संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १२५

आचारकाण्डः - अध्यायः १२५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


पितामह उवाच ।
मान्धाता चक्रवर्त्यासीदुपोष्यैकादशीं नृपः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयारपि ॥१॥

दशम्येकादशीमिश्रा गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥२॥

द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ।
दशम्येकादशी यत्र तत्र सन्निहितोऽसुरः ।
बहुवाक्यविरोधेन सन्देहो जायते यदा ॥३॥

द्वादशी तु तदा ग्राह्या त्रयोदश्यान्तु पारणम् ।
एकादशी कलापिस्यादुपोष्या द्वादशी तथा ॥४॥

एकादशी द्वादशी च विशेषेण त्रयोदशी ।
त्रिमिश्रा सा तिथिर्ग्राह्या सर्वपापहरा शुभा ॥५॥

एकादशीमुपोष्यैवद्वादशीम थवा द्विज ! ।
त्रिमिश्रां चैव कुर्वीत न दशम्या युतां क्रचित् ॥६॥

रात्रौ जागरणं कुर्वन्पुराणश्रवणं नृपः ।
गदाधरं पूजयंश्च उपोष्यैका दशीद्वयम् ।
रुक्माङ्गदो ययौ मोक्षमन्ये चैकादशीव्रतम् ॥७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम पञ्चविंशत्युत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP