आचारकाण्डः - अध्यायः २३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥सूत उवाच ॥
शिवार्चनं प्रवक्ष्यामि धर्म्मकामादिसाधनम् ॥
त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः ॥१॥
ॐ हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा ॥
ॐ हूं शिवतत्त्वाय स्वाहा हृदा स्याश्रोत्रवंदनम् ॥२॥
भस्मस्न्नानं तर्पणं च ॐ हां स्वाहा सर्वमन्त्रकाः ॥
सर्वे देवाः सर्वमुनिर्नमोऽन्तो वौषडन्तकः ॥३॥
स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः ॥
ॐ हां प्रपितामहेभ्यस्तथा मातामहादयः ॥४॥
हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः ॥
आचामं मार्जनं चाथो गायत्रीं च जपेत्ततः ॥५॥
ॐ हां तन्महेशाय विद्महे, वाग्विशुद्धाय धीमहि, तन्नो रुद्रः प्रचोदयात् ॥६॥
सूर्य्योपस्थानकं कृत्वा सूर्य्यमन्त्रैः प्रपूजयेत् ॥
ॐ हां हीं हूं हैं हौं हः शिवसूर्य्याय नमः ॥
ॐ हं खखोल्काय सूर्य्यमूर्त्तये नमः ॥
ॐ ह्रां ह्रीं सः सूर्य्याय नमः ॥७॥
दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत् ॥
अग्नयादौ विमलेशानमाराध्य परमं सुखम् ॥८॥
यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें ॥
भद्रां च रैं विभूतिं रों विमलां रौममोधि (रोधि) काम् ॥९॥
रं विद्युतां च पूर्वादौ रा (रं) मध्ये सर्वतोमुखीम् ॥
अर्कासनं सूर्य्यमूर्त्तिं ह्रां ह्रूं (ह्रीं) सः सूर्य्यमर्च्चयेत् ॥१०॥
ॐ आं हृदयार्काय च शिरः शिखा च भूर्भुवः स्वरोम् ॥
ज्वालिनीं ह्रं कवचस्य चास्त्रं राज्ञां च दीक्षिताम् ॥११॥
यजेत्सूर्य्यहृदा सर्वान्सों सोमं मं च मंगलम् ॥
बं बुधं बृं बृहस्पतिं भं भार्गवं शं शनैश्चरम् ॥१२॥
रं राहुं कं यजेत्केतुं ॐ तेजश्चण्डमर्च्चयेत् ॥
सूर्य्यमभ्यर्च्य चाचम्य कनिष्ठातोऽङ्गकांन्यसेत् ॥१३॥
हां हृच्छिरो हूं शिखा हैं वर्म्म हौं चैव नेत्रकम् ॥
होऽस्त्रं शक्तिस्थितिं कृत्वा भूतशुद्धिं पुनर्न्यसेत् ॥१४॥
अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ॥१५॥
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः ॥
द्वारे नन्दिमहाकालौ गंगा च यमुनाथ गौः ॥१६॥
श्रीवत्सं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् ॥
शक्त्यनन्तौ यजेन्मध्ये पूर्वादौ धर्म्मकादिकम् ॥१७॥
अधर्म्माद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके ॥
वामाज्येष्ठा च पूर्वादौ रौद्री काली च पूर्षदः ॥१८॥
ॐ हौं कलविकरिण्यै बलविकरिणी ततः ॥
बलप्रमथिनी सर्वभूतानां दमनी ततः ॥१९॥
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः ॥
शिवासनं महामूर्त्ति मूर्त्तिमध्ये शिवाय च ॥२०॥
आवाहनं स्थापनं च सन्निधानं निरोधनम् ॥
सकलीकरणं मुद्रादर्शनं चार्घ्यपाद्यकम् ॥२१॥
आचामाभ्यङ्गमुद्वर्त्तं स्नानं निर्म्मथनं चरेत् ॥
वस्त्रं विलेपनं पुष्पं धूपं दीपं चरुं ददेत् ॥२२॥
आचामं मुखवासं च ताम्बूलं हस्तशोधनम् ॥
छत्रचामरपावित्रं परमीकरणं चरेत् ॥२३॥
रूपकल्पके चैकाहजपो जाप्यसमर्पणम् ॥
स्तुतिर्नतिर्हृदाद्यैश्च ज्ञेयं नामाङ्ग पूजनम् ॥२४॥
अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम् ॥
इन्द्राद्यांश्च यजेच्चण्डं तस्मै निर्माल्यमर्पयेत् ॥२५॥
गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥
सिद्धिर्भवतु मे देव तत्प्रसादात्त्वयि स्थितिः ॥२६॥
यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम् ॥
तन्मे शिवपदस्थस्य रुद्र क्षपय शङ्कर ॥२७॥
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥
शिवो जयति सर्वत्र यः शिवः सोऽहमेव च ॥२८॥
यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव(तस्तवम्) ॥
त्वं त्राता विश्वनेता च नान्योनाथोऽस्तिमेशिव ॥२९॥
अथान्येन प्रकारेण शिवपूजां वदाम्यहम् ॥
गणः सरस्वती नंदी महाकालोऽथगंगया ॥३०॥
पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे ॥
इंद्राद्याः पूजनीयाश्च तत्त्वानि पृथिवी जलम् ॥३१॥
तेजो वायुर्व्योम गंधो रसरूपे च शब्दकः ॥
स्पर्शो वाक् पाणि पादं च पायूपस्थं श्रुतित्वचम् ॥३२॥
चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि ॥
पुमान्नागो बुद्धिविद्ये कला कालो नियत्यपि ॥३३॥
माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः ॥
शक्तिः शिवश्च तान्ज्ञात्वा मुक्तो ज्ञानी शिवो भवेत् ॥३४॥
यः शिवः स हरिर्ब्रह्मा सोऽहं ब्रह्मास्मि शङ्कर ॥३५॥
भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत् ॥
हृत्पद्मे सद्योमंत्रः स्यान्निवृत्तिश्च कला इडा ॥३६॥
पिंगला द्वे च नाड्यौ तु प्राणोऽपानश्च मारुतौ ॥
इन्द्रो देहो ब्रह्महेतुश्चतुरस्त्रं च मण्डलम् ॥३७॥
वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः ॥
ह्रृस्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ॥३८॥
ॐ ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् ॥
ॐ ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट् ॥९॥
चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम् ॥३९॥
तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत् ॥
अधोमुखीं ततः पृथ्वीं तत्तच्छुध्दं भवेद्ध्रुवम् ॥४०॥
वामादेवी प्रतिष्ठा च सुषुम्ना धारिका तथा ॥
समानोदानवरुणौ देवता विष्णु कारणम् ॥४१॥
अद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च ॥
एवं कुर्य्यात्कण्ठपद्ममर्द्धचन्द्राख्यमण्डलम् ॥४२॥
पद्मांकितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत् ॥
चतुर्नवत्युच्छ्रयं च आत्मानं च अधोमुखम् ॥४३॥
तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः ॥
नाभ्यो(ड्यो) ष्ठयोर्हस्तिजिह्वाध्यानो नागोग्निदेवता ॥४४॥
रुद्रहेतुस्त्रिरुद्धातास्त्रिगुणा रक्तवर्णकम् ॥
ज्वालाकृते त्रिकोणं च चतुः कोटिशतानि च ॥४५॥
विस्तीर्णं च समुत्सेधं रुद्रतत्त्वं विचिन्तयेत् ॥
ललाटे वै तत्पुरुषः शान्तिर्यः शाद्वलं बुधाः (वृषा) ॥४६॥
कूर्मश्च कृकरो वायुर्देव ईश्वरकारणम् ॥४७॥
द्विरुद्धातो गुणौ द्वौ च धूम्रषट्कोणमण्डलम् ॥४७॥
बिंद्वङ्कितं चाष्टकोटिविस्तीर्णं चोच्छ्रयस्तथा ॥
चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत् ॥४८॥
द्वादशति सरसिजे शान्त्य तीतास्तथेश्वराः ॥
कुहूश्च शङखिनी नाड्यो देवदत्तो धनञ्जयः ॥४९॥
शिखेशानकारणं च सदाशिव इति स्मृतः ॥
गुण एकस्तथोद्धातः शुद्धस्फटिकवत्स्मरेत् ॥५०॥
षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम् ॥
वर्त्तुलं चिंतयेव्द्योम भुतशुद्धिरुदाहृता ॥५१॥
गुणयो गुरुर्बीजगुरुः शक्तयनंतौ च धर्म्मकः ॥
ज्ञानवैराग्यमैश्वर्य्यैस्ततः पूर्वादिपत्रके ॥५२॥
अधोर्द्ध्ववदने द्वे च पद्मकर्णिककेसरम् ॥
वामाद्या आत्मविद्या च सदा ध्यायेच्छिवाख्यकम् ॥५३॥
तत्त्वं शिवासने मूर्त्तिर्ही हौं विद्यादेहाय नमः ॥
बद्धपद्मासनासीनः सितः षोडशवार्षिकः ॥५४॥
पञ्चवक्त्रः कराग्रैः स्वैर्दशभिश्चैव धारयन् ॥
अभयं प्रसादं शक्तिं शूलं खट्वाङ्गमीश्वरः ॥५५॥
दक्षैः करैर्वामकैश्च भुजंगं चाक्षसूत्रकम् ॥
डमरुकं नीलोत्पलं बीजपूरकमुत्तमम् ॥५६॥
इच्छाज्ञानक्रियाशक्तिस्त्रिनेत्रो हि सदाशिवः ॥
एवं शिवार्च्चनध्यानी सर्वदा कालवर्जितः ॥५७॥
इहाहोरा वचारेण त्रीणि वर्षाणि जीवति ॥
दिनद्वयस्य चारेण जीवेद्वर्षद्वयं नरः ॥५८॥
दिनत्रयस्य चारेण वर्षमेकं स जीवति ॥
नाकाले शीतले मृत्युरुष्णे चैव तु कारके ॥५९॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चननिरूपणं नाम त्रयोविंशोऽध्यायः ॥२३॥
॥ (इति शिवादि पूजा समाप्ता) ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP