आचारकाण्डः - अध्यायः ३६
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥हरिरुवाच ॥
सन्ध्याविधिं प्रवक्ष्यामि श्रृणु रुद्राघनाशनम् ॥
प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत् ॥१ ॥
सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह ॥
त्रिः पठेदायतप्रणः प्राणायामः स उच्यते ॥२ ॥
मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः ॥
तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत् ॥३ ॥
सायमग्निश्च मेत्युक्ता प्रातः सूर्य्येत्यपः पिबेत् ॥
आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि ॥४ ॥
आपोहिष्ठेत्यृचा कुर्य्यान्मार्जनं तु कुशोदकैः ॥
प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे ॥५ ॥
रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् ॥
वाङ्मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत् ॥६ ॥
समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् ॥
त्रिपडष्टौ द्वादशधा वर्त्तयेदघमर्पणम् ॥७ ॥
उदुत्यंचित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् ॥
दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात् ॥८ ॥
पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च ॥
महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम् ॥९ ॥
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ॥
त्रियुगं तु सहस्त्रेण गायत्त्रीं हन्ति दुष्कृतम् ॥१० ॥
रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका ॥
कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम् ॥११ ॥
ॐ भूर्विन्यस्य हृदये ॐ भुवः शिरसि न्यसेत् ॥
ॐ स्वरिति शिखायां च गायत्र्याः प्रथमं पदम् ॥१२ ॥
विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् ॥
तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत् ॥१३ ॥
संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् ॥
शिवस्तस्यास्तु सर्वाह्णे प्राणायामपरं न्यसेत् ॥१४ ॥
त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी ॥
विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत् ॥१५ ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् ॥
परोरजसि सारं तं तुरीयपदमीरितम् ॥१६ ॥
तं हन्ति सूर्य्यः सन्ध्यायां नोपास्तिं कुरुते तु यः ॥
तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च ॥१७ ॥
छन्दस्तु देवी गायत्त्री परमात्मा च देवता ॥१८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्त्रिंशोऽध्यायः ॥३६ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP