आचारकाण्डः - अध्यायः २३४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
सूत उवाच ।
वक्ष्येऽहमच्युतस्तोत्रं शृणु शौनक सर्वदम् ।
ब्रह्मा पृष्टो नारदाय यथोवाच तथा परम् ॥१॥
नारद उवाच ।
यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया ।
प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि ॥२॥
ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः ।
सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम् ॥३॥
ब्रह्मोवाच ।
मुने स्तोत्रं प्रवक्ष्यामिः वासुदेवस्य मुक्तिदम् ।
शृणु येन स्तुतः सम्यक्पूजाकाले प्रसीदति ॥४॥
ओं नमो (भगवतेः वासुदेवाच नमः सर्वापहारिणे ।
नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे ॥५॥
नमः सर्वसुरेशाय नमः श्रीवत्सधारिणे ।
नमश्चर्मासिहस्ताय नमः पङ्कजमालिने ॥६॥
नमो विश्वप्रतिष्ठाय नमः पीताम्बराय च ।
नमो नृसिंहरूपाय वैकुण्ठाय नमोनमः ॥७॥
नमः पङ्कजनाभाय नमः क्षीरोदशायिने ।
नमः सहस्रशीर्षाय नमो नागाङ्गशायिने ॥८॥
नमः परशुहस्ताय नमः क्षत्त्रान्तकारिणे ।
नमः सत्यप्रतिज्ञाय ह्यजिताय नमोनमः ॥९॥
नमस्त्रै लोक्यनाथाय नमश्चक्रधारय च ।
नमः शिवाय सूक्ष्माय पुराणाय नमोनमः ॥१०॥
नमो वामनरूपाय बलिराज्यापहारिणे ।
नमो यज्ञवराहाय गोविन्दाय नमोनमः ॥११॥
नमस्ते परमानन्द नमस्ते परमाक्षर ।
नमस्ते ज्ञानसद्भाव नमस्ते ज्ञानदायक ॥१२॥
नमस्ते परमाद्वैत नमस्ते पुरुषोत्तम ।
नमस्ते विश्वकृद्देव नमस्ते विश्वभावन ॥१३॥
नमस्ते स्ताद्विश्वनाथ नमस्तेः विश्वकारण ।
नमस्ते मधुदैत्यघ्न नमस्ते रावणान्तक ॥१४॥
नमस्ते कंसकेशिघ्न नमस्ते कैटभार्दन ।
नमस्ते शतपत्राक्ष नमस्ते गरुडध्वज ॥१५॥
नमस्ते कालनेमिघ्न नमस्ते गरुडासन ।
नमस्ते देवकीपुत्र नमस्ते वृष्णिनन्दन ॥१६॥
नमस्ते रुक्मिणीकान्त नमस्ते दितिनन्दन ।
नमस्ते गोकुलावास नमस्ते गोकुलप्रिय ॥१७॥
जय गोपवपुः कृष्ण जय गोपीजनप्रिय ।
जय गोवर्धनाधार जय गोकुलवर्धन ॥१८॥
जय रावणवीरघ्न जय चाणूरनाशन ।
जय वृष्णिकुलोद्द्योत जय कालीयमर्दन ॥१९॥
जय सत्य जगत्साक्षिन् जय सर्वार्थसाधक ।
जय वेदान्तविद्वेद्य जय सर्वद माधव ॥२०॥
जय सर्वाश्रयाव्यक्त जय सर्वग माधव ।
जय सूक्ष्म चिदान्दन जय चित्तनिरञ्जन ॥२१॥
जयस्तेऽस्तु निरालम्ब जय शान्त सनातन ।
जय नाथ जगत्पुष्ट (त्पूज्य) जय विष्णो नमोऽस्तूते ॥२२॥
त्वं गुरुस्त्वं हरे शिष्यस्त्वं दीक्षामन्त्रमण्डलम् ।
त्वं न्यासमुद्रासमयास्त्वं च पुष्पादिसाधनम् ॥२३॥
त्वमाधारस्त्वं ह्यनन्तस्त्वं कूर्मःस्त्वं धराम्बुजम् ।
धर्मज्ञानादयस्त्वं हि वेदिमण्डलशक्तयः ॥२४॥
त्वं प्रभो छलभृद्रामस्त्वं पुनः स खरान्तकः ।
त्वं ब्रह्मर्षिश्चदेवस्त्वं विष्णुः सत्यपराक्रमः ॥२५॥
त्वं नृसिंहः परानन्दो वराहस्त्वं धराधरः ।
त्वं सुपर्णस्तथा चक्रं त्वं गदा शङ्ख एव च ॥२६॥
त्वं श्रीः प्रभो त्वं मुष्टिसत्वं त्वं माला देव शावती ।
श्रीवत्सः कौस्तुभस्त्वं हि शार्ङ्गो त्वं च तथेषुधिः ॥२७॥
त्वं खड्गचर्मणा सार्धं त्वं दिक्पालास्तथा प्रभो ।
त्वं वेधास्त्वं विधाता च त्वं यमस्त्वं हुताशनः ॥२८॥
त्वं धनेशस्त्वमीशानस्त्वमिन्द्रस्त्वमपांपतिः ।
त्वं रक्षोऽधिपतिः साध्यस्त्वं वायुस्त्वं निशाकरः ॥२९॥
आदित्या वसवो रुद्रा अश्विनौ त्वं मरुद्गणाः ।
त्वं दैत्या दानवा नागास्त्वं यक्षा राक्षसाः खगाः ॥३०॥
गन्धर्वाप्यरसः सिद्धाः पितरस्त्वं महामराः ।
भूतानि विषयस्त्वं हि त्वमव्यक्तेन्द्रियाणि च ॥३१॥
मनोबुद्धिरहङ्कारः क्षेत्रज्ञस्त्वं हृदीश्वरः ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः समित्कुशाः ॥३२॥
त्वं वेदी त्वं हरे दीक्षा त्वं यूपस्त्वं हुताशनः ।
त्वं पत्नी त्वं पुरोडाशस्त्वं शाला स्त्रुक्च त्वं स्तुवः ॥३३॥
ग्रावाणः सकलं त्वं हि सदस्यास्त्वं सदाक्षिणः ।
त्वं सूर्पादिस्त्वं च ब्रह्मा मुसलोलूखले ध्रुवम् ॥३४॥
त्वं होता यजमानस्त्वं त्वं धान्यं पशुयाजकः ।
त्वमध्वर्युस्त्वमुद्गाता त्वं यज्ञः पुरुषोत्तमः ॥३५॥
दिक्पातालमहि व्योम द्यौस्त्वं नक्षत्रकारकः ।
देवतिर्यङ्मनुष्येषु जगदेतच्चराचरम् ॥३६॥
यत्किञ्चिद्दृश्यते देव ब्रह्माण्डमखिलं जगत् ।
तव रूपमिदं सर्वं दृष्ट्यर्थं संप्रकाशितम् ॥३७॥
नाथयन्ते परं ब्रह्म दैवेरपि दुरासदम् ।
कस्तञ्जानाति विमलं योगगम्यमतीन्द्रियम् ॥३८॥
अक्षयं पुरुषं नित्यमव्यक्तमजमव्ययम् ।
प्रलयोत्पत्तिरहितं सर्वव्यापिनमीश्वरम् ॥३९॥
सर्वज्ञं निर्गुणं शुद्धमानन्दमजरं परम् ।
बोधरूपं ध्रुवं शान्तं पूर्णमद्वैतमक्षयम् ॥४०॥
अवतारेषु या मूर्तिर्विदूरे देव दृश्यते ।
परं भावंमजानन्तस्त्वां भजन्ति दिवौकसः ॥४१॥
कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम ।
अराधयितुमीशान मनोगम्यमगोचरम् ॥४२॥
इह यन्मण्डले नाथ पूज्यते विधिवत्क्रमैः ।
पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः ॥४३॥
संकर्षणादिभेदेन तव यत्पूजिता मया ।
क्षन्तुमर्हसि तत्सर्वं यत्कृतं न कृतं मया ॥४४॥
न शक्नोमि विभो सम्यक्कर्तुं पूजां यथोदिताम् ।
यत्कृतं जपहोमादि असाध्यं पुरुषोत्तम ॥४५॥
विनिष्पादयितुं भक्त्या अत स्त्वां क्षमयाम्यहम् ।
दिवा रात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः ॥४६॥
अचला तु हरे ! भक्तिस्तवाङ्घ्रियुगले मम ।
शरिरे न (ण) तथा प्रीतिर्न च धर्मादिकेषु च ॥४७॥
यथा त्वयि जगन्नाथ प्रीतिंरात्यन्तिकी मम ।
किं तेन न कृतं कर्म स्वर्गमोक्षादिसाधनम् ॥४८॥
यस्य विष्णौ दृढा भक्तिः सर्वकामफलप्रदे ।
पूजां कर्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत ॥४९॥
स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते ।
इति चक्रधारस्तोत्रं मया सम्यगुदाहृतम् ।
स्तौहि विष्णुं मुने भक्त्या यदीच्छसि परं पदम् ॥५०॥
स्तोत्रेणानेन यः स्तौति पूजाकाले जगद्घुरुम् ॥५१॥
अचिराल्लभते मोक्षं छित्वा संसारबन्धनम् ।
अन्योऽपि यो जपेद्भक्त्या त्रिसन्ध्यं नियतः शुचिः ॥५२॥
इदं स्तोत्रं मुने सोऽपि सर्वकाममवाप्नुयात् ।
पुत्रार्थो लभते पुत्रान्बद्धो मुच्यते बन्धनात् ॥५३॥
रोगाद्विमुच्यते रागी लभते निर्धनो धनम् ।
विद्यार्थो लभते विद्यां भग्यं कीर्ति च विन्दति ॥५४॥
जाति स्मरत्वं मेधावी यद्यदिच्छति चेतसा ।
स धन्यः सर्ववित्प्राज्ञःस साधुः सर्वकर्मकृत् ॥५५॥
स सत्यवाकूछुचिर्दाता यः स्तौति पुरुषोत्तमम् ।
असंभाष्या हि ते सर्वे सर्वधर्मबहिष्कृताः ॥५६॥
येषां प्रवर्तने नास्ति हरिमुद्दिश्य सत्क्रिया ।
न शुद्धं विद्यते तस्य मनो वाक्च दुरात्मनः ॥५७॥
यस्य सर्वार्थदे विष्णौ भक्तिर्नाव्यभिचारिणी ।
आराध्य विधिवद्देवं हरिं सर्वसुखप्रदम् ॥५८॥
प्राप्नोति पुरुषः सम्यग्यद्यत्प्रार्थयते फलम् ।
कर्म कामादिकं सर्वं श्रद्धधानः सुरोत्तमः ।
असुरादिवपुः सिद्धैर्देयते यस्य नान्तरम् ॥५९॥
सकलमुनिभिराद्यश्चिन्त्यते यो हि शुद्धो निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी ।
तमजममृतमीशं वासुदेवं नतोऽस्मि भयमरणविहीनं नित्यमानन्दरूपम् ॥६०॥
निखिलभुवन नाथं शाश्वतं सुप्रसन्नं त्वतिविमलविशुद्धं निर्गुणं भवपुष्पैः ।
सुखमुदितसमस्तं पूजयाम्यात्मभावं विशतु हृदयपद्मे सर्वसाक्षी चिदात्मा ॥६१॥
एवं मयोक्तं परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः ।
तस्माद्विचिन्त्यः परमेश्वरोऽसौ विमुक्तिकामेन नरेण सम्यक् ॥६२॥
बोधस्वरूपं पुरुषं पुराणमादित्यवर्णं विमलं विशुद्धम् ।
सञ्चिन्त्य विष्णुं परमद्वितीयं कस्तत्र योगी न लंय प्रयाति ॥६३॥
इमं स्तवं यः सततं मनुष्यः पठेच्च तद्वत्प्रयतः प्रशान्तः ।
स धूतपाप्मा विततप्रभावः प्रयाति लोकं विततं मुरारेः ॥६४॥
यः प्रार्थयत्यर्थमशेषसौख्यं धर्मं च कामं च तथैव मोक्षम् ।
स सर्वमुत्सृज्य परं पुराणं प्रयाति विष्णुं शरणं वरेण्यम् ॥६५॥
विभुं प्रभुं विश्वधरं विशुद्धमशेषसंसारविनाशहेतुम् ।
यो वासुदेवं विमलं प्रपन्नः स मोक्षमाप्नोति विमुक्तसङ्गः ॥६६॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽच्युतस्तोत्रं नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP