आचारकाण्डः - अध्यायः १८२
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥१॥
भुक्ते तु शर्करा पीता नवनीतेन बुद्धिकृत् ।
गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् ।
स्त्रीसहस्रञ्च संगच्छेत्पुमान्बलयुतो हर ! ॥२॥
कुष्ठं संचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् ।
भक्षयेत्स्वप्नवेलायां बलीपलितनाशनम् ॥३॥
अतसीमाषगोधूमचूर्णं कृत्वा तु पिप्पली ।
घृतेन लेपयेद्गत्रमोभिः सार्धं विचक्षणः ।
कन्दर्पसदृशो मर्त्यो नित्यं भवति शङ्कर ! ॥४॥
यवास्तिलाश्वगन्धा च मुशली सरला गुडम् ।
एभिश्च रचितां जग्ध्वा तरुणो बलवान्भवेत् ॥५॥
हिङ्गु सौवर्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः ।
परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति ॥६॥
धातकीं सोमराजीञ्च क्षीरेण सह पेषयेत् ।
दुर्बलश्च भवेत्स्थूलो नात्र कार्या विचारणा ॥७॥
शर्करामधुसंयुक्तं नवनीतं बली लिहेत् ।
क्षीराशी च क्षयी पुष्टिं मेधाञ्चैवातुलां व्रजेत् ॥८॥
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरेगनुत् ।
भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम् ॥९॥
मनः शिला शङ्खचूर्णं तैलपक्वं तथैव च ।
लोमानि शातयत्येव नात्र कार्या विचारणा ॥१०॥
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।
हस्तौ संलेपयेत्तेन त्वग्निस्तम्भनमुत्तमम् ॥११॥
शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।
अग्नयादौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमम् ॥१२॥
वायस्या उदरं गृह्य मण्डूकवसया सह ।
गुटिकां कारयेत्तेन ततोऽग्नौ संक्षैपेत्सुधीः ।
एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम् ॥१३॥
मुण्डीत्वक्च वचा मुस्तं मरिचं तगरं तथा ।
चर्वित्वा च त्विमं सद्यो जिह्वया ज्वलनं लिहेत् ॥१४॥
गोरोचनां भृङ्गराजं चूर्णोकृत्यघृतं समम् ।
दिव्याम्भसः स्तम्भनं स्यान्मन्त्रेणानेन वै तथा ।
ओं अग्निस्तम्भनं कुरु कुरु ॥१५॥
ओं नमो भगवते जलं स्तम्भय सं सं सं केक केकः चरचर ।
जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥१६॥
गृध्रास्थिञ्च गवास्थिञ्च तथा निर्माल्यमेव च ।
अरेर्यो निखनेद्द्वारे पञ्चत्वमु पयाति सः ॥१७॥
पञ्चरक्तानि पुष्पाणि पृथग्जात्या समालभेत् ।
कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम् ॥१८॥
पुष्पेण तु समं पिष्ट्वा रोचनायाः पलैकतः ।
स्त्रिया पुंसा कृतो रुद्र ! तिलकोऽयं वशीकरः ॥१९॥
ब्रह्मदण्डी तु पुष्येण भक्ष्ये पाने वशीकरः ।
यष्टि मधु पलैकेन पक्वमुष्णोदकं पिबेत् ॥२०॥
विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर ! ।
ओं ह्रूं जः ।
मन्त्रोऽयं हरते रुद्र ! सर्ववृश्चिकजं विषम् ॥२१॥
पिप्पली नवनीतञ्च शृङ्गवेरं च सैन्धवम् ।
मरिचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ॥२२॥
त्रिफलार्द्रककुष्ठं च चन्दनं घृतसंयुतम् ।
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ! ॥२३॥
पारावतस्य चाक्षीणि हरितालं मनः शिला ।
एतद्योगाद्विषं हन्ति वैनतेय इवोरगान् ॥२४॥
सैन्धवं त्र्यूषणं चैव दधिमध्वाज्यसंयुतम् ।
वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ! ॥२५॥
ब्रह्मदण्डीतिलान्क्वाथ्य चूर्णं त्रिकटुकं पिबेत् ।
नाशयेद्रुद्र ! गुल्मानि निरुद्धं रक्तमेव च ॥२६॥
पीत्वा क्षीरं क्षौद्रयुतं नाशयेदसृजः स्त्रुतिम् ।
आटरूपकमूलेन भगं नाभिं च लेपयेत् ।
सुखं प्रसूयते नारी नात्र कार्या विचारणा ॥२७॥
शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा ।
रक्तातिसारशमनं भवतीति वृषध्वज ! ॥२८॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्व्याशीत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP