आचारकाण्डः - अध्यायः १२६
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
ब्रह्मोवाच ।
येनार्चनेन वै लोको जगाम परमां गतिम् ।
तमर्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ॥१॥
सामान्यमण्डलं न्यस्य धातारं द्वारदेशतः ।
विधातारं तथा गङ्गां यमुनां च महानदीम् ॥२॥
द्वारश्रियं च दण्डं च प्रचण्डं वास्तुपूरुषम् ।
मध्ये चाधारशक्तिं च कूर्मं चानन्तमर्चयेत् ॥३॥
भूमिं धर्मं तथा ज्ञानं वैरग्यैश्वर्यमेव च ।
अधर्मादींश्च चतुरः कन्दं नालं च पङ्कजम् ॥४॥
कर्णिकां केसरं सत्त्वं राजसं तामसं गुणम् ।
सुर्यादिमण्डलान्येव विमलाद्याश्च शक्तयः ॥५॥
दुर्गां गणं सरस्वतीं क्षेत्रपालं च कोणके ।
आसनं मूर्तिमभ्यर्च्य वासुदेवं बलं स्मरन् ॥६॥
अनिरुद्धं महात्मानं नारायणमथार्चयेत् ।
हृदयादीनि चाङ्गानि शङ्खादीन्यायुधानि च ॥७॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम षष्ठविंशत्युत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP