संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४४

आचारकाण्डः - अध्यायः १४४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यमुत्तमम् ।
वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत् ॥१॥

धर्मादिरक्षणार्थाय ह्यधर्मादिविनष्टये ।
कृष्णः पीत्वा स्तनौ गाढं पूतनामनयत्क्षयम् ॥२॥

शकटः परिवृत्तोऽथ भग्नौ च यमलार्जुनौ ।
दमितः कालियो नागो धेनुको विनिपातितः ॥३॥

धृतो गोवर्धनः शैल इन्द्रेण परिपूजितः ।
भारावतरणं चक्रे प्रतिज्ञां कृतवान्हरिः ॥४॥

रक्षणायार्जुनादेश्च ह्यरिष्टादिर्निपातितः ।
केशी विनिहतो दैत्यो गोपाद्याः परितोषिताः ॥५॥

चाणूरो मुष्टिको मल्लः कंसो मञ्चान्निपातितः ।
रुक्मिणीसत्यभामाद्याः ह्यष्टौ पत्न्यो हरेः पराः ॥६॥

षोढश स्त्रीसहस्राणि ह्यन्यान्यास महात्मनः ।
तासां पुत्राश्च पौत्राद्याः शतशोऽथ सहस्रशः ॥७॥

रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीच्छंबरञ्च यः ।
तस्य पुत्रोऽनिरुद्धोऽभूदुषाबाणसुतापतिः ॥८॥

हरिशकरयोर्यत्र महायुद्धं बभूव ह ।
बाणबाहुसहस्रञ्च च्छिन्नं बाहुद्वयं ह्यभूत् ॥९॥

नरको निहतो येन पारिजातं जहार यः ।
बलश्च शिसुपालश्च हतश्च द्विविदः कपिः ॥१०॥

अनिरुद्धादभूद्वज्रः स च राजा गते हरौ ।
सन्दीपनिं गुरुञ्चक्रे सपुत्रञ्च चकार सः ।
मथुरायां चोग्रसेनं पालनं च दिवौकसाम् ॥११॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिवंशवर्णनं नाम चतुश्चात्वारिंशदुत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP