आचारकाण्डः - अध्यायः ४६
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥हरिरुवाच ॥
वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् ॥
ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥१ ॥
ईशाने च शिरः पादौ नैर्ऋतेऽग्न्यनिले करौ ॥
आवासवासवेश्मादौ पुरे ग्रामे वणिक्पथे ॥२ ॥
प्रासादारामदुर्गेषु देवालयमठेषु च ॥
द्वाविंशति सुरान्बाह्ये तदन्तश्च त्रयोदश ॥३ ॥
ईशश्चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥
सूर्य्यः सत्यो भृगुश्चैव आकाशो वायुरेव च ॥४ ॥
पूषा च वितथश्चैव ग्रहक्षेत्रयमावुभौ ॥
गन्धर्वी भृगुराजस्तु मृगः पितृगणस्तथा ॥५ ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः ॥
असुरः शेषपापौ (दौ) च रोगो।डहिमुख (ख्य) एव च ॥६ ॥
भल्लाटः सोमसर्पौ च अदितिश्चदितिस्तथा ॥
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः श्रृणु ॥७ ॥
ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः ॥
आपश्चैवाथ सावित्री जयो रुद्रस्तथैव च ॥८ ॥
मध्ये नवपदे ब्रह्मा तस्याष्ठौ च समीपगान् ॥
देवानेकोत्तरानेतान्पूर्वादौ नामतः श्रृणु ॥९ ॥
अर्य्यमा सविता चैव विवस्वान्विबुधाधिपः ॥
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥१० ॥
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ॥
ईशानकोणादारभ्य दुर्गे च (र्ज्ञेयो) वंश उच्यते ॥११ ॥
आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः ॥
अदितिं हिमवन्तं च जयन्तं च इदं त्रयम् ॥१२ ॥
नायिका कालिका नाम शक्राद्गन्धर्वगाः पुनः ॥
वास्तुदेवान्पूजयित्वा गृहप्रासादकृद्भवेत् ॥१३ ॥
सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम् ॥
कपिनिर्गमने (णी) ? येन पूर्वतः सत्रमण्डपम् ॥१४ ॥
गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् ॥
भाण्डागारं च कौबेर्य्यां गोष्ठागारं च वायवे ॥१५ ॥
उदगाश्रयं च वारुण्यां वातायनसमन्वितम् ॥
समित्कुशेन्धनस्थानमायुधानां च नैर्ऋते ॥१६ ॥
अभ्यागतालयं रम्यसशय्यासनापदुकम् ॥
तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत् ॥१७ ॥
गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः ॥
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥१८ ॥
प्राकारं तद्वहिर्दद्यात्पञ्चहस्तप्रमाणतः ॥
एवं विष्ण्वाश्रमं कुर्य्याद्वनैश्चोपवनैर्युतम् ॥१९ ॥
चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः ॥
मध्ये चतुष्पदो ब्रह्मा द्विप दास्त्वर्य्यमादयः ॥२० ॥
कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्त्तिताः ॥
तेभ्यो ह्युभयतः सार्द्धादन्येऽपि द्विपदाः सुराः ॥२१ ॥
चतुः षष्टिपदा देवा इत्येवं परिकीर्त्तिताः ॥
चरकी च विदारी च पूतना पापराक्षसी ॥२२ ॥
ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः ॥
हैतुकस्त्रिपुरान्तश्च अग्निवेतालकौ यमः ॥२३ ॥
अग्निजिह्वः कालकश्च करालो ह्योकपादकः ॥
ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः ॥२४ ॥
आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत् ॥
विस्ताराभिहतं दैर्घ्यं राशिं वास्तोस्तु कारयेत् ॥२५ ॥
कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत् ॥
पुनर्गुणितमष्टाभिर्ऋभागं तु भाजयेत् ॥२६ ॥
यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत् ॥
ऋक्षं चतुर्गुणं कृत्वा नवभिर्भागहारितम् ॥२७ ॥
शेषमंशं विजानीयाद्देवलस्य मतं यथा ॥
अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागाहरितम् ॥२८ ॥
यच्छेषं तद्भवेज्जीवं मरणं भूतहारितम् ॥
वास्तुक्रोडे गृहं कुर्य्यान्न पृष्ठे मानवः सदा ॥२९ ॥
वामपार्श्वेन स्वापिति नात्र कार्य्या विचारणा ॥
सिंहकन्यातुलायां च द्वारं शुध्येदथोत्तरम् ॥३० ॥
एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम् ॥
द्वारं दीर्घार्द्धविस्तारं द्वाराण्यष्टौ स्मृतानि च ॥३१ ॥
सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम् ॥
सुतहीनं तु रौद्रेण वीर्य्यघ्नं दक्षिणे तथा ॥३२ ॥
वह्नौ बधश्चायुर्वृद्धिंपुत्त्रलाभसुतृप्तिदः ॥
धनदे नृपपीडादमर्थघ्नं रोगदं जले ॥३३ ॥
नृपभी तिर्मृतापत्यं ह्यनपत्यं न वैरदम् ॥
अर्थदं चार्थहान्यै च दोषदं पुत्रमृत्युदम् ॥३४ ॥
द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम् ॥
अग्निभीतिर्बहु कन्याधनसम्मानकोपदम् ॥३५ ॥
राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम् ॥
ईशानादौ भवेत्पूर्वमग्नेय्यादौ तु दक्षिणम् ॥३६ ॥
नैर्ऋत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम् ॥
अष्टभागे कृते भागे द्वाराणां च फलाफलम् ॥३७ ॥
अश्वत्थप्लक्षन्यग्रोधाः पूर्वादौ स्यादुदुम्बरः ॥
गृहस्य शोभनः प्रोक्त ईशाने चैव शाल्मलिः ॥
पूजितो विग्नहारी स्यात्प्रासादस्य गृहस्य च ॥३८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वास्तुमानलक्षणं नाम षट्चत्वारिंशोऽध्यायः ॥४६ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP