संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २३२

आचारकाण्डः - अध्यायः २३२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ।
कुलामृतं प्रवक्ष्यामि स्तोत्रं यत्तु हरोऽब्रवीत् ।
पृष्टः श्रीनारदेनैव नारदाय तथा शृणु ॥१॥

नारद उवाच ।
यः संकारे सदा द्वन्द्वैः कामक्रोधैः शुभाशुभैः ।
शब्दादिविषयैर्बद्धः पीड्यमानः स दुर्मतिः ॥२॥

क्षणं विमुच्यते जन्तुर्मृत्युसंसारसागरात् ।
भगवञ्छ्रोतुमिच्छामि त्वत्तो हि त्रिपुरान्तक ॥३॥

तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः ।
उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥४॥

महेश्वर उवाच ।
ज्ञानामृतं परं गुह्यं रहस्यमृषिसत्तम ।
वक्ष्यामि शृणु दुः खघ्नं भवबन्धभयामहम् ॥५॥

तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् ।
चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥६॥

तस्य विष्णो प्रिसादेन यदि कश्चित्प्रबुध्यते ।
स निस्तरति संसारं देवानामपि दुस्तरम् ॥७॥

भोगैश्वर्यमदोन्मत्तस्ततत्त्वज्ञानपराङ्मुखः ।
पुत्रदारकुटुम्बेषु मत्ताः सीदन्तिजन्तवः ॥८॥

सर्व एकार्णवे मग्ना जीर्णा वनगजा इव ।
यस्त्वाननं निबध्नाति दुर्मतिः कोशकारवत् ॥९॥

तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि ।
तस्मान्नारद सर्वेषां देवानां देवमव्ययम् ।
आराधयेत्सदा सम्यगध्यायेद्विष्णुं मुदान्वितः ॥१०॥

यस्तु विश्वमनाद्यन्तमजमात्मनि संस्थितम् ।
सर्वज्ञमचलं विष्णुं सदा ध्यायेत्समुच्यते ॥११॥

देवं गर्भोचितं विष्णुं सदा ध्यायन्विमुच्यते ।
अशिरीरं विधातारं सर्वज्ञानमनोरतिम् ।
अचलं सर्वगं विष्णुं सदा ध्यायन्विमुच्यते ॥१२॥

निर्विकल्पं निराभासं निष्प्रपञ्चं निरामयम् ।
वासुदेवं गुरुं विष्णुं सदा ध्यायन्विमुच्यते ॥१३॥

सर्वात्मकञ्च वै यावदात्मचैतन्यरूपकम् ।
शुभमेकाक्षरं विष्णुं सदा ध्यायन्विमुच्यते ॥१४॥

वाक्यातीतं त्रिकालज्ञं विश्वेशं लोकसाक्षिणम् ।
सर्वस्मादुत्तमं विष्णुं सदा ध्यायन्विमुच्यते ॥१५॥

ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः ।
योगिभिः सेवितं विष्णुं सदा ध्यायन्विमुच्यते ॥१६॥

संसारबन्धनामुक्तिमिच्छंल्लोको ह्यशेषतः ।
स्तुत्वैवं वरदं विष्णुं सदा ध्यायन्विमुच्यते ॥१७॥

संसारबन्धनात्कोऽपि मुक्तिमिच्छन्समाहितः ।
अनन्तमव्ययं देवं विष्णं विश्वप्रतिष्ठितम् ।
विश्वेश्वरमजं विष्णुं संदा ध्यायन्विमुच्यते ॥१८॥

सूत उवाच ।
नारदेन पुरा पृष्ट एवं स वृषभध्वजः ।
येत्तेन तस्मै व्याख्यातं तन्मया कथितं तव ॥१९॥

तमेव सततन्ध्यायन्निर्व्ययं ब्रह्म निष्कलम् ।
अवाप्स्यसि ध्रुवं तात ! शाश्वतं पदमव्ययम् ॥२०॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।
क्षणमेकाग्रचित्तस्य कलां नार्हन्ति षोडशीम् ॥२१॥

श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् ।
स विष्णुं सम्यगाराध्य सिद्धः पदमवाप्तवान् ॥२२॥

यः पठेच्छृणुयाद्वा पि नित्यमेव स्तवोत्तमम् ।
कोटिजन्मकृतं पापमपि तस्य प्रणश्यति ॥२३॥

विष्णोः स्तवमिदं दिव्यं महादेवेन कीर्तितम् ।
प्रयत्नाद्यः पठेन्नित्य ममृतत्वं स गच्छति ॥२४॥

इति श्रीगारुडे महापुराणे कुलामृतस्तोत्रं नाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP