संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ६९ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ६९ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ६९ Translation - भाषांतर ॥ सूत उवाच ॥द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि ॥मुक्ताफलानि प्रथितानि लोके तेषां च शुक्त्युद्भवमेव भूरि ॥१॥तत्रैव चैकस्य हि मूलमात्र निविश्यते रत्नपदस्य जातु ॥वेध्यं तु शुक्तयुद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ॥२॥त्वक्सारनागेन्द्रतिमिप्रसूतं यच्छङ्खजं यच्च वरा हजातम् ॥प्रायो विमुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि ॥३॥या मौक्तिकानामिह जातयेऽष्टौ प्रकीर्त्तिता रत्नविनिश्चयज्ञैः ॥कम्बूद्भवं तेष्वधमं प्रदिष्टमुत्पद्यते यच्च गजेन्द्रकुम्भात् ॥४॥स्वयोनिमद्यच्छवितुल्यवर्णं शाङ्खं बृहल्लोलफलप्रमाणम् ॥उत्पद्यते वारणकुम्भमध्यादापीतवर्णं प्रभया विहीनम् ॥५॥ये कम्बवः शांर्गमुखावमर्शपीतस्य शङ्खप्रवरस्य गोत्रे ॥मतङ्गजाश्चापि विशुद्धवंश्यास्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥६॥उत्पद्यते मौक्तिकमेषु वृत्तमापीतवर्णं प्रभया विहीनम् ॥पाठीनपृष्ठस्य समानवर्णं मीनात्सुवृत्तं लघु चातिसूक्ष्मम् ॥७॥उत्पद्यते वारिचराननेषु मत्स्याश्चे ते मध्यचराः पयोधेः ॥वराहदंष्ट्राप्रभवं प्रदिष्टं तस्यैव दंष्ट्रांकुरतुल्यवर्णम् ॥८॥क्वचित्कथञ्चित्स भुवः प्रदेशे प्रजायते सूकरवद्विशिष्टः ॥वर्षोपलानां समवर्णशोभं त्वक्सारपर्वप्रभवं प्रदिष्टम् ॥९॥ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्वजन्ये ॥भौजं गमं मीनविशुद्धवृत्तं संस्थानतोऽत्युज्ज्वलवर्णशोभम् ॥१०॥नितान्तधौतप्रविकल्पमाननिस्त्रिंशधारासमवर्णकान्ति ॥प्राप्यातिरत्नानि महाप्रभाणि राज्यं श्रियं वा महतीं दुरापाम् ॥११॥तेजोऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य ॥जिज्ञासया रत्नधनं विधिज्ञैः शुभेमुहूर्त्ते प्रयतैः प्रयत्नात् ॥१२॥रक्षाविधानं सुमहद्विधाय हर्म्योपरिष्ठं क्रियते यदा तत् ॥तदा महादुन्दुभिमन्द्रघोषैर्विद्युल्लताविस्फुरितान्तरालैः ॥१३॥पयोधराक्रान्तिविलम्बिनम्रैर्धनैवैराव्रियतेऽन्तरिक्षम् ॥न तं भुजङ्गा न तु यातुधाना न व्याधयो नाप्युपसर्गदोषाः ॥१४॥हिंसन्ति यस्याहिशिरः समुत्थं मुक्ताफलं तिष्ठति कोशमध्ये ॥नाभ्येति मेघप्रभवं धरित्रीं विप्रद्गतं तद्विबुधा हरन्ति ॥१५॥अर्चिः प्रभानावृतदिग्विभागमादित्यवददुः खविभाव्यबिम्बम् ॥तेजस्तिरस्कृत्य हुताशनेन्दुनक्षत्रताराप्रभवं समग्रम् ॥१६॥दिवा यथा दीर्प्तिंकरं तथैव तमोऽवगाढास्वपि तन्निशासु ॥विचित्ररत्नद्युतिचारुतोया चतुः समुद्राभरणोपपन्ना ॥१७॥मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य सुवर्णपूर्णा ॥हीनोऽपियस्तल्लभते कदाचिद्विपाकयोगान्महतः शुभस्य ॥१८॥सापत्न्यहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ॥न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि तस्य जन्म ॥१९॥तद्योजनानां परितः सहस्त्रं सर्वाननर्थान्विमुखी करोति ॥नक्षत्रमालेव दिवो विशीर्णा दन्तावलिस्तस्य महासुरस्य ॥२०॥विचित्रवर्णेषु विशुद्धवर्णा पयः सु पत्युः पयसां पपात ॥सम्पूर्णचन्द्रांशुकलापकान्तेर्मणिप्रवेकस्य महागुणस्य ॥२१॥तच्छुक्तिमत्सु स्थितिमाप बीजमासन्पुराऽप्यन्यभवानि यानि ॥यस्मिन्प्रदेशेऽम्बुनिधौ पपात सुचारुमुक्तामणिरत्नबीजम् ॥तस्मिन्पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥२२॥सैंहलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः ॥कौबेरपाण्ड्यहाटकहेमकमित्याकरास्त्वष्टौ ॥२३॥शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः ॥उत्पद्यते वर्द्धनपारसीकपाताललोकान्तरसिंहलेषु ॥२४॥चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान् ॥न च व्यवस्थास्ति गुणागुणेषु सर्वत्र सर्वाकृतयो भवन्ति ॥२५॥एतस्य शुक्तिप्रभस्य मुक्ताफलस्य चान्येन समुन्मितस्य ॥मूल्यं सहस्त्राणि तु रूपकाणां त्रिभिः शतैरप्याधिकानि पंच ॥२६॥यन्माषकार्द्धेन ततो विहीनं तत्पंचभागद्वयहीनमूल्यम् ॥यन्माषकांस्त्रीन्बिभृयात्सहस्त्रे द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥२७॥अर्द्धाधिकौ द्वौ वहतोऽस्य मूल्यं त्रिभिः शतैरप्यधिकं सहस्त्रम् ॥द्विमाष कोन्मानितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम् ॥२८॥अर्द्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम् ॥गुंजाश्च षड् धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः ॥अध्यर्द्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य ॥२९॥यदि षोडशभिर्भवेदनूनंधरणं तत्प्रवदन्ति दार्विकाख्यम् ॥अधिकं दशभिः शतं च मूल्यं समवाप्नोत्यपि बालिशस्य हस्तात् ॥३०॥द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः ॥नवसप्ततिमाप्नुयात्स्वमूल्यं यदि न स्याद्गुणसम्पदा विहीनम् ॥३१॥त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्त्यते ॥चत्वारिंशद्भवेत्तस्याः परं मूल्यं विनिश्चयः ॥३२॥चत्वारिंशद्र भवेत्तस्यास्त्रिंशन्मूल्यं लभेत् सा ॥पंचाशत्तु भवेत्सोमस्तस्य मूल्यं तु विंशतिः ॥३३॥षष्टिर्निकरशीर्षं स्यात्तस्या मूल्यं चतुर्दश ॥अशीतिर्नवतिश्चैव कूप्येति परिकीर्त्तिता ॥एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥३४॥आदाय तत्सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्रम् ॥घृष्टं ततो मृदुतनूकृतपिण्डमूलैः कुर्य्याद्यथेष्टमनु मौक्तिकमाशु विद्धम् ॥३५॥मृल्लिप्तमत्स्यपुटमध्यगतं तु कृत्वा पश्चात्पचेत्तनु ततश्च बिडालपुट्या ॥दुग्धे ततः पयसि तं विपचेत्सुधायां पक्वं ततोऽपि पयसा शुचिचिक्रणेन ॥३६॥शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम् ॥व्याडिर्जगाद जगतां हि महाप्रभावः सिद्धो विदग्धहिततत्परया दयालुः ॥३७॥श्वेतकाचसमं तारं हेमांशशतयोजितम् ॥रसमध्ये प्रधार्य्येत मौक्तिकं देहभूषणम् ॥३८॥एवं हि सिंहले देशे कुर्वन्ति कुशला जनाः ॥यस्मिन्कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥३९॥उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले ॥ब्रीहिभिर्मर्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥४०॥यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ॥सितं प्रमाणवत्स्निग्धं गुरु स्वच्छं सुनिर्मलम् ॥४१॥तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत्स्मृतम् ॥४२॥प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मवेधम् ॥अक्रेतुरप्यावहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥४३॥एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् ॥न तस्य भर्त्तारमनर्थजात एकोऽपि कश्चित् समुपैति दोषः ॥४४॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमोऽध्यायः ॥६९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP