आचारकाण्डः - अध्यायः ६६
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥ हरिरुवाच ॥
निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात् ॥
आदौ सुदर्शनो मूर्तिर्लक्ष्मीनारायणः परः ॥१॥
त्रिचक्रोऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः ॥
वासुदेवश्च प्रद्युम्नस्ततः सङ्कर्षणः स्मृतः ॥२॥
पुरुषोत्तमश्चाष्टमः स्यान्नव्यूहो दशात्मकः ॥
एकादशोऽनिरुद्धः स्याद्द्वादशो द्वादशात्मकः ॥३॥
अत ऊर्ध्वमनन्तः स्याच्छक्रे रेकादिकैः क्रमात् ॥
सुदर्शना लक्षिताश्च पूजिताः सर्वकामदाः ॥४॥
शालग्रामशिला यत्र देवो द्वारवतीभवः ॥
उभयोः सङ्गमो यत्र तत्र मुक्तिर्न संशयः ॥५॥
शालग्रामो द्वारका च नैमिषं पुष्करं गया ॥
वाराणसी प्रयागश्च कुरुक्षेत्रं च सूकरम् ॥६॥
गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती ॥
पुरुषोत्तमो महाकालस्तीर्थान्येतानि शङ्कर ॥७॥
सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै ॥
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः ॥८॥
अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च ॥
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो विषुः ॥९॥
चित्रभानुः स्वभानुश्च तारणः पार्थिवो व्ययः ॥
सर्वजित्सर्वधारी च विरोधी विकृतिः स्वरः ॥१०॥
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥
हेमलम्बो विलंबश्च विकारः शर्वरी प्लवः ॥११॥
शुभकृच्छोभनः क्रोधी विश्वावमुपराभवौ ॥
प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत् ॥१२॥
परिधावी प्रमादी च आनन्दो राक्षसो नलः ॥
पिङ्गलः कालसिद्धार्थौ रौद्रिर्वै दुर्मतिस्तथा ॥१३॥
दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनोऽक्षयः ॥
अशोभनाः शोभनाश्च नाम्नैवैते हि वत्सराः ॥१४॥
कालं वक्ष्यामि संसिद्ध्यै रुद्र पञ्चस्वरोदयात् ॥
राजा सा(मा) जा उदासा च पीडा मृत्युस्तथैव च ॥१५॥
आ ई ऊ ऐ औ स्वरांश्च लिखेत्पञ्चाग्निकोष्ठके ॥
ऊर्ध्वतिर्य्यग्गतै ररवैः षड्वह्निक्रममागतैः ॥१६॥
तिथी एका ग्निकोष्ठेषु त्रयो राजाथ सा (मा) जयाः ॥
उदासामृत्युपीडाश्च कुजः सोमसुतः क्रमात् ॥१७॥
गुरुशुक्रौ च मन्दश्च रविचन्द्रौ यथोदितम् ॥
रेवत्यादिमृगान्ताश्च ऋक्षाणि प्रथमा कला ॥१८॥
पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा ॥
द्वादशाहैर्द्वयोर्मासनाम्नोराद्यक्षरं तथा ॥१९॥
कलालिङ्गा च या तिष्ठेत्पञ्चमस्तस्य वै मृतिः ॥
कला तिथिस्तथा वारो नक्षत्रं मासमेव च ॥२०॥
नामोदयस्य पूर्वं च तथा भवति नान्यथा ॥
ओं क्षौं (क्षौः) शिवाय नमः ॥२१॥
क्षामाद्यङ्गशिवामीक्षा विषग्रहमतिर्हर ॥
त्रैलोक्यमोहनं बीजं नृसिंहस्य तु पद्म(न्न)गम् ॥२२॥
मृत्युञ्जयो गणो लक्ष्मी रोचनाद्यैस्तु लेखितः ॥
भूर्जे तु धारिताः कण्ठे बाहौ चेति जयादिदाः ॥२३॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे शालग्रामषष्ट्यूब्दस्वरोदयानां निरूपणं नाम षट्षष्टितमोऽध्यायः इति ॥६६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP