आचारकाण्डः - अध्यायः २०३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
या गौर्द्वेष्टिं स्वकं वत्सं तस्या देयं स्वकं पयः ।
लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत् ॥१॥
शुनोऽस्थि कण्ठबद्धं हि महिषाणां गवा तथा ।
कृमिजालं पातयति सकलं नात्र संशयः ॥२॥
गोजङ्गनाभिपातः स्याद्गुञ्जामूलस्य भक्षणात् ॥३॥
वरुणफलस्यरसं करेण मथितं शिव ।
चतुष्पादद्विपदयोः कृमिजालं निपातयेत् ॥४॥
व्रणञ्च शमयेद्रुद्र जयायाः पूरणात्तथा ।
गजमूत्रस्य वै पानं गोमहिष्युपसर्गनुत् ॥५॥
समसूर शालिबीजं पीतं तक्रेण घर्षितम् ।
क्षीरे गोमहीषस्यैव गोः पुंसश्च हितं भवेत् ॥६॥
पत्रञ्च शरपुङ्खाया दत्तं सलवणं शिव ।
वारिस्फोटं हयानाञ्च केसराणां विनाशयेत् ॥७॥
घृतकुमारीपत्रमेव दत्तं सलक्षणं हर ।
तुरगमकेसराणां कण्डूनंश्येन्न संशयः ॥८॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानौषधप्रयोगनिरूपणं नाम त्र्युत्तरद्विशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP