संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ११९

आचारकाण्डः - अध्यायः ११९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
अगस्त्यार्घ्यव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकम् ।
अप्राप्ते भास्करे कन्यां सति भागे त्रिभिर्दिनैः ॥१॥

अर्घ्यं दद्यादगस्त्याय मूर्तिं संपूज्य वै मुने ! ।
काशपुष्पमयीं कुम्भे प्रदोषे कृतजागरः ॥२॥

दध्यक्षताद्यैः संपूज्य उपोष्य फलपुष्पकैः ।
पञ्चवर्णसमायुक्तं हेमरौप्यसमन्वितम् ॥३॥

सप्तधान्ययुतं पात्रं दधिचन्दनचर्चितम् ।
अगस्त्यः खनमानेति मन्त्रेणार्घ्यं प्रिदापयेत् ॥४॥

खासपुष्पप्रतीकाश अग्निमारुतसम्भव ! ।
मित्रावारुणयोः पुत्त्रो कुम्भयोने नमोऽस्तु ते ॥५॥

शूद्रस्त्र्यादिरनेनैव त्यजेद्धान्यं फलं रसम् ।
दद्याद्द्विजातये कुम्भं सहिरण्यं सदक्षिणम् ।
भोजयेच्च द्विजान्सप्त वर्षं कृत्वा तु सर्वभाक् ॥६॥

इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डेऽगस्त्यार्घ्यव्रतं नामकोनविंशत्युत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP