संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २३६

आचारकाण्डः - अध्यायः २३६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीभगवानुवाच ।
आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता ॥१॥

अद्वैतयोगसम्पन्नास्ते मुच्यन्तेऽतिबन्धनात् ।
अतीतारब्धमागामि कर्म नश्यति बोधतः ॥२॥

सद्विचारकुठारेण च्छिन्नसंसारपादपः ।
ज्ञानवैराग्यतीर्थेन लभते वैष्णवं पदम् ॥३॥

जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते ।
अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे ॥४॥

नामरूपक्रियाहीनं सर्वं तत्परमं पदम् ।
जगत्कृत्वेश्वरोऽनन्तं स्वयमत्र प्रविष्टवान् ॥५॥

वेदाहमेतं पुरुषं चिद्रूपं तमसः परम् ।
सोऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये ॥६॥

श्रवणं मननं ध्यानं ज्ञानानां चैव साधनम् ।
यज्ञदानतपस्तीर्थवेदैर्मुक्तिर्न लभ्यते ॥७॥

त्यागेन केनचिद्ध्यानपूजाकर्मादिभिर्यथा ।
द्विविधं वेदवचनं कुरु कर्म त्यजेति च ॥८॥

यज्ञादयो विमुक्तानां निष्कामानां विमुक्तये ।
अन्तः करणशुद्ध्यर्थमूचुरेवात्र केचन ॥९॥

एकेन जन्मना ज्ञानन्मुक्तिर्न द्वैतभाविनाम् ।
योगभ्रष्टाः कुयोगाश्च विप्रा योगिकुलोद्भवाः ॥१०॥

कर्मणा बध्यते जन्तुर्ज्ञानान्मुक्तो भवाद्भवेत् ।
आत्मज्ञानन्त्वाश्रयेद्वै अज्ञानं यदतोऽन्यथा ॥११॥

यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः ।
तदामृतत्वमाप्नोति जीवन्नेव न संशयः ॥१२॥

व्यापकत्वात्कथं याति को याति क्व स याति च ।
अनन्तत्वान्नदेशोऽस्ति अमूर्तित्वाद्गतिः कुतः ॥१३॥

अद्वयत्वान्न कोऽप्यस्ति बोधत्वाज्जडता कुतः ।
एकोद्दिष्टं यदन्यस्य मतिवाग्गतिसंस्थिति (म्) ॥१४॥

कथमाकाशकल्पस्य गतिरागतिसंस्थिति ।
जाग्रत्स्वप्नसुषुप्तं च मायया परिकल्पितम् ॥१५॥

वस्तु तैजसकं प्राज्ञे यत्तु पुण्यमखण्डकम् ।
यथा ते प्रियात्मा नः सर्वेषां च तथा प्रियः ॥१६॥

बोधमार्गे यथा चित्तं सर्वेषां च तथा मते ।
सर्वदा सर्वभूतानां सर्वस्य च महामुने ॥१७॥

नाहमत्रात्मविज्ञानं तस्मात्पूर्णं निरन्तरम् ।
जाग्रत्स्वप्नं तथा वृत्तं सौषुप्तसुखमेव च ॥१८॥

स्मरणं विस्मृतार्थस्य नास्ति चेत्कस्य जायते ।
सत्यमस्तु तथा वाणु अशरीरं परं तथा ॥१९॥

नास्ति चेत्सुखदुः खानां सर्वेषां वेदनं कथम् ।
सदा सर्वत्र सर्वज्ञः सर्वस्य हृदये न येत् ॥२०॥

साक्षिभूतः समाश्रित्य को जानाति विचेष्टितम् ।
सत्य ज्ञानानन्त भिन्नं स्यान्नसत्यं ज्ञानतः पृथक् ॥२१॥

नानन्त्यात्पृथगानन्दं नाप्यमानन्दतः पृथक् ।
त्वमेव परमं ब्रह्म सत्यज्ञानादिलक्षणम् ॥२२॥

अहं ब्रह्म परं तत्त्वं ज्ञात्वा त्वखिलविद्भवेत् ।
यथैकमृन्मये ज्ञाते सर्वमेतच्चराचरम् ॥२३॥

यथैकहेममणिना सर्वं हेममयं भवेत् ।
ज्ञानं तथैवमीशेन ज्ञानिनाप्यखिलं जगत् ॥२४॥

यथान्धकारदोषेण रज्जुः सम्यङ्नदृश्यते ।
यथा संमोहदोषेण चात्मा सम्यङ्नदृश्यते ॥२५॥

सर्पधारादिभिर्भेदरैन्यथा वस्तुकल्पनम् ।
व्योमादिना सरूपाद्यैरन्यथात्मा प्रकल्प्यते ॥२६॥

प्रत्यक्षमपि यद्द्रव्यन्दुर्दर्शमिति भाषते ।
व्योमादिना सरूपाद्यैरन्यथा कल्पितैस्तथा ॥२७॥

तथा हि रज्जुरुरगः शुक्तिः कारजतं यथा ।
मृगतृष्णापथायाम्भस्तृप्तिं विष्णो तथा जगत् ॥२८॥

हाहिष्णोद्विजा कथि द्भोहमितिदृ ।
ग्रहनाशात्पुनर्ध्यायन्ब्राह्मण्यं मन्यते यथा ॥२९॥

मायाविष्टस्तथा जीवो देहोहमिति मन्यते ।
मायानाशात्पुनः स्वीयरूपं ब्रह्मास्मि मन्यते ॥३०॥

ग्रहनाशाद्यथा मान्यजनोक्रूरमवेक्षते ।
स्वरूपदर्शनाच्चायं माया नाशन्तया विना ॥३१॥

अनादित्वं समं द्वाभ्यां स्वरूपं तद्विलक्षणम् ।
एकः सत्यं तथा भागी विचारेण परं मृषा ॥३२॥

अजोपि हि सकृत्प्रेत्य संभवाम्यात्ममायया ।
मायेच्छया द्विधा स स्यात्पतिः पत्नी सुखं जगत् ॥३३॥

अष्टाविंशतिभेदैस्तु त्रैगुण्यं विद्यते पृथक् ।
चतुरशीतिर्लक्ष्यन्ते नरनार्याकृतीनि च ॥३४॥

एषुविश्वं प्रभवति खण्डजं मायया यथा ।
आदावन्ते च सन्त्येते नामरूपक्रियादयः ॥३५॥

सत्तावकल्पनं काले न सन्ति परमार्थतः ।
यथा रथादयः स्वप्ने सन्तो नैव च सत्यतः ॥३६॥

तथा जाग्रदवस्थायां भूतानि न तु सन्निधौ ।
द्वैरूप्यं मायया याति जाग्रत्स्वप्नपदज्ञ (क्ष) योः ॥३७॥

एवमेतत्परं ब्रह्म स्वप्नजाग्रत्पदद्वये ।
सुषुप्तमचलं रूपमद्वयं पदमुच्यते ॥३८॥

मायाविचारसिद्धैव विचारेण विलीयते ।
आपातरहिता सापि कल्पना कालवर्तिनी ॥३९॥

एवं तस्या (दात्या) त्मनादित्यं सिद्धमेकस्य सत्यजा ।
सतोस्तित्वं वसातित्वादस्तित्वासत्यतां ततः ॥४०॥

ज्ञानं ततोप्यनन्तो नः पूर्णोन्तः शुकमात्मना ।
न नित्यभावाज्जातोहमकृत्वादमृतोस्म्यहम् ।
दीपवद्धृदये ज्योतिरहं ब्रह्मास्मि मुक्तये ॥४१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आत्मज्ञानस्वरूपवर्णनं नाम षट्त्रिंशदुत्तरद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP