संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १५३

आचारकाण्डः - अध्यायः १५३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


धन्वन्तरिरुदाच ।
अरोचकनिदान्ते वक्ष्येऽहं सुश्रुताधुना ।
अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः ॥१॥

सन्निपातेन मनसः सन्तापेन च पञ्चमः ।
कषायतिक्तमधुरं वातादिषु मुखं क्रमात् ॥२॥

सर्वं वीतरसं शोकक्रोधादिषु यथा मनः ।
छर्दिदोषैः पृथक्सर्वैर्दुष्टैरन्यैश्च पञ्चमः ॥३॥

उदानोऽधिकृतान्दोषान्सर्वं सन्ध्यर्हमस्यति ।
आशु क्लेशोऽस्य लावण्यप्रसेकारुचयः क्रमात् ॥४॥

नाभिपृष्ठं रुजत्याशु पार्श्वे चाहारमुत्क्षिपेत् ।
ततो विच्छ्रिन्नल्पाल्पकषायं फेनिलं वमेत् ॥५॥

शब्दोद्गरयुतः कृच्छ्रमनुकृच्छ्रेण वेगवत् ।
कासास्यशोषकं वातात्स्वरपीडासमन्वितम् ॥६॥

पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम् ।
सासृगम्लं कटुतिक्तं तृण्मूर्छादाहपाकवत् ॥७॥

कफात्स्निग्धं घनं पीतं श्लेष्मतस्तु समाक्षिकम् ।
मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम् ॥८॥

मखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान् ।
सर्वैर्लिङ्गैः समापन्नस्त्याज्यो भवति सर्वथा ॥९॥

सर्वं यस्य च विद्विष्टं दर्शनश्रवणादिभिः ।
वातादिनैव संक्रुद्धकृमिदुष्टान्नजे गदे ।
शूलवेपतुहृल्लासो विशेषात्कृमिजे भवेत् ॥१०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽरोचकनिदाना नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP