आचारकाण्डः - अध्यायः २४०
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
पुराणं गारुडं रुद्र प्रोक्तं सारं मयातव ।
ब्रह्मादीनां शृण्वतां च भुक्तिमुक्तिप्रदायकम् ॥१॥
विद्याकीर्तिप्रभालक्ष्मीजयारोग्यादिकारकम् ।
यः पठेच्छृणुयाद्रुद्र सर्ववित्स दिवं व्रजेत् ॥२॥
ब्रह्मोवाच ।
इति व्यास मया विष्णोः पुराणं मुक्तिदं श्रुतम् ।
व्यास उवाच ।
श्रुत्वैतद्गारुडं पुण्यं ब्रह्मास्मानित्युवाच ह ॥३॥
दक्षनारद मुख्यादिन् ब्रह्म ध्यान्हरिं गतः ।
मयापि तुभ्यं सूतेन पुराणं कथितं परम् ॥४॥
यच्छ्रुत्वा सर्ववित्प्राप्तकामो ब्रह्म फलं भवेत् ।
विष्णुः सारतमंप्राह गरुडं गारुडं ततः ॥५॥
महासारं धर्मकामधनमोक्षादिदायकम् ।
सूत उवाच ।
शौनक प्रवरं प्रोक्तं पुराणं गारुडं तव ॥६॥
यदब्रवीत्पुरा व्यासः सारं मां गारुडेरितम् ।
व्यासः श्रुत्वा ब्रह्मणश्च पुराणं गारुडं शुभम् ।
देवं ध्यायन्वेदमेकं चतुर्धा व्यभजद्धरिः ॥७॥
अष्टादशपुराणानि तानि मां प्राह वै शुकः ।
इदं तु गारुडं श्रेष्ठं मया ते शौनकेरितम् ॥८॥
मुनीनां शृण्वतां मध्ये पृच्छतः सर्ववाचकम् ।
यः पठेच्छणुयाद्वापि श्रावयेद्वा समाहितः ॥९॥
संलिखेल्लेखयेद्वापि धारयेत्पुस्तके ननु ।
धर्मार्थो प्राप्नुयाद्धर्मर्थार्थो चार्थमाप्नुयात् ॥१०॥
कामा नवाप्नुयात्कामी मोक्षार्थो मोक्षमाप्नुयात् ।
यद्यदिच्छति तत्सर्वं गारुडश्रवणाल्लभेत् ॥११॥
ब्राह्मणो वेदपारस्य गन्ता स्यान्नात्र संशयः ।
क्षत्त्रियो क्षत्त्रियस्यापि रक्षिता भवतीह च ॥१२॥
नान्यस्य श्रवणं हि स्यात्पुराणं वेदसंमितम् ।
वदेद्यदि स मूढात्मा कीर्तिहानिमवाप्नुयात् ॥१३॥
अन्यस्मै च वदेद्विद्वान् ब्राह्मणोन्तरितो य दि ।
ब्राह्मणान्तरितै सर्वैः श्रोतव्यं गारुडं त्विदम ॥१४॥
यथा विष्णुस्तथा तार्क्ष्यस्तार्क्ष्यस्तोत्राद्धरिः स्तुतः ।
गारुडं वसुराजश्च श्रुत्वा सर्वमवाप ह ॥१५॥
वरुरुवाच ।
नमस्यामि महाबाहुं खगेद्र हरिवाहनम् ।
विष्णोर्ध्वसंस्थानं वित्रासितमहासुरम् ॥१६॥
नमस्ते नागदर्पघ्न विनतानन्दवर्धन ।
सुपक्षपात निद्दभ दीनदैत्यनिरीक्षित ॥१७॥
परस्परस्य शापेन सुप्रतीकविभावसू ।
गजकच्छपतां प्राप्तौ भ्रातरौचैव संयुतौ ॥१८॥
यदुच्छ्रितौ योजनानि जस्तद्द्विगुणायतः ।
कूर्मस्त्रियोजनोत्सोधा शतयोजनवमडलः ॥१९॥
न खाद्यौ तौ त्वयानीचौ चतुर्भुजौ च पक्षिप? ।
परस्परकृताच्छापदोषाच्च परिमोचितौ ॥२०॥
निषाददेशस्वादेन देवं ब्रूस्मानिदितम्? ।
विषादीशस्ततो मुक्तस्तत्रापि ब्राह्मणस्त्वया ॥२१॥
वटारोहिणवृक्षस्य योजनानां शतायुता ।
शाखा भिन्ना त्वया यत्र वालखिल्याः समास्थिताः ॥२२॥
त्वया यत्नकृता कृत्वानखस्थौ गजकच्छपौ ।
नभस्पपिनिरालंबे सर्वतः परिवारितौ ॥२३॥
त्वया जिता रणे देवाः सर्वे शक्रपुरोगमाः ।
आहृतं तत्पुरा सोमं वाह्निं निर्वाप्य काश्यपे ॥२४॥
नागौ दृष्टिविषौ कृत्वा रजसा तु विचक्षुषौ ।
तीक्ष्णाग्रेण न सा भङ्क्त्वाविक्रवेतौ मनोहतः? ॥२५॥
आहृत्यापि त्वया सोमं नीतमेव न भक्तितः ।
तेन विष्णोर्ध्वजस्थानं वाहनत्वं गतो ह्यसि ॥२६॥
त्वया निः क्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः ।
जहार चामृतं पात्रं शीघ्रं वै ब्रह्मसूदन ॥२७॥
यत्र जिह्वाद्विधाभूताः पन्नगानां द्विजोत्तम ।
विनता मोचिता दास्यात्कद्वा पूर्वजिता रणे ॥२८॥
उच्चैः श्रवाः स किंवर्णः शुक्ल इत्येव भाषते ।
कृष्णवर्णमहं मन्ये पूर्वदृष्टमुवाच ह ॥२९॥
त्वया वज्रपहारेण पक्षमुक्तं पुरा स्वतः? ।
दधीचवज्रशक्राणां मातुरर्थाय नान्यथा ॥३०॥
तस्य पक्षस्य देवेन्द्रो यदानीतं हि दृष्टवान् ।
तदा तव सुपर्णोति नाम स्थानं जगत्त्रये ॥३१॥
ध्यानमात्राद्विनश्येत्तु विषं स्थावरजङ्गमम् ।
पठेद्वा शृणुयाद्यश्च भुक्तिं मुक्तिमवाप्नुयात् ॥३२॥
सूत उवाच ।
वसुराजो गारुडं वै श्रुत्वा सर्वमवाप्तवान् ।
गरुडो भगवान्विष्णुध्यांयन्सर्ववाप्तवान् ॥३३॥
तदुक्तं गारुडं पुण्यं पुराणं यः पठेन्नरः ।
सर्वकाममवाप्याथ प्राप्नोति परमां गतिम् ॥३४॥
श्लोकपादं पठित्वा च सर्वपापक्षयो भवेत् ।
यस्येदं वर्तते गेह तस्य सर्वं भवेदिह ॥३५॥
गारुडं यस्य हस्ते तु तस्य हस्तगतो नयः ।
यः पठेच्छृणुयादेतद्भुक्तिं मुक्तिं समाप्नुयात् ॥३६॥
धर्मार्थकाममोक्षांश्च प्राप्नुयाच्छ्रवणादितः ।
पुत्रार्थो लभते पुत्रान् कामार्थो काममाप्नुयात् ॥३७॥
विद्यार्थो लभते विद्यां जयार्थो लभते जयम् ।
ब्रह्महत्यादिना पापी पापशुद्धिमवाप्नुयात् ॥३८॥
वन्ध्यापि लभते पुत्त्रं कन्या विन्दति सत्पतिम् ।
क्षेमार्थो लभते क्षेमं बोगार्थो बोगमाप्नुयात् ॥३९॥
मङ्गलार्थो मङ्गलानि गुणार्थो गुणमाप्नुयात् ।
काव्यार्थो च कवित्वं च सारार्थो सारमाप्नुयात् ॥४०॥
ज्ञानार्थो लभते ज्ञानं सर्वसंसारमर्दनम् ।
इदं स्वस्त्ययनं धन्यं गारुडं गरुडेरितम् ॥४१॥
नाकाले मरणं तस्य श्लोकमेकं तु यः पठेत् ।
श्लोकार्धपठनादस्य दुष्टशत्रुक्षयो ध्रुवम् ॥४२॥
सूताच्छ्रुत्वा शौनकस्तुनौमिषे मुनिभिः क्रतौ ।
अहं ब्रहेति संध्यायन्मुक्तोभूद्गरुडध्वजात् ॥४३॥
ॐ
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे गरुडपुराणमाहात्म्यं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः
शुभं भूयात् ।
इति श्रीगारुडे प्रथमांश आचारकाण्डः समाप्तः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP