आचारकाण्डः - अध्यायः ११०
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
सूत उवाच ।
योध्रुवाणि परित्यज्य ह्यधुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च ॥१॥
वाग्यन्त्रहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते ।
न तुष्टिमुत्पादयते शरीरे ह्यन्धस्य दारा इव दर्शनीयाः ॥२॥
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ।
विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ॥३॥
अग्निहोत्रफला वेदाः शीलवृत्तिफलं शुभम् ।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥४॥
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् ।
सुरूपां सुनितम्बाञ्च नाकुलीनां कदाचन ॥५॥
अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः ।
को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥६॥
हविर्दुष्टकुलद्वाह्यं बालादपि सुभाषितम् ।
अमेध्यात्काञ्चनं ग्राह्यं स्त्रीरत्नं दुष्कुलादपि ॥७॥
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥८॥
न राज्ञा सह मित्रत्वं न सर्पो निर्विषः क्रचित् ।
न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥९॥
कुले नियोजयेद्भक्तं पुत्रं विद्यासु योजयेत् ।
व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोज्येत् ॥१०॥
स्थानेष्वेव प्रयोक्ताव्या भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे शोभते वै कदाचन ॥११॥
चूडामणिः समुद्रोऽग्निर्घण्टा चाखण्डमम्बरम् ।
अथवा पृथिवीपालो मूर्ध्नि पादे प्रमादतः ॥१२॥
कुसुमस्तबकस्येव द्वे गती तु मनस्विनः ।
मूर्ध्नि वा सर्वलोकानां शीर्षतः पतितो वने ॥१३॥
कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।
न च विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥१४॥
वाजिवारणलौहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥१५॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते सर्वगुणप्रमाथः ।
अधः खलेनापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ॥१६॥
न सदश्वः कशाघातं सिंहो न गजगर्जितम् ।
वीरो वा परनिर्दिष्टं न सहेद्भीमनिः स्वनम् ॥१७॥
यदि विभवविहीनः प्रच्युतो वाशु दैवान्न तु खलजनसेवां काङ्क्षयेन्नैव नीचाम् ।
न तृणमदनकार्ये सुक्षुधार्तोऽत्ति सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्चराणाम् ॥१८॥
सकृद्दुष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युमेव गृह्णीयाद्गर्भमश्वतरी यथा ॥१९॥
शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः ।
तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥२०॥
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥२१॥
अपकारपरान्नित्यं चिन्त येन्न कदाचन ।
स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥२२॥
अनर्था ह्यर्थरूषाश्च अर्थाश्चानर्थरूपिणः ।
भवन्ति ते विनाशाय दैवायत्तस्य वै सदा ॥२३॥
कार्यकालोचितापापा मतिः सञ्जायते हि वै ।
सानुकूले तु दैवे शं पुंसः सर्वत्र जायते ॥२४॥
धनप्रयोगकार्येषुः तथा विद्या गमेषु च ।
आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत् ॥२५॥
धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्रत्र संस्थितिम् ॥२६॥
लोकयात्रा भयं लज्जा दाक्षिण्यं दानशीलता ।
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥२७॥
कालविच्छोत्रियो राजा नदी साधुश्च पञ्चमः ।
एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥२८॥
नैकत्र परिनिष्ठास्ति ज्ञानस्य किल शौनक ।
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कुत्रचित् ॥२९॥
न सर्ववित्कश्चिदिहास्ति लोके नात्यन्तमूर्खो भुवि चापि कश्चित् ।
ज्ञानेन नीचोत्तममध्यमेन योऽयं विजानाति स तेन विद्वान् ॥३०॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे दशोत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP