संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ९६

आचारकाण्डः - अध्यायः ९६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


 ॥ याज्ञवल्क्य उवाच ॥
वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम् ॥
विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम् ॥१॥

जातोऽम्बष्ठस्तु शूद्रायां निषादः पर्वतोऽपि वा ॥
माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः ॥२॥

शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः ॥
ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा ॥३॥

शूद्राज्जातस्तु चांडालः सर्ववर्णविगर्हितः ॥
क्षत्त्रिया मागधं वैश्याच्छूद्रा क्षेत्रावमेव च ॥४॥

शूद्रादयोगवं वैश्या जनयामास वै सुतम् ॥
माहिष्येण करण्यां तु रथकारः प्रजायते ॥५॥

असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः ॥
जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा ॥६॥

व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम् ॥
कर्म स्मार्त्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ॥७॥

दायकालादृते वापि श्रौतं वैतानिकाग्निषु ॥
शरीरचिन्तां निर्वर्त्त्य कृतशौचविधिर्द्विजः ॥८॥

प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् ॥
हुत्वाग्नौ सूर्य्यदेवत्याञ्जपेन्मन्त्रान्समाहितः ॥९॥

वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥
योगक्षोमादिसिद्ध्यर्थमुपेयादीश्वरं गृही ॥१०॥

स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥
वेदानथ पुराणानि सेतिहासानि शक्तितः ॥११॥

जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥
बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः ॥१२॥

भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥
देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत् ॥१३॥

अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत् ॥
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ॥१४॥

स्वाध्यायमन्वहं कुर्य्यान्न पचेच्चान्नमात्मने ॥
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ॥१५॥

संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥
प्राणाग्निहोत्रविधिनाश्रीयादन्नमकुत्सयन् ॥१६॥

मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् ॥
आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते ॥१७॥

अनग्नममृतं चैव कार्य्यमन्नं द्विजन्मना ॥
अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्याऽनुपूर्वशः ॥१८॥

अप्रणोद्योऽतिथिः सायमपि नात्र विचारणा ॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ॥१९॥

आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च ॥
प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्य्यपार्थिवाः ॥२०॥

प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः ॥
अध्वनीनोऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः ॥२१॥

मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ॥२२॥

वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम् ॥
श्रोत्रियं वातिथिं तृप्तमासीमान्तादनुव्रजेत् ॥२३॥

अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥
उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः ॥२४॥

कुर्य्याद्भृत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम् ॥
ब्राह्मे मुहूर्त्ते चोत्थाय मान्यो विप्रो धनादिभिः ॥२५॥

वृद्धार्त्तानां समादेयः पन्था वै भारवाहिनाम् ॥
इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च ॥२६॥

प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥
प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम् ॥२७॥

कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् ॥
शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत् ॥२८॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ॥
दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् ॥२९॥

आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥
त्रैवार्षिका धिकान्नो यः स सोमं पातुमर्हति ॥३०॥

स्यादन्नं वार्षिकं यस्य कुर्य्यात्प्राकसौमिकीं क्रियाम् ॥
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ॥३१॥

कर्त्तव्याऽऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः ॥
एषामसम्भवे कुर्य्यादिष्टिं वैश्वानरीं द्विजः ॥३२॥

हीनकल्पं न कुर्वोत सति द्रव्ये फलप्रदम् ॥
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात ॥३३॥

यज्ञार्थलब्धं नादद्याद्भासः काकोऽपि वा भवेत् ॥
कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनोऽपि वा ॥३४॥

जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ॥३५॥

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ॥
दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत् ॥३६॥

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ॥
न भार्य्यादर्शनेऽश्रीयान्नैकवासा न संस्थितः ॥३७॥

अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान् ॥
देवप्रदक्षिणाङ्कुर्य्याद्यष्टिमान्सकमण्डलुः ॥३८॥

न तु मेहेन्नदीच्छायाभस्मगोष्टाम्बुवर्त्मसु ॥
न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम् ॥३९॥

नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम् ॥
न च मूत्रं पुरीषं वा स्वपेत्प्रत्यकूशिरा न च ॥४०॥

ष्टीवनासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ॥
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥४१॥

पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत् ॥
नाक्षैः क्रीडेच्च कितवैर्व्याधितैश्च न संविशेत् ॥४२॥

विरुद्धं वर्जयेत्कम प्रेतधूमं नदीतटम् ॥
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥४३॥

नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत्क्वचित् ॥
न राज्ञः प्रतिगृह्णायाल्लुब्धस्योच्छास्त्रवर्त्तिनः ॥४४॥

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ॥
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च ॥४५॥

पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥
जलान्ते छन्दसां कुर्य्यादुत्सर्गं विधिवद्वहिः ॥४६॥

अनध्यायस्त्र्यहं प्रेते शिष्यर्त्त्विग्गुरुबन्धुषु ॥
उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते ॥४७॥

सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ॥
समाप्य वेदं त्वनिशमारण्यकमधीत्य च ॥४८॥

पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥४९॥

पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः ॥
कृतेऽन्तरे त्वहोरात्रं शुक्रपाते तथोच्छ्रये ॥५०॥

श्वक्रोष्टुगर्दभोलूकसामबाणार्त्तनिः स्वने ॥
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥५१॥

देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ॥
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते ॥५२॥

दिग्दाहे पांशुवर्षेषु सन्ध्यानी हारभीतिषु ॥
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥५३॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे ॥
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥५४॥

वेददिष्टं तथाचार्य्यं राजच्छायां परस्त्रियम् ॥
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्त्तनानि च ॥५५॥

विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन ॥
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ॥५६॥

श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्मणि न स्पृशेत् ॥
न निन्दाताडने कुर्य्यात्सुतं शिष्यं च ताडयेत् ॥५७॥

आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् ॥
मातापित्रतिथीभ्याढ्यैर्विवादं नाचरेद्गृही ॥५८॥

पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ॥
स्नायान्नदीप्रस्रवणदेवखातह्रदेषु च ॥५९॥

वर्जयेत्परशय्यादि न चाश्रीयादनापदि ॥
कदर्य्यबद्धचो (वै) राणां तथा चानम्निकस्य च ॥६०॥

वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम् ॥
चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम् ॥६१॥

क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥
शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम् ॥६२॥

नृशंसराजरजककृतघ्नवधजीविनाम् ॥
पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा ॥६३॥

वन्दिनां स्वर्णकाराणामन्नमेषां कदाचन ॥
न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम् ॥६४॥

भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम् ॥
उदक्यास्पृष्टसंघुष्टमपर्य्याप्तं च वर्जयेत् ॥६५॥

गोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः ॥
शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणः ॥६६॥

भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् ॥
अन्नं पर्य्युषितं भोज्यं स्नेहाक्तं चिरसंभृ (स्थि) तम् ॥६७॥

अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥
औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत् ॥६८॥

क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् ॥
सारसैकशफान्हंसान्बलाकबकटिट्टिभान् ॥६९॥

वृथा कृसरसंयाव पायसापूपशष्कुलीः ॥
कुररं जालपादं च खञ्जरीटमृगद्विजान् ॥७०॥

चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः ॥
बन्धुरं कामतो जग्द्ध्वा सोप वासस्त्र्यहं भवेत् ॥७१॥

पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत् ॥
श्राद्धे देवान्पितॄन्प्रार्च्य खादन्मांसं न दोषभाक् ॥७२॥

वसेत्स नरके घोर दिनानि पशुरोमतः ॥
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥
मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥७३॥

इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP