संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ३

आचारकाण्डः - अध्यायः ३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
इति रुद्राब्जजौ विष्णोः शुश्राव ब्रह्मणो मुनिः ॥
व्यासो व्यासादहं वक्ष्येहं ते शौनक नैमिषे ॥१॥

मुनीनां श्रृण्वतां मध्ये सर्गाद्यं देवपूजनम् ॥
तीर्थं भुवनकोशं च मन्वन्तरमिहोच्यते ॥२॥

वर्णाश्रमादिधर्माश्च दानराज्यादिधर्मकाः ॥
व्यवहारो व्रतं वंशा वैद्यकं सनिदानकम् ॥३॥

अंगानि प्रलयो धर्मकामार्थज्ञानमुत्तमम् ॥
सप्रपञ्चं निष्प्रपञ्चं कृतं विष्णोर्निगद्यते ॥४॥

पुराणे गारुडे सर्वं गरुडो भगवानथ ॥
वासुदेवप्रसादेन सामर्थ्यातिशयैर्युतः ॥५॥

भुत्वा हरेर्वाहनं च सर्गादीनां च कारणम् ॥
देवान्विजित्य गरुडो ह्यमृताहरणं तथा ॥६॥

चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः ॥
यं दृष्ट्वा स्मृतमात्रेण नागादीनां च संक्षयम् ॥७॥

कश्यपो गारुडाद्वृक्षं दग्धं चाजीवयद्यतः ॥
गरुडः स हरिस्तेन प्रोक्तं श्रीकश्यपाय च ॥८॥

तच्छ्रीमद्रारुडं पुण्यं सर्वदं पठतस्तव ॥
वक्ष्ये व्यासं नमस्कृत्य श्रृणु शौनक तद्यथा ॥९॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयोऽध्यायः ॥३ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP