संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १३

आचारकाण्डः - अध्यायः १३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पंजरं शुभम् ॥
नमो नमस्ते गोविदं चक्रं गृह्य सुदर्शनम् ॥१॥

प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्त ते ॥२॥

याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम ॥३॥

प्रतीच्यां रक्ष मां विष्णो ! त्वामहं शरणं गतः ॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ॥४॥

उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः ॥
खड्गमादाय चर्म्माथ अस्त्रशास्त्रादिकं हरे ! ॥५॥

नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः ॥
पांचजन्यं महाशंखमनुघोष्यं च पंकजम् ॥६॥

प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष शूकर ॥
चन्द्रसूर्य्यं समागृह्य खड्गं चान्द्रमसं तथा ॥७॥

नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्त्ते नृकेशरिन् ॥
वैजयन्तीं स्मप्रगृह्य श्रीवत्सं कण्ठभूषणम् ॥८॥

वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते ॥
वैनतेयं समारुह्य त्वंतरिक्षे जनार्दन ! ॥९॥

मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित ॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ॥१०॥

अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ॥
करशीर्षाद्यंगुलेषु सत्य त्वं बाहुपंजरम् ॥११॥

कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ॥
एतदुक्तं शंकराय वैष्णवं पंजरं महत् ॥१२॥

पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ॥
नाशायामास सा येन चामरान्महिषासुरम् ॥१३॥

दानवं रक्तबीजं च अन्याँश्च सुरकण्टकान् ॥
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥१४॥

इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपंजरस्तोत्रं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP