संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २१०

आचारकाण्डः - अध्यायः २१०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ।
सससलगाश्च विषमे पादे यद्युपचित्रकम् ।
समे भौ भगगाः स्युश्च द्रुतमध्या भभौ भगौ ॥१॥

गः पादे विषमेऽन्यत्र नजौ ज्यौ च गणौ स्मृतौ ॥२॥

विषमे वेगवती सा गः समे भौ भो गगौ गणाः ।
पादेऽसमे तजौ रो गः समे मसौ जगौ गरुः ।
भवेद्भद्रविराट्केतुमती तु विषमे सजौ ॥३॥

सगौ समे भ्रौ नगगा आख्यानकी त्वथासमे ।
तौ जो गगौ समे पादे जतजा गुरुकद्वयम् ॥४॥

विपरीताख्यानकं स्याद्विषमे जस्तजौ गगौ ।
ततौ जगौ समे गः स्यात्पिङ्गलेन ह्युदाहृतम् ॥५॥

पादेऽथ विषमे चैव पुष्पिताग्रा ननौ रयौ ।
समे नजौ जरौ गश्च वैतालीयं वदन्ति हि ।
वृत्तञ्चापरवक्त्राख्यमौपच्छन्दसिकं परम् ॥६॥

वाङ्मती रजरा यः स्यादयुग्मे जरजा रगौ ॥७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽद्धसमवृत्तलक्षणादिनिरूपणं नाम दशोत्तरद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP