मार्कंडेय उवाच ॥
तथेति तेन साप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ॥
उद्दधार ततः कन्यां मानिनीं नाम नामतः ॥५॥
नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः ॥
जग्राह पाणिं विधिवत्समानीय महामुनिः ॥६॥
तस्यां तस्य सुतो जज्ञे महावीर्य्यो महाद्युतिः ॥
रुचे रौच्य इति ख्यातो यो मया पूर्वमीरितः ॥७॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रम्लोचागमनं नाम नवतितमोऽध्यायः ॥९०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP