आचारकाण्डः - अध्यायः १३३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
ब्रह्मोवाच ।
अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥१॥
त्वामशोक ! हराभीष्ट ! मधुमाससमुद्भव ।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥२॥
(इत्यशोकाष्टमीव्रतम्) ।
ब्रह्मोवाच ।
शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युता ।
सा महानवमीत्युक्ता स्नानदानादि चाक्षयम् ॥३॥
नवमी केवला चापि दुर्गां चैव तु पूजयेत् ।
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ॥४॥
अयाचितादि षष्ठ्यादौ राजा शत्रुजयाया च ।
जपहोमसमायुक्तः कन्यां वा भोजयेत्सदा ॥५॥
दुर्गेदुर्गे रक्षिणि स्वाहा मन्त्रोऽयं पूजनादिषु ।
दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽन्तिकाः ॥६॥
षड्भिः पदैर्नमः स्वाहा वषडादिहृदादिकम् ।
अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पृजयेच्छिवाम् ॥७॥
अष्टम्यां नव गेहानि दारुजान्येकमेव वा ।
तस्मिन्देवी प्रकर्तव्या हैमी वाराजतापि वा ॥८॥
शूले खङ्गे पुस्तके वा पटे वा मण्डले (पे) यजेत् ।
कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः ॥९॥
ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रती ।
शक्तिं च मुद्गरं शूलं वज्रं खङ्गं तथाङ्कुशम् ॥१०॥
शरं चक्रं शलाकां च दुर्गामायुधसंयुताम् ।
शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना ॥११॥
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥१२॥
नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः ।
रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका ॥१३॥
पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा ।
म (मा) हिषोऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः ॥१४॥
जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते ।
पञ्च (ञ्चा) दशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत् ।
लिङ्गस्यां पूजयेद्वापि पादुकेऽथ जलेऽपि वा ॥१५॥
विचित्रां रक्षयेत्पूजामष्टम्यामुपवासयेत् ।
पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत् ॥१६॥
विधिवत्कालिकालीति तदुत्थरुधिरादिकम् ।
नेरृत्यां पूतनां चैव वायव्यां पापराक्षसीम् ॥१७॥
दद्याच्चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम् ॥१८॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवमीव्रतं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP