आचारकाण्डः - अध्यायः ४४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥हरिरुवाच ॥
पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत् ॥
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम् ॥१ ॥
यच्छेद्वाङ्मनसं प्राज्ञस्तं यजेज्ज्ञानमात्मनि ॥
ज्ञानं महति संयच्छेद्य इच्छेज्ज्ञानमात्मानि ॥२ ॥
देहेन्द्रियमनोबुद्धिप्राणाहङ्करावर्जितम् ॥
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः ॥३ ॥
स्वप्रकाशं निराकारं सदानं दमनादि यत् ॥
नित्यं शुद्धं बुद्धमृद्धं सत्यमानन्दमद्वयम् ॥४ ॥
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् ॥
अहं ब्रह्मेत्यवस्थानं समाधिरपि (रिति) गीयते ॥५ ॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥
बुद्धिं च सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः ॥६ ॥
आत्मेंद्रियमनोयुक्तो भोक्तेत्यार्मनीषिणः ॥
यस्तु विज्ञानबाह्मेन युक्तेन मनसा सदा ॥७ ॥
स तु तत्पदमाप्नोति स हि भूयो न जायते ॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥८ ॥
स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम् ॥
अहिंसादिर्यमः प्रोक्तः शौचादिर्नियमः स्मृतः ॥९ ॥
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥
प्रत्याहारो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम् ॥१० ॥
मनोधृतिर्धारणा स्थात्समाधिर्ब्रह्मणि स्थितिः ॥
पूर्वं चेतः स्थिरं न स्यात्ततोमूर्त्तिं विचिन्तयेत् ॥११ ॥
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान् ॥
श्रीवत्सकौस्तुभयुतो वनमालाश्रिया युतः ॥१२ ॥
नित्यः शुद्धो भूतियुक्तः सत्यानन्दाह्वयः परः ॥
आत्माहं परमं ब्रह्म परमं ज्योतिरेव तु ॥१३ ॥
चतुर्विंशतिमूर्त्तिः स शालग्रामशिलास्थितः ॥
द्वारकादिशिलासंस्थो ध्येयः पूज्योऽप्यहं च सः ॥१४ ॥
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ॥
निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्याययंस्तुवञ्जपन् ॥१५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP