आचारकाण्डः - अध्यायः १५८
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
धन्वन्तरिरुवाच ।
अथातो मूत्रघातस्य निदानं शृणु सुश्रुत ।
बस्तिबस्तिशिरोमेढ्रकटीवृषणपायु च ॥१॥
एकसंवहनाः प्रोक्ता गुदास्थिविवराश्रयाः ।
अधोमुखोऽपि बस्तिर्हि मूत्रवाहिशिरामुखैः ॥२॥
पार्श्वेभ्यः पूर्यते श्लक्ष्णै (सूक्ष्मैः) स्यन्दमानैरनारतम् ।
तैस्तैरेव प्रविश्यैवन्दोषान्कुवन्ति विंशतिम् ॥३॥
मूत्राघातः प्रमेहश्च कृच्छ्रान्मर्म समाश्रयेत् ।
बस्तिवङ्क्षणमेढ्रार्तियुक्तोल्पाल्पं मुहुर्मुहुः ॥४॥
मूत्राण्यावातजे कृच्छ्रपीत्ते पीतं सदाहरुक् ।
रक्तं वा कफजो बस्तिमेढ्रगौरवशोथवान् ॥५॥
सपिच्छं सनिरुद्धं च सर्वैः सर्वात्मकं मलैः ।
यदा वायुर्मुखं बस्तेर्व्यावर्त्य पारिशोषयन् ॥६॥
मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् ।
संजायतेऽश्मरी घोरा पित्तं गोरिव रोचना ॥७॥
श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम् ।
बस्त्याध्मानं तदासन्नदेशोहि परितोऽतिरुक् ॥८॥
बस्तौ च मूत्रसङ्गित्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ।
सामान्यलिङ्गं रुङ्नाभिसीवनीबस्तिमूर्धसु ॥९॥
विस्तीर्णवा सं मूत्रं स्यात्तथा मार्गनिरोधने ।
बद्धं बद्ध्वा सुखं मेहेदच्छं गोमेदकोपमम् ॥१०॥
तत्संक्षोभाद्भवेत्सासृङ्मांसमध्वनि रुग्भवेत् ।
तत्र बाताभिसृत्यार्तोदन्तान् खादति वेपते ॥११॥
गृह्णाति मेहनं नाभिं पीडयत्यतिलक्षणम् ।
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ॥१२॥
श्यामरूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव ।
पित्तेन दह्यते बस्तिः पच्यमान इवोष्णवान् ॥१३॥
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरा ।
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ॥१४॥
अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता ।
एता भवन्ति बालनां तेषामेव च भूयसाम् ॥१५॥
आशयोपचयाल्पत्वाद्गहणाहरणे सुखी ।
सुक्राश्मरी तु महती जायते शुक्रधारणात् ॥१६॥
स्थानच्युतमभुक्तं वा अण्डयोरन्तरेऽनिलः ।
शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी ॥१७॥
बस्तिरुक्कृच्छ्रमूत्रत्वं शुक्ला श्वयथुकारिणी ।
तस्यामुत्पन्नमात्रायां शुष्कमेत्य विलीयते ॥१८॥
पीडिते ज्वरकासेऽस्मिन्नश्मर्येव च शर्करा ।
असौ वा वायुना भिन्ना सा त्वस्मिन्नमुलोमगे ॥१९॥
निरेति सह मूत्रेण प्रतिलोमे विपच्यते ।
मूत्रसंधारणं कुर्यात्क्रुद्धो बस्तेर्मुखे मरुत् ॥२०॥
मूत्रसङ्गं रुजं कण्डूं कदाचिच्च सुवामतः ।
प्रच्छाद्य बस्तिमुद्धृत्य गर्मान्तं स्थूलविप्लुताम् ॥२१॥
करोति तत्र रुग्दाहं स्पन्दनोद्वेष्टनानि च ।
बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडिते ॥२२॥
धारावरोधश्चाप्येष वातबस्तिरिति स्मृतः ।
दुस्तरो दुस्तरतरो द्वितीयः प्रबलोऽनिलः ॥२३॥
शकृप्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः ।
अष्ठीलाभं घनं ग्रन्थिं करोत्यच (ब) लमुन्नतम् ॥२४॥
वाताष्ठीलेति सात्मानं विष्णूत्रानिल (ति) सर्गकृत् ।
विगुणः कुण्डलीभूतो बस्तौ तीव्रव्यथोनिलः ॥२५॥
आबध्य मूत्रं भ्रमति संस्तम्भोद्वेष्टगौरवम् ।
मूत्रमल्पाल्पमथवा विमुञ्चति सकृत्सकृत् ॥२६॥
वातकुण्डलिकेत्येव मूत्रं तु विधृतेऽचिरम् ।
न निरेति निरुद्धं वा मूत्रातीतं तदल्परुक् ॥२७॥
विधारणात्प्रतिहतं वातादावर्तितं यदा ।
नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा ॥२८॥
कुर्यात्तीव्ररुगाध्मानमशक्तिं मलसंग्रहम् ।
तन्मूत्रं जाठरच्छिद्रवैगुण्येनानिलेन वा ॥२९॥
आक्षिप्तमल्पमूत्रस्य वस्तौ नाभौ च वा मले ।
स्थित्वा प्लवेच्छनैः पश्चात्सरुजं वाथवारुजम् ॥३०॥
मूत्रोत्सर्गं सविच्छिन्नं तच्छ्रेयो गुरुशेफसोः ।
अन्तर्वस्ति मुखे तृष्णा स्थिराल्पं सहसा भवेत् ॥३१॥
अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ।
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम् ॥३२॥
स्थानाच्च्युतं मूत्रयतः प्राक्पश्चाद्वा प्रवर्तते ।
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥३३॥
रूक्षदुर्बलयोर्वातेनोदावर्तं शकृद्यदा ।
मूत्रस्रोतोऽनुपर्येति संसृष्टं शकृता तदा ॥३४॥
मूत्रबिन्दुं तुल्यगन्धं स्याद्विघातं तमादिशेत् ।
पित्तव्यायामतीक्ष्णाम्लभोजनाध्मानकादिभिः ॥३५॥
प्रवृद्धवायुना मूत्रे वस्तिस्थे चैव दाहकृत् ।
मूत्रं वर्तयते पूर्वं सरक्तं रक्तमेव वा ॥३६॥
उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम् ।
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ ॥३७॥
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ।
पित्तं कफो द्वादपि वा संहन्येतेनिलेनचेत् ॥३८॥
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ।
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत् ॥३९॥
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्तितम् ।
इति विस्तारतः प्रोक्ता रोगा मूत्रप्रवर्तिताः ॥४०॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मूत्राघातमूत्राकृच्छनिदान नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP