संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १६५

आचारकाण्डः - अध्यायः १६५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


धन्वन्तरिरुवाच ।
क्रिमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदतः ।
बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः ॥१॥

नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः ।
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥२॥

बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ।
द्विधा ते कोष्ठपिडिकाः कण्डूगण्डान्प्रकुर्वते ॥३॥

कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजा बाह्यसम्भवाः ।
मधुरान्नगुडक्षीरदधिमत्स्यनवौदनैः ॥४॥

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ।
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ॥५॥

रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥६॥

अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ।
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते ॥७॥

हृल्लासमास्यश्रवणमविपाकमरोचकम् ।
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान् ॥८॥

रक्तवाहिशिरास्थानरक्तजा जन्तवोऽणवः ।
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः ॥९॥

केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः ।
षट्ते कुष्ठैककर्माणः सहसौरसमातरः ॥१०॥

पक्वाशये पुरीषोत्था जायन्तेऽथोविसर्पिणः ।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः ॥११॥

तदास्योद्गारनिः श्वामविड्गन्धानुविधायिनः ।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥१२॥

ते पञ्चनाम्ना क्रिमयः ककेरुकमकेरुकाः ।
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ॥१३॥

वङ्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः ।
रोमहर्षाग्निसदनं गुदकण्डूंर्विमार्गगाः ॥१४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे क्रिमिनिदानं नाम पञ्चषष्ठ्यधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP