आचारकाण्डः - अध्यायः १७६
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
श्रीभगवानुवाच ।
सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः ।
दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात् ॥१॥
भृङ्गराजरसेनैव चतुर्भागेन साधितम् ।
केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च ॥२॥
एलामांसीकुष्ठमुरायुक्तमभ्यङ्गतः शिवम् ।
गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुत् ॥३॥
आम्रास्थिचूर्णलेपाद्वै केशाः सूक्ष्मा भवन्ति च ।
करञ्जामलकैलाललाक्षालेपोऽरुणापहः ॥४॥
आम्रास्थिमज्जामलकलेपात्केशा भवन्ति वै ।
बद्धमूला घना दीर्घाः स्नग्धाः स्युर्नोत्पतन्ति च ॥५॥
विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् ।
सचतुर्गुणगोमूत्रं मनसः शिलमेव वा ॥६॥
शिरोऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत् ।
नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम् ॥७॥
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज ।
भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम् ॥८॥
नीली च करवीरं च गुडमेतैः समं शृतम् ।
पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम् ॥९॥
आम्रास्थिमज्जा त्रिफला नी (ता) ली च भृङ्ग राजकम् ।
जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥१०॥
चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम् ।
अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत् ॥११॥
सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा ।
शतपुष्पा देवदारु एभिस्तैलं तु साधितम् ॥१२॥
गोपुरीपरसेनैव चतुर्भागेन संयुतम् ।
तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत् ॥१३॥
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव ।
कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च ॥१४॥
मालतीपुप्पदलयो रसेन भरणात्तथा ।
गोजलेनैव पूरेण पूयस्त्रावो विनश्यति ॥१५॥
कष्ठमाषमरीचानि तगरं मधु पिप्पली ।
अपामार्गोऽश्वगन्धा च बृहती सितसर्षपाः ॥१६॥
यवास्तिलाः सैन्धवं च पादिकोद्वर्तनं शुभम् ।
लिङ्गबाहुस्तनानां च कर्णयोर्वृद्धिकृद्भवेत् ।
कटुतैलं भल्लातकं बृहती फलदाडिमम् ॥१७॥
वल्कलैः साधितैर्लिप्तं लिङ्गं तेन विवर्धते ॥१८॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे केशोत्पत्त्यादिवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP