संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ६७

आचारकाण्डः - अध्यायः ६७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ॥१॥

कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्त्तितः ॥
वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः ॥२॥

गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः ॥
वामनाडीं तु मध्यस्थां कारयेदात्मनस्तथा ॥३॥

यदाचर इलायुक्तस्तदा कर्मसमाचरेत् ॥
स्थानसेवां तथा ध्यानं वाणिज्यं राजदर्शनम् ॥४॥

अन्यानि शुभकर्माणि कारयेत प्रयत्नतः ॥
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः ॥५॥

इनश्चैव तथाप्ये पापानामुदयो भवेत् ॥
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् ॥६॥

देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तराः ॥
नाभेरधस्ताद्यः कन्दस्त्वंकुरास्तत्र निर्गताः ॥७॥

द्विसप्ततिसहस्त्राणि नाभिमध्ये व्यवस्थिते ॥
चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराः स्मृताः ॥८॥

तासां मध्ये त्रयः श्रेष्ठा वामदक्षिणमध्यमाः ॥
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ॥९॥

मध्यमा च भवेदग्निः फलंती कालपूरिणी ॥
वामा ह्यमृतरूपा च जगदाप्यायने स्थिता ॥१०॥

दक्षिणा रौद्रभागेन जगच्छोषयते सदा ॥
द्वयोर्वाहे तु मृत्युः स्यात्सर्वकार्य्यविनाशिनी ॥११॥

निर्गमे तु भवेद्वामा प्रवेशे दक्षिणा स्मृता ॥
इडाचारे तथा सौम्यं चन्द्रसूर्य्यगतस्तथा ॥१२॥

कारयेत्क्रूर कर्माणि प्राणे पिंगलसंस्थिते ॥
यात्रायां सर्वकार्येषु विषापहारणे इडा ॥१३॥

भोजने मैथुने युद्धे पिंगला सिद्धिदायिका ॥
उच्चाटमारणाद्येषु कर्मस्वेतेषु पिङ्गला ॥१४॥

मैथुने चैव संग्रामे भोजने सिद्धिदायिका ॥
शोभनेषु च कार्य्येषु यात्रायां विषकर्मणि ॥१५॥

शान्तिमुक्त्यर्थसिद्ध्यै च इडा योज्या नराधिपैः ॥
द्वाभ्यां चैव प्रवाहे च क्रूरसौम्यविवर्जने ॥१६॥

विषवत्तं तु जानीयात्संस्मरेत्तु विचक्षणः ॥
सौम्यादिशुभकार्येषु लाभादिजयजीविते ॥१७॥

गमनागमने चैव वामा सर्वत्र पूजिता ॥
युद्धादिभोजने घाते स्त्रीणां चैव तु सङ्गमे ॥१८॥

प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि ॥
शुभाशुभानि कार्य्याणि लाभालाभौ जयाजयौ ॥१९॥

जीवाजीवाय यत्पृच्छेन्न सिध्यति च मध्यमा ॥
वामाचारेऽथवा दक्षे प्रत्यये यत्र नायकः ॥२०॥

तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः ॥
वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ॥२१॥

तत्र भागे स्थितः पृच्छेत्सिद्धिर्भवति निष्फला ॥
वामे वा दक्षिणे वापि यत्र संक्रमते शिवा ॥२२॥

घोरे घोराणि कार्य्याणि सौम्ये वै मध्यमानि च ॥
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्ववाहिनी ॥२३॥

तदा मृत्युं विजानीयाद्योगी योगविशारदः ॥
यत्र यत्र स्थितः पृच्छेद्वामदक्षिणसंमुखः ॥२४॥

तत्र तत्र समं दिश्याद्वातस्योदयनं सदा ॥
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ॥२५॥

वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा ॥
वामे वामा शुभे चैव दक्षिणे दक्षिणा शुभा ॥२६॥

जीवो जीवति जीवेन यच्छून्यं तस्त्वरो भवेत् ॥
यत्किञ्चित्कार्य्यमुद्दिष्टं जयादिशुभलक्षणम् ॥२७॥

तत्सर्वं पूर्णनाड्यां तु जायते निर्विकल्पतः ॥
अन्यनाड्यादिपर्य्यन्तं पक्षत्रयमुदाहृतम् ॥२८॥

यावत्षष्ठी तु पृच्छायां पूर्णायां प्रथमो जयेत् ॥
रिक्तायां तु द्वितीयस्तु कथयेत्तदशङ्कितः ॥२९॥

वामाचारसमो वायुर्जायते कर्मसिद्धिदः ॥
प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम् ॥३०॥

अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् ॥
तदासौ जयमाप्नोति योधः संग्राममध्यतः ॥३१॥

दक्षवातप्रवाहे तु यदि नाम समाक्षरम् ॥
जा(ज) यते नात्र सन्देहो नाडीमघ्ये तु लक्षयेत् ॥३२॥

पिङ्गलान्तर्गते प्राणे शमनीयाहवं जयेत् ॥
यावन्नाड्युदयं चारस्तां दिशं यावदापयेत् ॥३३॥

न दातुं जायते सोऽपि नात्र कार्य्या विचारणा ॥
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् ॥३४॥

सा दिशा जयमाप्नोति शून्ये भंगं विनिर्दिशेत् ॥
जातचारे जयं विद्यान्मृतके मृतमादिशेत् ॥३५॥

जयं पराजयं चैव यो जानाति स पण्डितः ॥
वामे वा दक्षिणे वापि यत्र सञ्चरते शिवम् ॥३६॥

कृत्वा तत्पदमाप्नोति यात्रा सन्ततशोभना ॥
शशिसूर्य्यप्रवाहे तु सति युद्धं समाचरेत् ॥३७॥

यस्तु पृच्छति तत्रस्थः स साधुर्जयतिध्रुवम् ॥
यां दिशं वहते वायुस्तां दिशं यावदाजयः ॥३८॥

जायते नात्र सन्देह हन्द्रो यद्यग्रतः स्थितः ॥
मेष्याद्या दश या नाड्यो दक्षिणा वाम संस्थिताः ॥३९॥

चरेस्थिरे तद्विमार्गे तादृशेतादृशे क्रमात् ॥
निर्गमे निर्गमं याति संग्रहे संग्रहं विदुः ॥४०॥

पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत् ॥
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे ॥४१॥

ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः ॥
मध्ये तु पृथिवी ज्ञेया नभः सर्वत्र सर्वदा ॥४२॥

ऊर्द्ध्वे मृत्युरधः शान्तिस्तिर्य्यक् चोच्चाटयेत्सुधीः ॥
मध्ये स्तम्भं विजानीयान्मोक्षः सर्वत्र सर्वगे ॥४३॥

इति श्रीगारुडेमहापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्वरोदये शुभाशुभनिरूपणं नाम सप्तषष्टितमोऽध्यायः ॥६७॥   

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP