आचारकाण्डः - अध्यायः २२
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥सूत उवाच ॥
शिवार्चनं प्रवक्ष्यामि भक्तिमुक्तिकरं परम् ॥
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ॥१॥
पञ्च वक्त्राणि ह्रस्वानि दीर्घाण्यंगानि बिन्दुना ॥
सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः ॥२॥
षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः ॥
हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्मस्तकम् ॥३॥
महामुद्रा हि सर्वेषां करांगन्यासमाचरेत् ॥
तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत् ॥४॥
कनिष्ठामादितः कृत्वा तर्जन्यंगानि विन्यसेत् ॥
पूजनं संप्रवक्ष्यामि कर्णिकायां हृदम्बुजे ॥५॥
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यादि हृदार्चयेत् ॥
आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत् ॥६॥
आचामं स्नपनं पूजामेकाधारणतुल्यकाम् ? ॥
अग्निकार्य्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत् ॥७॥
वर्म्मणाभ्युक्षणं कार्य्यं शक्तिन्यासं हृदा चरेत् ॥
हृदि वा शक्तिगर्त्ते च प्रक्षिपेज्जातवेदसम् ॥८॥
गर्भाधानादिकं कृत्वा निष्कृतिं चारस्य पश्चिमाम् ॥
हृदा कृत्वा सर्वकर्म्म शिवं सांगं तु होमयेत् ॥९॥
पूजयेन्मण्डले शम्भुं पद्मगर्भे गरांकितम् ॥
चतुः षष्ट्यन्तमष्टादि स्वाक्षि खाद्यादिमण्डलम् ॥१०॥
खाक्षीन्द्रसूर्य्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्त्तनम् ॥
आग्नेय्यां कारयेत्कुण्डमर्द्धचन्द्रनिभं शुभम् ॥११॥
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते ॥
अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः ॥१२॥
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे ॥
निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः ॥१३
शान्त्यतीतं भवेद्धोम तत्परं शान्तमव्ययम् ॥
एकैकस्य शतं होमित्येवं पंच होमयेत् ॥१४॥
पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सादेन शिवं स्मरेत् ॥
प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात् ॥१५॥
होमयेदस्त्रबीजेन एवं दीक्षां समाप्येत् ॥
यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम् ॥१६॥
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ॥१७॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशोऽध्यायः ॥२२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP