संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६

आचारकाण्डः - अध्यायः १६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥रुद्र उवाच ॥
पुनर्ध्यानं समाचक्ष्व शंखचक्रगदाधर ॥
विष्णोरीशस्य देवस्य शुद्धस्य परमात्मनः ॥१॥

हरिरुवाच ॥
श्रृणु रुद्र ! हरेर्ध्यानं संसारतरुनाशनम् ॥
दृशिरूपमनन्तं च सर्वव्याप्यजमव्ययम् ॥२॥

अक्षरं सर्वगं नित्यं महद्ब्रह्मास्ति केवलम् ॥
सर्वस्य जगतो मूलं सर्वगं परमेशवरम् ॥३॥

सर्वभूतहृदिस्थं वै सर्वभूतमहेश्वरम् ॥
सर्वाधारं निराधारं सर्वकारणकारणम् ॥४॥

अलेपकं तथा मुक्तं मुक्तयोगिविचिन्तितम् ॥
स्थूलदेहविहीनं च चक्षुषा परिवर्जितम् ॥५॥

वागिन्द्रियविहीनं च प्राणिधर्म्मविवर्जितम् ॥
प्राणेद्रियविहीनं च वाग्धर्मपरिवर्जितम् ॥
पायूपस्थविहीनं च सर्वैंन्द्रिय विवर्जितम् ॥६॥

मनोविरहितं तद्वन्मनोधर्म्मविवर्जितम् ॥
बुद्ध्या विहीनं देवेशं चेतसा परिवर्जितम् ॥७॥

अहंकारविहीनं वै बुद्धिधर्म्मविवर्जितम् ॥
प्राणेन रहितं चैव ह्यपानेन विवर्जितम् ॥८॥

व्यानाख्यवायुहीनं वै प्राणधर्म्मविवर्जितम् ॥

हरिरुवाच ॥
पुनः सूर्य्यर्च्चनं वक्ष्ये यदुक्तं भृगवे पुरा ॥९॥

ॐ खखोल्काय नमः ॥
सूर्य्यस्य मूलमन्त्रोऽयं भुक्तिमुक्तिप्रदायकः ॥१०॥

ॐ खखोल्काय त्रिदशाय नमः ॥
ॐ विचि ठठ शिरसे नमः ॥

ॐ ज्ञानिने ठठ शिखायै नमः ॥
ॐ सहस्ररश्मये ठठ कवचाय नमः ॥११॥

ॐ सर्वतेजोऽधिपतये ठठ अस्त्राय नमः ॥
ॐ ज्वलज्वल प्रज्वलप्रज्वल ठठ नमः ॥१२॥

अग्निप्राकारमन्त्रोऽयं सूर्य्यस्याघविनाशनः ॥
ॐ आदित्याय विद्महे, विश्वभा वाय धीमहि, तन्नः सूर्य्य प्रचोदयात् ॥१३॥

सकलीकरणं कुर्य्याद्गायत्र्या भास्करस्य च ॥
धर्म्मात्मने च पूर्वस्मिन्यमा येति च दक्षिणे ॥१४॥

दण्डनायकाय ततो दैवतायेति चोत्तरे ॥
श्यामपिंगलमैशान्यामाग्नेय्यां दीक्षितं यजेत् ॥१५॥

वज्रपाणिं च नैर्ऋत्यां भूर्भुवःस्वश्च वायवे ॥
ॐ चन्द्राय नक्षत्राधिपतये नमः ॥
ॐ अंगारकाय क्षितिसुताय नमः ॥
ॐ बुधाय सोमसुताय नमः ॥
ॐ वागीश्वराय सर्वविद्याधिपतये नमः ॥
ॐ शुक्राय महर्षये भृगुसुताय नमः ॥
ॐ शनैश्चराय सूर्य्यात्मजाय नमः ॥

ॐ राहवे नमः ॥
ॐ केतवे नमः ॥१६॥

पूर्वादीशानपर्य्यन्ता एते पूज्या वृषध्वज ॥
ॐ अनूकाय नमः ॥
ॐ प्रथमनाथाय नमः ॥
ॐ बुद्धाय नमः ॥१७॥

ॐ भगवन्नपरिमितमयूखमालिन् ! सकलजगत्पते ! सप्ताश्ववाहन ! चतुर्भुज ! परमसिद्धिप्रद ! विस्फुलिंगपिंगल ! तत एह्येहि इदमर्घ्यं मम शिरसि गतं गृह्णगृह्ण तेजोग्ररूपम् अनग्न ! ज्वलज्वल ठठ नमः ॥१८॥

अनेनावाह्य मन्त्रेण ततः सूर्य्यं विसर्जयेत् ॥
ॐ नमो भगवते आदित्याय सहस्त्र किरणाय गच्छ सुखं पुनरागमनायेति ॥१९॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिध्यानसूर्यार्चनयोर्निरूपणं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP