संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०२

आचारकाण्डः - अध्यायः १०२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ याज्ञवल्क्य उवाच ॥
वानप्रस्थाश्रमं वक्ष्ये तच्छृण्वन्तु महर्षयः ॥
पुत्रेषु भार्यां निः क्षिप्य वनं गच्छेत्सहैव वा ॥१॥

वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी ॥
अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा ॥२॥

भृत्यांस्तु तर्पयेच्छ्मश्रुजटालोमभृदात्मवान् ॥
दान्तस्त्रिसवर्णस्नायी निवृत्तश्च प्रतिग्रहात् ॥३॥

स्वाध्यायवान्ध्यानशीलः सर्वभूतहितेरतः (तिः) ॥
अह्नो मासस्य मध्ये वा कुर्य्याद्वार्थपरिग्रहम् ॥४॥

कृतं त्यजेदाश्वयुजे युञ्जेत्कालं व्रतादिना ॥
पक्षे मासेथवाश्नीयाद्दन्तोलूखलिको भवेत् ॥५॥

चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात्फलादिना ॥
ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥६॥

आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत् ॥
यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति ॥
अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च ॥७॥

इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नाम द्वयधिकशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP