आचारकाण्डः - अध्यायः ६८
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥ सूत उवाच ॥
परिक्षां वच्मिरत्नानां बलो नामासुरोऽभवत् ॥
इन्द्राद्या निर्जितास्तेन विजेतुं तैर्न शक्यते ॥१॥
वरव्याजेन पशुतां याचितः स सुरैर्मखे ॥
बलो ददौ स (स्व) पशुतामतिसत्त्व सुरैर्हतः ॥२॥
पशुवत्स विशस्तस्तैः स्ववाक्याशनियन्त्रितः ॥
बलो लोकोपराय देवानां हितकाम्यया ॥३॥
तस्य सत्त्वविशुद्धस्य विशुद्धेन च कर्मणा ॥
कायस्यावयवाः सर्वे रत्नबीजत्वमाययुः ॥४॥
देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ॥
रत्नबीजंस्व(जम)यं ग्राहः सुमहानभवत्तदा ॥५॥
तेषां तु पततां वेगाद्विमानेन विहायसा ॥
यद्यत्पपात रत्नानां बीजं क्वचन किञ्चन ॥६॥
महोदधौ सरिति वा पवर्त काननेऽपि वा ॥
तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥७॥
तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च ॥
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥८॥
वज्रं मुक्तामणयः सपद्मरागाः समरकताः प्रोक्ताः ॥
अपि चेन्द्रनीलमणिवरवैदूर्य्याः पुष्परागाश्च ॥९॥
कर्केतनं सपुलकं रुधिराख्यसमन्वितं तथा स्फटिकम् ॥
विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥१०॥
आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च ॥
मूल्यं च रत्नकुशलैर्विज्ञेयं सर्वशास्त्राणाम् ॥११॥
कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि ॥
दौषैस्तान्यपियुज्यन्ते हीयन्ते गुणसम्पदा ॥१२॥
परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा ॥
धारणं संग्रहो वापि कार्य्यः श्रियमभीप्सता ॥१३॥
शास्त्रज्ञाः कुशलाश्चापि रत्नभाजः परीक्षकाः ॥
त एव मूल्यमात्राया वेत्तारः परिकीर्त्तिताः ॥१४॥
महा प्रभावं विबुधैर्यस्यमाद्वज्रमुदाहृतम् ॥
वज्रपूर्वा परीक्षेयं ततोऽस्माभिः प्रकीर्त्त्यते ॥१५॥
तस्यास्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव ॥
वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नानाकृतिमन्ति तेषु ॥१६॥
हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोशलाः ॥
वेण्वातटाः ससौवीरा वज्रस्याष्ट विहारकाः ॥१७॥
आताम्रा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे त्वसिताब्जमेघसदृशास्ताभ्राश्च सौराष्ट्रजाः ॥
कालिङ्गाः कन कावदातरुचिराः पीतप्रभाः कोसले श्यामाः पुंड्रभवा मतंगविषये नात्यन्तपीतप्रभाः ॥१८॥
अत्यर्थं लघु वर्णतश्च गुणवत्पार्श्वेषु सम्यक् समंरेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम् ॥
लोकेऽस्मिन्परामाणुमात्रमपि यद्वज्रं क्वचिदॄश्यते तस्मिन्देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं यदि ॥१९॥
वज्रेषु वर्णयुक्त्या देवानामपि विग्रहः प्रोक्तः ॥
वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव ॥२०॥
हरितसितपीतपिंगश्यामास्ताम्राः स्वभावतो रुचिराः ॥
हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका वर्णाः ॥२१॥
विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात्क्षत्त्रियस्य शशबभ्रुविलोचनाभः ॥
वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः ॥२२॥
द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ॥
यः स्याज्जवाविद्रुमभङ्गशोणो यो वा हरिद्रारसन्निकाशः ॥२३॥
ईशत्वात्सर्ववर्णानां गुणवत्सार्ववर्णिकम्॥
कामतो धारयेद्राजा न त्वन्योऽन्यत्कथञ्चन ॥२४॥
अधरोत्तरवृत्तया हि यादृक् स्याद्वर्णसङ्करः ॥
ततः कष्टतरो वज्रवर्णानां सङ्करो मतः ॥२५॥
न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः ॥
गुणवद्गुणसम्पदां विभूतिर्विपरीतो व्यसनोदयस्य हेतुः ॥२६॥
एकमपि यस्य श्रृङ्गं विदलितमवलोक्यते विशीर्णं वा ॥
गुणवदपि तन्न धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवने ॥२७॥
स्फुटिताग्निवि शीर्णश्रृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम् ॥
न हि वज्रभृतोऽपि वज्रमाशु श्रियमप्याश्रयलालसां न कुर्य्यात् ॥२८॥
यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम् ॥
न तन्न कुर्य्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥२९॥
कोट्यः पार्श्वनि धाराश्च षडष्टौ द्वादशेति च ॥
उत्तुङ्गसमतीक्ष्णाग्राः वज्रस्याकरजा गुणाः ॥३०॥
षट्कोटि शुद्वममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेतदोषम् ॥
इन्द्रायुधांशुविसृतिच्छुरितान्तरिक्षमेवंविधं भुवि भवेत्सुलभं न वज्रम् ॥३१॥
तीक्ष्णाग्रं विमलमपेतसर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् ॥
वृद्धिस्तं प्रतिदिनमेति यावदायुः स्त्रीसम्पत्सुतधनधान्यगोपशूनाम् ॥३२॥
व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च ॥
दूरात्तस्य निवर्त्तन्ते कर्माण्याथर्वणानि च ॥३३॥
यदि वज्रमपेतसर्वदोषं बिभृयात्तण्डुलविंशतिं गुरुत्वे ॥
मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्रमूल्यम् ॥३४॥
त्रिभागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः ॥
अशीतिभागोऽथ शतांशभागः सहस्त्रभागोऽल्पसमानयोगः ॥३५॥
यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम् ॥
द्वाभ्यां क्रमाद्वानिमुपागतस्य त्वेकावमानस्य विनिश्चयोऽयम् ॥३६॥
न चापि तण्डुलैरेव वज्राणां धरणक्रमः ॥
अष्टाभिः सर्षपैर्गैरैस्तंण्डुलं परिकल्पयेत् ॥३७॥
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि ॥
रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥३८॥
अल्पेनापि हि दोषेण लक्ष्यालक्ष्येण द्वषितम् ॥
स्व (स) मूल्याद्दशमं भागं वज्रं लभति मानवः ॥३९॥
प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा ॥
स्व (सु) मूल्याच्छतशो भागो वज्रस्य न विधीयते ॥४०॥
स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते ॥
रत्नानां परिकर्मार्थं मूल्यं तस्य भवेल्लघु ॥४१॥
प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम् ॥
अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्न भूषणाय ॥४२॥
नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या ॥
अन्यत्र दीर्घाचिपिटत्र्यश्राद्यगुणैर्वियुक्ताच्च ॥४३॥
अयसा पुष्परागेण तथा गोमेदकेन च ॥
वैदूर्य्यस्फटिकाभ्यां च काचैश्चापि पृथग्विधैः ॥४४॥
प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः ॥
परीक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः ॥४५॥
क्षारोल्लेखनशाणाभिस्तेषां कार्य्यं परीक्षणम् ॥
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥४६॥
सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते ॥
गुरुता सर्वरत्नानां गौरवाधारकारणम् ॥४७॥
वज्रे तां वैपरीत्येन सूरयः परिचक्षते ॥
जातिरजातिं विलिखति जातिं विलिखंति वज्रकुरुविन्दाः ॥४८॥
वज्रैर्वज्रं विलिखति नान्येन विलिख्यते वज्रम् ॥
वज्राणि मुक्तामणयो ये च केचन जातयः ॥४९॥
न तेषां प्रतिबद्धानां भवत्यूर्द्ध्वगामिनी ॥
तिर्य्यक्क्षतत्वात्केषाञ्चित्कथञ्चिद्यदि जायते ॥
तिर्य्यग्विलिख्यमानानां सा (स) पार्श्वेषु विहन्यते ॥५०॥
यद्यपि विशीर्णकोटिः स बिन्दुरेखान्वितो विवर्णो वा ॥
तदपि धनधान्यपुत्रान्करोति सेन्द्रायुधो वज्रः ॥५१॥
सौदा मिनीविस्फुरिताभिरामं राजा यथोक्तं कलिशं दधानः ॥
पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति ॥५२॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाष्टषष्टितमोऽध्यायः ॥६८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP