संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ७१

आचारकाण्डः - अध्यायः ७१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
दानवाधिपतेः पित्तमादाय भुजगाधिपः ॥
द्विधा कुर्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥१॥

स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ ॥
राजतः स महानेकः खण्डसेतुरिवाबभौ ॥२॥

ततः पक्षनिपातेन संहरन्निव रोदसी ॥
गरुत्मान्पन्नगेन्द्रस्य प्रहर्त्तुमुपचक्रमे ॥३॥

सहसैव मुमोच तत्फणीन्द्रः सुरसाभ्यक्ततुरुष्क (रष्क) पादपायाम् ॥
कलिकाघनगन्धवासिता यां वरमाणिक्यगिरेरुपत्यकायाम् ॥४॥

तस्य प्रपातसमनन्तरकालमेव तद्वद्वरालयमतीत्य रमासमीपे ॥
स्थानं क्षितेरुपपयोनिधितीरलेखंयां वरमाणिक्यगिरेरुपत्यकायाम् ॥५॥

तत्रैव किञ्चित्पततस्तु पित्तादुपेत्य जग्राह ततो गरुत्मान् ॥
मूर्च्छापरीतः सहसैव घोणारन्ध्रद्वयेन प्रमुमोच सर्वम् ॥६॥

तत्राकठोरशुककण्ठशिरीषपुष्पखद्योतपृष्ठचरशाद्वलशैवलानाम् ॥
कल्हारशष्पकभुजङ्गभुजाञ्च पत्रप्राप्तत्विषो मरकताः शुभदा भवन्ति ॥७॥

तद्यत्र भोगीन्द्रभुजाभियुक्तं पपात पित्तं दितिजाधिपस्य ॥
तस्याकरस्यातितरां स देशो दुः खोपलभ्यश्च गुणैश्च युक्तः ॥८॥

तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते ॥
तत्सर्वं विषरोगाणां प्रशमाय प्रकीर्त्त्यते ॥९॥

सर्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् ॥
महाहिदंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥१०॥

अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम् ॥
जायते तत्पवित्राणामुत्तमं परिकीर्त्तितम् ॥११॥

अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च ॥
काञ्चनचूर्णस्यान्तः पूर्णमिव लक्ष्यते यच्च ॥१२॥

युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम् ॥
सवितुः करसंस्पर्शाच्छुरयति सर्वाश्रमं दीप्त्या ॥१३॥

हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः ॥
अचिरप्रभाप्रभाहतनवशाद्वलसन्निभा भाति ॥१४॥

यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम् ॥
तन्मरकतं महागुणमिति रत्नविदां मनोवृत्तिः ॥१५॥

वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम् ॥
सान्द्रस्निग्धविशुद्धं कोमलबर्हिप्रभादिसमकान्ति ॥१६॥

वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति ॥
तदपि गुणवत्संज्ञामाप्नोति हि यादृशी पूर्वम् ॥१७॥

शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम् ॥
दिग्धं शिलाजतुना मरकतमेवंविधं विगुणम् ॥१८॥

यत्सन्धिशोषितं रत्नमन्यन्मरकताद्भवेत् ॥
श्रेयस्कामैर्न तद्धार्य्यं क्रेतव्यं वा कथञ्चन ॥१९॥

भल्लातकी पुत्रिका च तद्वर्णसमयोगतः ॥
मणेर्मरकतस्यैते लक्षणीया विजातयः ॥२०॥

क्षौमेण वाससा मृष्टा दीप्तिं त्यजति पुत्रिका ॥
लाघवेनैव काचस्य शक्या कर्त्तुं विभावना ॥२१॥

कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुणवर्णैः ॥
भल्लातकस्यस्वनात्तु वैषम्यमुपैति वर्णस्य ॥२२॥

वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्द्विजातयः ॥
तेषां नाप्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥२३॥

ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते ॥
तिर्य्यगालोच्यमानानां सद्यश्चैव प्रणश्यति ॥२४॥

स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ ॥
ददद्भिर्गोहिरण्यानि कुर्वद्भिः साधनानि च ॥२५॥

दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च ॥
बाध्यमानेषु विविधैर्दोषजातैर्विषोद्भवैः ॥२६॥

दौषैर्होनं गुणैर्युक्तं काञ्चनप्रतियोजितम् ॥
संग्रामे विचरद्भिश्च धार्य्यं मरकतं बुधैः ॥२७॥

तुलया पद्मरागस्य यन्मूल्यमुपजायते ॥
लभतेऽभ्यधिकं तस्माद्गुणैर्मरकतं युतम् ॥२८॥

तथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते ॥
ततोऽस्याप्यधिका हानिर्दोषैर्मरकते भवेत् ॥२९॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मरकतपरीक्षणं नामैकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP