आचारकाण्डः - अध्यायः १९७
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
धन्वन्तरिरुवाच ।
गारुडं संप्रवक्ष्यामि गरुडेन ह्युदीरितम् ।
कश्यपाय सुमित्रेण विषहृद्येन गारुडः ॥१॥
पृथिव्यापस्तथा तेजो वायुराकाशमेवच ।
क्षित्यादिष्वेव वर्गाश्च ह्येते वै मण्डलाधिपाः ॥२॥
पञ्चतत्त्वे स्थिता देवाः प्राप्यन्ते विष्णुसेवकैः ।
दीर्घस्वरविभिन्नाश्च नपुंसकविवर्जिताः ॥३॥
सषडङ्गः शिवः प्रोक्तो हृच्छिरश्च शिखा क्रमात् ।
कवचं नेत्रमस्त्रं स्यान्न्यासः स्वस्थलसंस्थितिः ॥४॥
सर्वसिद्धिप्रदस्यान्ते कालवह्निर धोऽनिलः ।
षष्ठस्वरसमायुक्तमर्धेन्दुसंयुतं परम् ॥५॥
परापरविभिन्नाश्च शिवस्योर्ध्वाध ईरिताः ।
रेफेणाङ्गेषु सर्वत्र न्यासं कुर्याद्यथाविधि ॥६॥
हृदि पाणितले देहे कर्णे नेत्रे करोति च ।
जपात्तु सर्वसिद्धिः स्याच्चतुर्वक्त्रसमायुताम् ॥७॥
चतुरश्रां सुविस्तारं पीतवर्णान्तु चिन्तयेत् ।
पृथिवीं चेन्द्रदेवत्यां मध्ये वरुणमण्डलम् ॥८॥
मध्ये पद्मं तथायुक्तमर्धचन्द्रं सुशीतलम् ।
इन्द्रनीलद्युतिं सौम्यमथवाग्नेयमण्डलम् ॥९॥
त्रिकोणं स्वस्थिकैर्युक्तं ज्वालामा लानलं स्मरेत् ।
भिन्नाञ्जननिभाकारं स्ववृत्तं बिन्दुभूषितम् ॥१०॥
क्षीरोर्मिसदृशाकारं शुद्धस्फटिकवर्चसम् ।
प्लावयन्तं जगत्सर्वं व्योमामृतमनुंस्मरेत् ॥११॥
वासुकिः शङ्खपालश्च स्थितौ पार्थिवमण्डले ।
कर्कोटः पद्मनाभश्च वारुणे तौ व्यवस्थितौ ॥१२॥
आग्नेये चापि कुलिकस्तक्षश्चैव महाब्जकौ ।
वायुमण्डलसंस्थौ च पञ्च भूतानि विन्यसेत् ॥१३॥
अङ्गुष्ठादिकनिष्ठान्तमनुलोमविलोमतः ।
पर्वसन्धिषु च न्यस्या जया च विजया तथा ॥१४॥
आस्यादिस्वपुरस्थाने न्यस्याच्छिवपडङ्गकम् ।
कनिष्ठादौ हृदादौ च शिखायां करयोर्न्यसेत् ॥१५॥
व्यापकन्तु तत्वपूर्वं क्रमादङ्गुलिपर्वसु ।
भूतानाञ्च पुनर्न्यासः शिवाङ्गानि तथैव च ॥१६॥
प्रणवादिनमश्चान्ते नाम्नैव च समन्वितः ।
सर्वमन्त्रेषु कथितो विधिः स्थापनपूजने ॥१७॥
आद्याक्षरं तन्नाम्नश्च मन्त्रोऽयं परिकीर्तितः ।
अष्टानां नागजातीनां मन्त्रः सान्निध्यकारकः ॥१८॥
ओं स्वाहा क्रमशश्चैव पञ्चभूतपुरोगतम् ।
एष साक्षाद्भवेत्तार्क्ष्यः सर्वकर्मप्रसाधकः ॥१९॥
करन्यासं स्वरैः कृत्वा शरीरे तु पुनर्न्यसेत् ।
ज्वलन्तं चिन्तयेत्प्राणमात्मसंशुद्धिकारकम् ॥२०॥
बीजन्तु चिन्तयेत्पश्चाद्वर्षान्तममृतात्मकम् ।
एवञ्चाप्यायनं कृत्वा मूर्ध्नि सञ्चिन्त्य चात्मनः ॥२१॥
पृथिवीं पादयोर्दद्यात्तप्तकाञ्चनसप्रभाम् ।
अशेषभुवनाकीर्णां लोकपालसमन्विताम् ॥२२॥
एतां भगवतीं पृथ्वीं स्वदेहे विन्यसेद्बुधः ।
श्यामवर्णमयं ध्यायेत्पृथिवीद्विगुणं भवेत् ॥२३॥
ज्वालामालाकुलं दीप्तमाब्रह्मभुवनान्तकम् ।
नाभिग्रीवान्तरे न्यस्य त्रिकोणं मण्डलं रवेः ॥२४॥
भिन्नाञ्जननिभाकारं निखिलं व्याप्य संस्थितम् ।
आत्ममूर्तिस्थितं ध्यायेद्वायव्यं तीक्ष्णमण्डलम् ॥२५॥
सिखोपरि स्थितं दिव्यं शुद्धस्फटिकवर्चसम् ।
अप्रमाणमहाव्योमव्यापकं चामृतोपमम् ॥२६॥
भूतन्यासं पुरा कृत्वा नागानाञ्च यथाक्रमम् ।
लकारान्ता बिन्दुयुता मन्त्रा भूतक्रमेण तु ॥२७॥
शिवबीजं ततो दद्यात्ततो ध्यायेच्च मण्डलम् ।
योयस्य क्रमाख्यातो मण्डलस्य विचक्षणः ।
तस्य तच्चिन्तयेद्वर्णं कर्मकाले विधानवित् ॥२८॥
पादपक्षैस्तथा चञ्चत्कृष्णनागैर्विभूषितम् ।
तार्क्ष्यं ध्यायेत्ततो नित्यं विषे स्थावरजङ्गमे ॥२९॥
ग्रहभूतपिशाचे च डाकिनीयक्षराक्षसे ।
नागैर्विवेष्टितं कृत्वा स्वदेहे विन्यसेच्छिवम् ॥३०॥
द्विधा न्यासः समाख्यातो नागानां चैव भूतयोः ।
एवं ध्यात्वा कर्म कुर्यादात्मतत्त्वादिकं क्रमात् ॥३१॥
त्रितत्त्वं प्रथं दत्त्वा सिवतत्त्वं ततः परम् ।
यथा देहे तथा देवे अङ्गुलीनां च पर्वसु ॥३२॥
देहे न्यासं पुरा कृत्वा ह्यनुलोमविलोमतः ।
कन्दं नालं तथा पद्मं धर्मं ज्ञानादिमेव च ॥३३॥
द्वितीयस्वरसम्भिन्नं वर्गान्तेन तु पूजयेत् ।
शौमिति कर्णिकामध्ये मूर्ध्नि रेफेण संयुतम् ॥३४॥
अकचटतपयशा वर्गाः पूर्वादिके न्यसेत् ।
पत्रान्तकेसरान्ते तु द्वौ द्वौ पूर्वादिकौ तथा ॥३५॥
केशरे तु स्वरान्न्यस्यादीशान्तान्षोडशार्चयेत् ।
वामाद्याः शक्तयः प्रोक्तास्त्रितत्त्वन्तु ततो न्यसेत् ॥३६॥
आवाहयेत्ततो मर्ध्नि शिवमङ्गं ततः परम् ।
कर्णिकायां न्यसेद्देवं सांगं तत्र पुरः सरम् ॥३७॥
पृतिवी पश्चिमे पत्रे आपश्चोत्तरसंस्थिताः ।
तेजस्तु दक्षिणे पत्रे वायुं पूर्वेण पूजयेत् ॥३८॥
स्वबीजं मूर्तिरूपन्तु प्रागुक्तं पारकल्पयेत् ।
यं वायुमूलं नैरृत्ये रेफस्त्वनलसंस्थितः ॥३९॥
वं च त्वीशे सदा पूज्य ओं हृदिस्थञ्च पूजयेत् ।
तन्मात्रान्भूतमात्रांस्तान्बहिरेव प्रपूजयेत् ॥४०॥
शिवाङ्गानि ततः पश्चाद्ध्यात्वा संपूजयेत्ततः ।
आग्नेय्यां हृदयं पूज्य शिर ईशानगोचरे ॥४१॥
नैरृत्ये तु शिखां दद्याद्वायव्यां कवचं न्यसेत् ।
अस्त्रन्तु बाह्यतो दद्यान्नेत्रमुत्तरसंस्थितम् ॥४२॥
पत्राग्रे कर्णिकग्रे तु बीजानि परिपूजयेत् ।
अनन्तादिकुलीरान्ता अष्टौ नागाः क्रमात्स्थिताः ॥४३॥
पूर्वादिकक्रमेणैव त्वीशपर्यन्तमेव च ।
पूजयेच्च सदा मन्त्री विधानेन पृथक्पृथक् ॥४४॥
हृदि पद्मे विधानेन शिलादौ दत्तमण्डले ।
एतत्कार्यं समुद्दिष्टं नित्यनैमित्तिकेऽपि च ॥४५॥
आत्मानं चिन्तयेन्नित्यं कामरूपं मनोहरम् ।
प्लावयन्तं जगत्सर्वं सृष्टिसंहारकारकम् ॥४६॥
ज्वालामालाभिरुद्दीप्तं आब्रह्मभुवनान्तकम् ।
दशबाहुं चतुर्वक्त्रं पिङ्गाक्षं शूलपाणिनम् ॥४७॥
दंष्ट्राकरालमत्युग्रं त्रिनेत्रं शशिशेखरम् ।
भैरवन्तु स्मरेत्सिद्ध्यै गरुडं सर्वकर्मसु ॥४८॥
नागानां नाशनार्थाय गरुडं भीमभीषणम् ।
पादौ पातालं संस्थौ च दिशः पक्षास्तु संश्रिताः ॥४९॥
सप्त स्वर्गा उरसि च ब्रह्माण्डं कण्ठमाश्रितम् ।
पूर्वादीशानपर्यन्तं शिरस्तस्य विचिन्तयेत् ॥५०॥
सदाशिवशिखान्तस्थं शक्तित्रितयमेव च ।
परात्परं शिवं साक्षात्तार्क्ष्यं भुवननायकम् ॥५१॥
त्रिनेत्रमुग्ररूपञ्च विषनागक्षयङ्करम् ।
ग्रसनं भीमवक्त्रं च गरुडं मन्त्रविग्रहम् ॥५२॥
कालाग्निमिव दीप्तं च चिन्तयेत्सर्वकर्मसु ।
एवं न्यासविधिं कृत्वा यद्यन्मनसि चिन्तयेत् ॥५३॥
तत्तदेव भवेत्साध्यं नरो वै गरुडायते ।
प्रेता भूतास्तथा यक्षा नागा गन्धर्वराक्षसाः ।
दर्शनात्तस्य नश्यन्ति ज्वराश्चातुर्थिकादयः ॥५४॥
धन्वन्तरिरुवाच ।
एवं स गरुडं प्रोचे गरुडः कश्यपाय च ।
महेश्वरो यथा गौरीं प्राह विद्यां तथा शृणु ॥५५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तनवत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP