आचारकाण्डः - अध्यायः ३३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥रुद्र उवाच ॥
सुदर्शनस्य पूजां मे वद शङ्खगदाधर ॥
ग्रहरोगादिकं सर्वं यत्कृत्वा नाशमेति वै ॥१ ॥
हरिरुवाच ॥
सुदर्शनस्य चक्रस्य श्रृणु पूजां वृषध्वज ॥
स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं तत ॥२ ॥
मूलमन्त्रेण वै न्यासं मूलमन्त्रं श्रृणुष्व च ॥
सहस्रारं हुं फट् नमो मन्त्रः प्रणवपूर्वकः ॥३ ॥
कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः ॥
ध्यायेत्सुदर्शनं देवं हृदि पद्मेऽमले शुभे ॥४ ॥
शङ्कचक्रगदापद्मधरं सौम्यं किरीटिनम् ॥
आवाह्य मण्डले देवं पूर्वोक्तविधिना हर ॥५ ॥
पूजयेद्रन्धपुष्पाद्यैरुपचारैर्महेश्वर ॥
पूजयित्वा जपेन्मन्त्रं शतमष्टोत्तरं नरः ॥६ ॥
एवं यः कुरुते रुद्र ! चक्रस्यार्चनमुत्तमम् ॥
सर्वरोगविनिर्मुक्तो विष्णुलोकं समाप्नुयात् ॥७ ॥
एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम् ॥
नमः सुदर्शनायैव सहस्रादित्यवर्चसे ॥८ ॥
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे ॥
सर्वदुष्टविनाशाय सर्वपातकमर्दिने ॥९ ॥
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने ॥
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ॥१० ॥
पालनार्थाय लोकानां दुष्टासुरविनाशिने ॥
उग्राय चैव सौम्याय चण्डाय च नमोनमः ॥११ ॥
नमश्चक्षुः स्वरूपाय संसारभयभेदिने ॥
मायापञ्जरभेत्रे च शिवाय च नमोनमः ॥१२ ॥
ग्रहातिग्रहरूपाय ग्रहाणां पतेय नमः ॥
कालाय मृत्यवे चैव भीमाय च नमोनमः ॥१३ ॥
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमोनमः ॥
विष्णुरूपाय शान्ताय चायुधानां धराय च ॥१४ ॥
विष्णुशस्त्राय चक्राय नमो भूयो नमोनमः ॥
इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्त्तितम् ॥१५ ॥
यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति ॥
चक्रपूजाविधिं यश्च पठेद्रुद्र जितेन्द्रियः ॥
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥१६ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सुदर्शनपूजाविधिर्नाम त्रयस्त्रिंशोऽध्यायः ॥३३ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP