संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १०५ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १०५ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १०५ Translation - भाषांतर विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ॥अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥१॥तस्माद्यत्नेन कर्त्तव्यं प्रायश्चित्तं विशुद्धये ॥एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥२॥लोकः प्रसीदेदात्मैवं प्रायश्चित्तैरघक्षयः ॥प्रायश्चित्तमकुर्वाणाः पश्चात्तापविवर्जिताः ॥३॥नरकान्यान्ति पापा वै महारौरवरौरवान् ॥तामिस्रं लोहशङ्कुं च पूतिगन्धसमाकुलम् ॥४॥हंसाभं लोहितोदं च सञ्जीवननदीपथम् ॥महानिलयकाकोलमन्धतामिस्रवापनम् ॥५॥अविचीं कुम्भीपाकं च यान्ति पापा ह्यपुण्यतः ॥ब्रह्महा मद्यपः स्तेयी संयोगी गुरुतल्पगः ॥६॥गुरुनिन्दा वेदनिन्दा ब्रह्महत्यासमे ह्युभे ॥निषिद्धभक्षणं जिह्मक्रियाचरणमेव च ॥७॥रजस्वलामुखास्वादः सुरापानसमानि तु ॥अश्वरत्नादिहरणं सुवर्णस्तेयसम्मितम् ॥८॥सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ॥सगोत्रासु तथा स्त्रीषु गुरुतल्पसमं स्मृतम् ॥९॥पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि ॥मातुः सपत्नीं भगिनीमाचार्य्यतनयां तथा ॥१०॥आचार्य्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ॥छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा ॥११॥गोवधो व्रात्यतास्तेयमृणानां च परिक्रिया ॥अनाहिताग्निताऽपण्यविक्रयः परिवेदनम् ॥१२॥भृत्याचाध्ययनादानं भृतकाध्यापनमन्तथा ॥पारदार्य्यं पारिवित्त्यं वार्द्धुष्यं लवणक्रिया ॥१३॥सच्छूद्रविट्क्षत्त्रबन्धोर्निन्दितार्थोपजीविता ॥नास्तिक्यं व्रतलोपश्च शूल्यं गोश्वेव विक्रयः ॥१४॥पितृमातृसुहृत्त्यागस्तडागारामविक्रयः ॥कन्यायादूषण चैव परिविन्दकयाजनम् ॥१५॥कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ॥१६॥स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥असच्छास्त्राभिगमनं भार्य्यात्मपरिवि क्रयः ॥१७॥उपपापानि चोक्तानि प्रायश्चित्तं निबोधत ॥शिरः कपालध्वजवान् भिक्षाशी कर्म वेदयन् ॥१८॥ब्रह्महा द्वादश समा मितभुक् शुद्धिमाप्नुयात् ॥लोमभ्यः स्वाहेति च वा लोमप्रभृति वै तनुम् ॥१९॥मज्जान्तां जुहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम् ॥शुद्धिः स्याद्ब्राह्मणत्राणात्कृत्वैवं शुद्धिरेव च ॥२०॥निरातङ्कं द्विजं गां च ब्राह्मणार्थे हतोऽपि वा ॥अरण्ये नियतो जुप्त्वा त्रिः कृत्वो वेदसंहिताम् ॥२१॥सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत् ॥यागस्थक्षत्त्रविड्घाते चरेद्ब्रह्महणो व्रतम् ॥२२॥गर्भहा वा यथावर्णं तथात्रेयीनिषू (सू) दनम् ॥चरेद्वरतमहत्वापि घातनार्थमुपागतः ॥२३॥द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमाचरेत् ॥सुराम्बुघृतगोमूत्रं पीत्वा शुद्धिः सुरापिणः ॥२४॥अग्निवर्णं घृतं वापि चीरवास जटी भवेत् ॥व्रतं ब्रह्महणः कुर्य्यात्पुनः संस्कारमर्हति ॥२५॥रेतेविण्मूत्रपानाच्च सुरापा ब्राह्मणी तथा ॥पतिलोकपरिभ्रष्टा गृध्री स्यात्सूकरी शुनी ॥२६॥स्वर्णहारी द्विजो राज्ञे दत्त्वा तु मुसलं तथा ॥कर्मणः ख्यापनं कृत्वा हतस्तेन भवेच्छुचिः ॥२७॥आत्मतुल्यं सुवर्णं वा दत्त्वा शुद्धिमियाद्द्विजः ॥शयने सार्द्धमायस्यां योषिता निभृतं स्वपेत् ॥२८॥उच्छेद्य लिङ्गं वृषणं नैर्ऋत्यामुत्सृजोद्दिशि ॥प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः ॥२९॥चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम् ॥पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः ॥३०॥गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥उपपातकशुद्धिः स्याच्चान्द्रायणव्रतेन च ॥३१॥पयसा वापि मासेन पराकेणापि वा पुनः ॥ऋषभैकं सहस्त्रं गा दद्यात्क्षत्त्रवधे पुमान् ॥३२॥ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥वैश्यहाऽब्दं च (ब्दांश्च) रेदेतद्दद्याद्वैकशतं गवाम् ॥३३॥षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश ॥अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ॥३४॥मार्जारगोधानकुलपशुमण्डूकघातनात् ॥पिबेत्क्षीरं त्र्यहं पापी कृच्छ्रं वाप्यधिकं चरेत् ॥३५॥गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम् ॥खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायणः ॥३६॥वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् ॥अवकीर्णो भवेद्गत्त्वा ब्रह्मचारी च योषितम् ॥३७॥गर्दभं पशुमालभ्य नैर्ऋतं च विशुध्यति ॥मधुमांसाशने कार्य्यं कृच्छ्रं शेषव्रतानि च ॥३८॥कृच्छ्रत्रयं गुरुः कुर्य्यान्म्रियेत् प्रहितो यदि ॥प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ॥३९॥रिपून्धान्यप्रदानाद्यैः स्नेहाद्यैर्वाप्युपक्रमेत् ॥क्रियमाणोपकारे च मृते विप्रे न पातकम् ॥४०॥महापापोपपापाभ्यां योभिशस्तो मृषा परम् ॥अब्भक्षो मासमासीत स जापी नियतन्द्रियः ॥४१॥अनियुक्तो भ्रातृभार्य्यां गच्छंश्चान्द्रायणं चरेत् ॥त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां शुचिर्भवेत् ॥४२॥गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रती ॥गायत्त्रीजप्यनिरतो मुच्यतेऽसत्प्रतिग्रहात् ॥४३॥त्रिः कृच्छ्रमाचरेद्व्रात्ययाजकोऽपि चरन्नपि ॥वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतान् ॥४४॥प्राणायामत्रयं कुर्य्यात्खरयानोष्ट्रयानगः ॥नग्नः स्नात्वा च सुप्त्वा च गत्वा चैव दिवा स्त्रियम् ॥४५॥गुरुंत्वं कृत्य हुंकृत्य विप्रं निर्जित्य वाद तः ॥प्रसाद्य तं च मुनयस्ततो ह्युपवसेद्दिनम् ॥४६॥विप्रे दण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने ॥देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ॥४७॥प्रायश्चितं प्रकल्प्यं स्याद्यत्र योक्ता तु निष्कृतिः ॥गर्भत्यागो भर्त्तृनिन्दा स्त्रीणां पतनकारणम् ॥४८॥एष ग्रहान्तिके दोषः तस्मात्तां दूतरस्त्यजेत् ॥विख्यातदोषः कुर्वीत गुरोरनुमतं व्रतम् ॥४९॥असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥त्रिरात्रोपोषणो जप्त्वा ब्रह्महा त्वघमर्षणम् ॥५०॥अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम् ॥लोमभ्यः स्वाहेति ऋचा दिवसं मारुताशनः ॥५१॥जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः ॥त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ॥५२॥सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः ॥सहस्त्रशीर्षाजप्येन मुच्यते गुरुतल्पगः ॥५३॥प्राणायामशतं कुर्य्यात्सर्वपापापनुक्त्ये ॥ॐकाराभियुतं सोमसलिलप्रशनाच्छुचिः ॥५४॥कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः ॥अज्ञानकृतपापस्य नाशः सन्ध्यात्रये कृते ॥५५॥रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः ॥वेदाभ्यासरतं शान्तं पञ्चयज्ञक्रियापरम् ॥५६॥न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः ॥जप्त्वा सहस्त्रगायत्त्रीं शुचिर्ब्रह्महणादृते ॥५७॥ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता ॥अहिंसा स्तेयमाधुर्य्ये दमश्चैते यमाः स्मृताः ॥५८॥स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः ॥तपोऽक्रोधो गुरोर्भक्तिः शौचं च नियमाः स्मृताः ॥५९॥पञ्चगव्यं तु गोक्षीरं दधिमूत्रशकृद्घृतम् ॥जग्ध्वा परेह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् ॥६०॥पृथक् सान्तपनैर्द्रव्यैः षडहः सोपवासकः ॥सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥६१॥पर्णोदुम्बरराजीवबील्वपत्रकुशोदकैः ॥प्रत्येकं प्रत्यहाभ्यस्तैः पर्ण कृच्छ्र उदाहृतः ॥६२॥तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ॥एकरात्रोपवासश्च तप्तकृच्छ्रश्च पावनः ॥६३॥एकभक्तेन नक्तेन तथैवायाचितेन च ॥उपवासेन चैकेन पादकृच्छ्र उदाहृतः ॥६४॥यथा कथञ्चित्त्रिगुणः प्रजापत्योऽयमुच्यते ॥अयमेवातिकृच्छ्रः स्यात्पाणिपूर्णाम्बुभोजनात् ॥६५॥कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥६॥द्वादशाहोपवासैश्च पराकः समुदाहृतः ॥६६॥पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ॥एकैकमुपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥६७॥एषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमात् ॥तुलापुरुष इत्येष ज्ञेयः पंचदशाहिकः ॥६८॥तिथिपिण्डांश्चरेद्वृद्ध्या शुक्ले शिख्यण्डसम्मितान् ॥एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत् ॥६९॥यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् ॥मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥७०॥कृत्वा त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् ॥पवित्राणि जपेत्पिण्डान् गायत्त्र्या चाभिमन्त्रयेत् ॥७१॥ अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु ॥धर्मार्थो यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ॥७२॥कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमश्नुते ॥७३॥इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तप्रायश्चित्तविवेको नाम पञ्चोत्तरशततमोऽध्यायः ॥१०५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP