आचारकाण्डः - अध्यायः १७९
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
हरितालं यवक्षांरं पत्राङ्गं रक्तचन्दनम् ।
जातिहिङ्गुलकं लाक्षां पक्त्वा दन्तान्प्रलेपयेत् ॥१॥
हरीतकीकषायेण मृष्ट्वा दन्तान्प्रलेपयेत् ।
दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र न संशयः ॥२॥
मूलकं स्विद्य मन्दाग्नौ रसं तस्य प्रपूरयेत् ।
कर्णयोः पूरणात्तेन कर्णस्त्रावो विनश्यति ॥३॥
अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः ।
निष्पीड्य पूरयेत्कर्णौ कर्णशूलं विनश्यति ॥४॥
प्रियङ्गुमधुका चैव धातक्युत्पलपाङ्क्तिभिः ।
मञ्जिष्ठा लोध्रलाक्षाभिः कपित्थस्वरसेन च ।
पचेत्तैलं तथा स्त्रीणां नश्येत्क्लेदः प्रपूरणात् ॥५॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुमहौषधम् ।
सतपुष्पावचा कुष्ठं दारु शिग्र रसाञ्जनम् ॥६॥
सौवर्चलं यवक्षारं तथा सर्जकसैन्धवम् ।
तथा ग्रन्थिर्विडं मुस्तं मधुयुक्तं चतुर्गुणम् ॥७॥
मातुलुं गरसस्तद्वत्कदल्याश्च रसो हि तैः ।
पक्वतैलं हरेदाशु स्त्रावादींश्च न संशयः ॥८॥
कर्णयोः कृमिनाशः स्यात्कटुतैलस्य पूरणात् ।
हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥९॥
विडङ्गभद्रं मुस्तञ्च सप्तमं विश्वभेषजम् ।
गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर !
अजीर्णहृद्भवेच्चैकं द्वयं विषूचिकापहम् ॥१०॥
पटोलं मधुना हन्ति गोमूत्रेण तथाबुदम् ।
एषा च शङ्करी वर्तिः सर्वनेत्रामया पहा ॥११॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोनाशीत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP